मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 556, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. १३ पान २७ दैत्यो महिषासुरसंज्ञितः । युयुधे तां महाभागां नानाशास्त्रास्त्रकैः परैः ॥२६॥ युद्धं तत्र महाघोरं जातं तद्भयदायकम् । सर्वेषां च प्रजानाथ परस्परजयैषिणोः ॥२७॥ एकवर्षं महादैत्यो युयुधे च तया पुरा । ततः कोपसमायुक्तः पर्वतं चिक्षिपे- ऽसुरः ॥२८॥ पर्वताघातमात्रेण मूर्च्छितां जगदंबिकाम् । तादृशीं तां गृहीत्वा स गंतुं यावन्मनो दधे ॥२९॥ तावत् सा सावधानाऽभूत् दृष्ट्वा दैत्यं महाबलम् । अंतर्धाय स्वमात्मानं ययौ देवी हिमालयम् ॥३०॥ तत्र खेदसमायुक्ता सा चेतसि दधार ह । अहोऽहं मनसा सर्वं भस्म कुर्यां क्षणार्धतः ॥३१॥ स्त्रीहस्तेन महादैत्यो मरिष्यति न संशयः । तथाऽपि मां जिगायैव यशोयुक्तोऽभवत् कथम् ॥३२॥ अतो विघ्नेश्वरेणैव कृतो विघ्नो न संशयः । भ्रांताऽहं तमपूज्याऽऽदौ गता संग्राम- मंडले ॥३३॥ अहो शक्तिस्वरूपाऽहं मच्छक्त्या वर्ततेऽखिलम् । जिता शक्तिविहीना च जाता कौतुकमुत्तमम् ॥३४॥ अतः शक्तिरशक्तत्वं ममाधीनं न वर्तते । विघ्नराजस्य सत्ता या सत्या साऽन्यत्र भ्रांतिजा ॥३५॥ यदा गणेश्वरस्तुष्टस्तदा जीवा महेश्वराः । ब्रह्माणि शक्तिरूपाणि शक्तं नान्यत् कदाचन ॥३६॥ एवं मनसि संधार्य सती संतापसंयुता । त्यक्त्वा सर्वं तपस्तेपे निराहारपरायणा ॥३७॥ विंध्याचलं समासाद्य संस्थिता जगदंबिका । विघ्नराजं हृदि ध्यात्वा जजाप मंत्रमुत्तमम् ॥३८॥ एवं वर्षसहस्रेणैकाक्षरं विधिना तथा । तपसोग्रेण विघ्नेशः संतुष्टस्तां ययौ परम् ॥३९॥ अस्थिचर्माव- शेषां तां वीक्ष्य विस्मितमानसः । बोधयामास शक्तिं स विघ्नेशः करुणानिधिः ॥४०॥ विघ्नेश उवाच । पश्य शक्ते च मां प्राप्तं यं ध्यायसि निरंतरम् । वरं दातुं वृणुष्व त्वं दास्यामि भक्तियंत्रितः ॥४१॥ भक्त्या च तपसा देवि संतुष्टं ते विशेषतः । तवाधीनं न संदेहः पश्य मां वरदायिनम् ॥४२॥ तस्य तद्वचनं श्रुत्वा जगदंबा बुबोध च । अपश्यद्गणराजं तमुत्थाय प्रणनाम सा ॥४३॥ पुपूज भक्तिसंयुक्ता तुष्टाव करसंपुटैः । पुनः प्रणम्य विघ्नेशं सर्वसिद्धिप्रदायकम् ॥४४॥ शक्तिरुवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥४५॥ गणेशाय गणानां वै पालकाय परात्मने । गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥४६॥ अमेयशक्तये चैवामेयमायाप्रचालक । मायाहीन- स्वरूपाय मायिभ्यो मोहदायिने ॥४७॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः । ब्रह्मणे ब्रह्मरूपाय हेरंबाय नमो नमः ॥४८॥ कर्मणां फलदात्रे ते कर्मणां कर्मधारक । कर्मयोगस्वरूपाय परेशाय नमो नमः ॥४९॥ ज्ञानानां ज्ञानरूपाय ज्ञानिनां ज्ञानधारिणे । सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः ॥५०॥ समाय च स्वरूपाय समेभ्यः साम्यदाय ते ।