मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 56, कुल 1023 में से
संदर्भ में पढ़ेंराजा देवानां विनयं श्रितः ॥२६॥ त्यक्त्वा रंभां नमस्कृत्य तं मुनिं प्रांजलिः स्थितः । तादृशं तं परित्यज्य जगाम मुनिसत्तमः ॥२७॥ अतिविह्वलगात्रत्वाच्चस्कंद सुरशत्रुहा । रेतोऽभूत् पतितं भूमौ तस्माद्दैत्यसमुद्भवः ॥२८॥ इंद्रोऽपि स्वगृहं गत्वा रंभां त्यक्त्वा चकार ह । सुराणामखिलं राज्यमात्मानं निंदयन्मुहुः ॥२९॥ अहो धिक् बत राज्यं मे सुराणां स्त्रीजितस्य च । असुराणामिवात्यंतं मनो मे चंचलं भृशम् ॥३०॥ पुंश्चल्या मोहितं नित्यं धिङ् मां साध्वभिनिंदितम् । कुकर्मकृत्यदोषाच्च भयमग्रे भविष्यति ॥३१॥ इत्येवमात्मनात्मानं निंदयामास देवपः । स्वधर्मे संस्थितो दक्ष वृत्तहा पुनरेव च ॥३२॥ इंद्रवीर्याच्च कालेन भूम्यां जातो महासुरः । तं पृथिवी पालयामास स्तनपानादिना भृशम् ॥३३॥ स तु संववृधे तत्र हिमाचल इवापरः । आजानुबाहुर्दीर्घाक्षो महावक्षा महाबलः ॥३४॥ रक्तवर्णः क्रूरकर्मा यथाग्निरूर्ज्वलितो बभौ । नाम तस्याऽकरोद्भूमिर्मत्सरेति स्वभावतः ॥३५॥ पंचवर्षवयोगस्य चोपवीतप्रदानकम् । ब्राह्मणैः कारयामास धरित्री स्नेहभावतः ॥३६॥ स तु वेदादिकं सर्वं शिक्षितुं गुरुसन्निधौ । स्थित आर्जवसंयुक्तो ग्राहकः श्रवणेन वै ॥३७॥ महाबुद्धिः स कालेनाल्पेन वेदादिपारगः । दुर्बुद्धेः कन्यकां रम्यां तामुवाह विलासिनीम् ॥३८॥ नाम्ना मदकराख्याता सर्वावयव- शोभिनी । चतुरा सर्वकार्येषु विषयस्य विवर्धिनी ॥३९॥ एकस्मिन् दिवसे तस्य मतिर्जाता दुरात्मनः । विपुलं सुतपस्तप्त्वा जेयं ब्रह्मांडमोजसा ॥४०॥ स शुक्रमुपसंगम्य विद्यां पंचाक्षरीमगात् । तपसा च तया शंभुं तोषयामास भक्तितः ॥४१॥ निर्जने वन एकांते पुष्पपल्लवशोभिते । कंदमूलफलोपेते सुजले संस्थितोऽतपत् ॥४२॥ दिव्यवर्षसहस्रं स निराहारतया स्थितः । जपन् पंचाक्षरं मंत्रं ध्यात्वा हृदि सदाशिवम् ॥४३॥ दीक्षां पाशुपतीं धृत्वा तोषयामास शंकरम् । तस्य प्रतपसा देवाः क्षुभिताश्च समंततः ॥४४॥ न प्रकाशो खेरासीन्नाग्निर्जज्वाल भास्करः । भूतान्याकुलतां तत्र प्राप्तानि तपसो बलात् ॥४५॥ देवाः सर्षिगणाः सर्वे शंकरं शरणं ययुः । मत्सरस्य तपस्तप्तान् रक्ष नो जगदीश्वर ॥४६॥ शंकरस्तैः समायुक्तः पार्वत्या स्वगणैः सह । तं देशमगमद् दृष्टो भक्तं ज्ञातुं महाद्भुतम् ॥४७॥ अस्थित्वचासमायुक्तं श्वास- मात्रावशेषितम् । हीनांगमावृतं तत्र वल्मीकेन समंततः ॥४८॥ महोग्रतपसा युक्तं देवाः सर्वे विसिस्मिरे । ऋषयोऽपि महाभागा दृष्ट्वा तं तापसं परम् ॥४९॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः ॥