मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 55, कुल 1023 में से
संदर्भ में पढ़ें[खं. १ अ. २३] [पान ५५]
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच ॥ धन्योऽसि योगिराजोऽसि भक्तराजेन्द्रता च ते। मदीयं भाग्ययोगेन संप्राप्तं दर्शनं प्रभो ॥१॥ अष्टौ ये गणराजस्य ह्यवताराः प्रकीर्तिताः। तान् मे कथय योगीश विस्तरेण महामुने ॥२॥ दैत्याः संनिहिता- स्तैस्तु तेषां जन्मादिकं परम्। सकलं युद्धभागं मां कथयस्व विशेषतः ॥३॥ एतादृशा महादैत्या न श्रुताः कुत्रचित्प्रभो। विस्मापयति चेयं मां कथा पापापनोदिनी ॥४॥ मुद्गल उवाच। प्रजापते कथां दिव्यां तव भावनियंत्रितः। कथयामि समासेन गणनाथप्रमोदिनीम् ॥५॥ प्रथमं वक्रतुंडस्य चरित्रं शृणु पुण्यदम्। मत्सरासुरयुद्धं च गणेशेन महाद्भुतम् ॥६॥ इंद्रस्येंद्रपदप्राप्तिर्जाता यस्मिन् दिने परा। तस्मिन् दिने महोत्साहो वार्षिकः क्रियते मुने ॥७॥ कदाचिदमरावत्यां महोत्सवपरायणः। सुभद्रासनगोतिष्ठद्देवेंद्रः सर्वपूजितः ॥८॥ तावद्देवाः सगंधर्वा अप्सराभिः समागताः। नागा यक्षा मुनींद्राश्च राक्षसा देवयोषितः ॥९॥ आगतो भगवांस्तत्र सर्वभूतगणैर्वृतः। स्कंदनंदीश्वराद्यैश्च पार्वत्या सह शंकरः ॥१०॥ लक्ष्म्या सह स्वयं विष्णुर्विष्वक्सेनादिभिर्गणैः। वेदादिभिर्वृतो ब्रह्मा प्रजापतिभिराययौ ॥११॥ सर्वग्रहैः समायुक्तो भानुस्तत्रागमत् स्वयम्। अग्निश्च धर्मराजश्च कुबेरो वरुणस्तथा ॥१२॥ आदित्या मनवश्चैव वसवो रुद्रकास्तथा। साध्या विद्याधरा विश्वेदेवास्तत्राययुः प्रभो ॥१३॥ अश्विनौ शेषनागश्च बहवस्तत्र चागताः। उपविष्टा मुदा युक्ता उत्सवे वै शतक्रतोः ॥१४॥ तत्र नाना कथाश्चक्रुरानंदपरिवर्धिनीः। मुनयो भावसंयुक्ताः पुरातनभवा मुने ॥१५॥ नृत्यमप्सरसश्च- क्रुर्गंधर्वा ललितं जगुः। हाहाहूहूमुखा अन्ये तुंबुरुर्नारदस्तथा ॥१६॥ वादयन्ति स्म वादित्रं तान् स्तुवंति स्म चारणाः। हृष्टा पुष्टा जनास्तत्र स्त्रियः परमहर्षिताः ॥१७॥ तत्र रंभा विचित्राणि नृत्यादीनि चकार ह। हावभावप्रयुक्तानि चेष्टितानि प्रजापते ॥१८॥ कंदुकक्रीडनोद्युक्ता सभायां यत्र तत्र सा। बभ्राम तां प्रपश्यन् सन्निंद्रोऽभूत् कामपीडितः ॥१९॥ मोहितो मंजुलरवैर्नृत्यादिकलया तथा। कर्तव्यं नैव संजज्ञौ तन्मनाः स सुरेश्वरः ॥२०॥ शीघ्रमेव समाप्तं तमुत्सवं कृतवान् स्वयम्। सर्वे स्वस्वस्थलं जग्मुर्मानिता हर्षिता विभो ॥२१॥ रंभां निमंत्र्य चेंद्रश्च जगाम वनमेकलः। नानापरिमलैर्युक्ता यत्र वृक्षाः सुपुष्पिताः ॥२२॥ नानाप्रस्रवयुक्तानि निर्मलानि जलानि च। सुवर्णपद्मशोभानि षट्पदैः शोभितानि च ॥२३॥ इत्यादिकामपुष्टानि नानावस्तुयुतानि च। वनानि तत्र रेमे साविंद्रः कामविमोहितः ॥२४॥ रंभायासक्तचित्तस्य वज्रिणः क्रीडतो भृशम्। न तृप्तिरभवत्तत्र घृतेन दहनस्य वा ॥२५॥ तत्राजगाम दुर्वासाः स्वेच्छया विचरन् मुनिः। तं दृष्ट्वा लज्जितो