मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 555, कुल 1023 में से
संदर्भ में पढ़ेंपान २६
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। पुरा दैत्याधिपः क्रूरो ब्रह्मणो वरदानतः। महिषासुरनामाऽथ बभूव भुवनाधिपः ॥१॥ जित्वा देवगणान् सर्वांस्तथा स्वर्गेषु दैत्यपान्। स्थापयामास दुर्बुद्धिरवध्यः सर्वभावतः ॥२॥ ततः कर्मविहीनं वै चकार स धरातलम्। अभवन्नमराः सर्वे उपोषणपरास्ततः ॥३॥ ततो देवर्षिभिस्तत्र तपसाऽऽराधिताऽभवत्। शक्तिः सर्वमयी साक्षादसत्स्वानंदवासिनी ॥४॥ प्रगतेषु सहस्रे वै वर्षेषु प्रकटाऽभवत्। वरदानैर्वृता देवी वधाय महिषस्य सा ॥५॥ पुरुषात्तस्य भवति न भयं महिषस्य च। जिता वयं महादेवि रक्ष नो महतो भयात् ॥६॥ तस्य नाशं कुरुष्व त्वं सर्वेषां सुखकारणात्। पुत्रास्ते च वयं देवि रक्ष रक्ष महाभयात् ॥७॥ तथेति तानुवाचैव सिंहगा क्रोधसंयुता। ययौ दैत्यवधार्थं सा महामाया प्रजापते ॥८॥ स्थिता वनांतरे धृत्वा मोहिनीरूपकं जगौ। गानं रसयुतं शक्तिः शुश्रुवे तत्र कोऽसुरः ॥९॥ स आगत्य महाशक्तिं दृष्ट्वा मोहयुतोऽभवत्। गत्वा दैत्याधिपं सद्यः कथयामास विस्तरात् ॥१०॥ न ब्रह्मांडॆ समं किंचित्तया रूपेण तेजसा। स्त्रीरत्नं तद्विजानीहि राज्यभोगी गृहाण च ॥११॥ दैत्यस्य वचनं श्रुत्वा मोहयुक्तो महासुरः। प्रधानं प्रेषयामास तां समानेतुमादरात् ॥१२॥ प्रधानेन महामाया दृष्टा मोहविवर्धिनी। मोहितः स उवाचाथ तां सर्वातिग- रूपिणीम् ॥१३॥ महिषो देवि सर्वस्य ब्रह्मांडस्य पतिः परः। मृत्युहीनः सदा यौवनशाली शोभया युतः ॥१४॥ तेनाऽहं प्रेषितो नूनं त्वदर्थं रूपशालिनि। भव पत्नी महाभागे दैत्येशस्य महात्मनः ॥१५॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्ता बभूव ह। जगाद तं मदोत्सिक्तं दैत्यामात्यं प्रजापते ॥१६॥ शक्तिरुवाच। परस्याऽहं महादैत्य स्त्री किं वदसि मां वचः। मूढवत्त्वां हनिष्यामि पुनर्भाषणसंयुक्तम् ॥१७॥ तस्यास्तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः। दैत्यानाज्ञापयामास तां समानेतुमादरात् ॥१८॥ तदाज्ञया महादैत्याः समाजग्मुः समंततः। तान् दृष्ट्वा क्रोधसंयुक्ता सा बभूव यशस्विनी ॥१९॥ क्रोधानलेन सर्वान् सा ददाह च प्रजापते। तद् दृष्ट्वा परमाश्र्चर्यं पपाल सचिवो भयात् ॥२०॥ ज्ञात्वा वृत्तांतमुग्रं स महिषो मोहसंयुतः। स्वयं सैन्यसमायुक्त आययौ तां यशस्विनीम् ॥२१॥ तां दृष्ट्वा कामबाणैः स विद्धो दैत्याधिपः स्वयम्। सचिवान् प्रेषयामास धर्तुं समीपसंस्थिताम् ॥२२॥ देव्या शस्त्रप्रहारेण हताः सर्वे प्रजापते। ततोऽतिकोपसंयुक्तः स्वयं रणसमागतः ॥२३॥ समागतं महादैत्यं देवी क्रोधसमन्विता। धनुः सज्जमथो कृत्वा बाणान् चिक्षेप दारुणान् ॥२४॥ तद्बाणैरपि दैत्येशा मृताः केचिद्रणाजिरे। केचिच्छिन्नास्तथा केचिन् मूर्च्छिताः संबभूविरे ॥२५॥ ततः कोपयुतो