भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पान २६

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। पुरा दैत्याधिपः क्रूरो ब्रह्मणो वरदानतः। महिषासुरनामाऽथ बभूव भुवनाधिपः ॥१॥ जित्वा देवगणान् सर्वांस्तथा स्वर्गेषु दैत्यपान्। स्थापयामास दुर्बुद्धिरवध्यः सर्वभावतः ॥२॥ ततः कर्मविहीनं वै चकार स धरातलम्। अभवन्नमराः सर्वे उपोषणपरास्ततः ॥३॥ ततो देवर्षिभिस्तत्र तपसाऽऽराधिताऽभवत्। शक्तिः सर्वमयी साक्षादसत्स्वानंदवासिनी ॥४॥ प्रगतेषु सहस्रे वै वर्षेषु प्रकटाऽभवत्। वरदानैर्वृता देवी वधाय महिषस्य सा ॥५॥ पुरुषात्तस्य भवति न भयं महिषस्य च। जिता वयं महादेवि रक्ष नो महतो भयात् ॥६॥ तस्य नाशं कुरुष्व त्वं सर्वेषां सुखकारणात्। पुत्रास्ते च वयं देवि रक्ष रक्ष महाभयात् ॥७॥ तथेति तानुवाचैव सिंहगा क्रोधसंयुता। ययौ दैत्यवधार्थं सा महामाया प्रजापते ॥८॥ स्थिता वनांतरे धृत्वा मोहिनीरूपकं जगौ। गानं रसयुतं शक्तिः शुश्रुवे तत्र कोऽसुरः ॥९॥ स आगत्य महाशक्तिं दृष्ट्वा मोहयुतोऽभवत्। गत्वा दैत्याधिपं सद्यः कथयामास विस्तरात् ॥१०॥ न ब्रह्मांडॆ समं किंचित्तया रूपेण तेजसा। स्त्रीरत्नं तद्विजानीहि राज्यभोगी गृहाण च ॥११॥ दैत्यस्य वचनं श्रुत्वा मोहयुक्तो महासुरः। प्रधानं प्रेषयामास तां समानेतुमादरात् ॥१२॥ प्रधानेन महामाया दृष्टा मोहविवर्धिनी। मोहितः स उवाचाथ तां सर्वातिग- रूपिणीम् ॥१३॥ महिषो देवि सर्वस्य ब्रह्मांडस्य पतिः परः। मृत्युहीनः सदा यौवनशाली शोभया युतः ॥१४॥ तेनाऽहं प्रेषितो नूनं त्वदर्थं रूपशालिनि। भव पत्नी महाभागे दैत्येशस्य महात्मनः ॥१५॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्ता बभूव ह। जगाद तं मदोत्सिक्तं दैत्यामात्यं प्रजापते ॥१६॥ शक्तिरुवाच। परस्याऽहं महादैत्य स्त्री किं वदसि मां वचः। मूढवत्त्वां हनिष्यामि पुनर्भाषणसंयुक्तम् ॥१७॥ तस्यास्तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः। दैत्यानाज्ञापयामास तां समानेतुमादरात् ॥१८॥ तदाज्ञया महादैत्याः समाजग्मुः समंततः। तान् दृष्ट्वा क्रोधसंयुक्ता सा बभूव यशस्विनी ॥१९॥ क्रोधानलेन सर्वान् सा ददाह च प्रजापते। तद् दृष्ट्वा परमाश्र्चर्यं पपाल सचिवो भयात् ॥२०॥ ज्ञात्वा वृत्तांतमुग्रं स महिषो मोहसंयुतः। स्वयं सैन्यसमायुक्त आययौ तां यशस्विनीम् ॥२१॥ तां दृष्ट्वा कामबाणैः स विद्धो दैत्याधिपः स्वयम्। सचिवान् प्रेषयामास धर्तुं समीपसंस्थिताम् ॥२२॥ देव्या शस्त्रप्रहारेण हताः सर्वे प्रजापते। ततोऽतिकोपसंयुक्तः स्वयं रणसमागतः ॥२३॥ समागतं महादैत्यं देवी क्रोधसमन्विता। धनुः सज्जमथो कृत्वा बाणान् चिक्षेप दारुणान् ॥२४॥ तद्बाणैरपि दैत्येशा मृताः केचिद्रणाजिरे। केचिच्छिन्नास्तथा केचिन् मूर्च्छिताः संबभूविरे ॥२५॥ ततः कोपयुतो

खं. ५ अ. १३ पान २७ दैत्यो महिषासुरसंज्ञितः । युयुधे तां महाभागां नानाशास्त्रास्त्रकैः परैः ॥२६॥ युद्धं तत्र महाघोरं जातं तद्भयदायकम् । सर्वेषां च प्रजानाथ परस्परजयैषिणोः ॥२७॥ एकवर्षं महादैत्यो युयुधे च तया पुरा । ततः कोपसमायुक्तः पर्वतं चिक्षिपे- ऽसुरः ॥२८॥ पर्वताघातमात्रेण मूर्च्छितां जगदंबिकाम् । तादृशीं तां गृहीत्वा स गंतुं यावन्मनो दधे ॥२९॥ तावत् सा सावधानाऽभूत् दृष्ट्वा दैत्यं महाबलम् । अंतर्धाय स्वमात्मानं ययौ देवी हिमालयम् ॥३०॥ तत्र खेदसमायुक्ता सा चेतसि दधार ह । अहोऽहं मनसा सर्वं भस्म कुर्यां क्षणार्धतः ॥३१॥ स्त्रीहस्तेन महादैत्यो मरिष्यति न संशयः । तथाऽपि मां जिगायैव यशोयुक्तोऽभवत् कथम् ॥३२॥ अतो विघ्नेश्वरेणैव कृतो विघ्नो न संशयः । भ्रांताऽहं तमपूज्याऽऽदौ गता संग्राम- मंडले ॥३३॥ अहो शक्तिस्वरूपाऽहं मच्छक्त्या वर्ततेऽखिलम् । जिता शक्तिविहीना च जाता कौतुकमुत्तमम् ॥३४॥ अतः शक्तिरशक्तत्वं ममाधीनं न वर्तते । विघ्नराजस्य सत्ता या सत्या साऽन्यत्र भ्रांतिजा ॥३५॥ यदा गणेश्वरस्तुष्टस्तदा जीवा महेश्वराः । ब्रह्माणि शक्तिरूपाणि शक्तं नान्यत् कदाचन ॥३६॥ एवं मनसि संधार्य सती संतापसंयुता । त्यक्त्वा सर्वं तपस्तेपे निराहारपरायणा ॥३७॥ विंध्याचलं समासाद्य संस्थिता जगदंबिका । विघ्नराजं हृदि ध्यात्वा जजाप मंत्रमुत्तमम् ॥३८॥ एवं वर्षसहस्रेणैकाक्षरं विधिना तथा । तपसोग्रेण विघ्नेशः संतुष्टस्तां ययौ परम् ॥३९॥ अस्थिचर्माव- शेषां तां वीक्ष्य विस्मितमानसः । बोधयामास शक्तिं स विघ्नेशः करुणानिधिः ॥४०॥ विघ्नेश उवाच । पश्य शक्ते च मां प्राप्तं यं ध्यायसि निरंतरम् । वरं दातुं वृणुष्व त्वं दास्यामि भक्तियंत्रितः ॥४१॥ भक्त्या च तपसा देवि संतुष्टं ते विशेषतः । तवाधीनं न संदेहः पश्य मां वरदायिनम् ॥४२॥ तस्य तद्वचनं श्रुत्वा जगदंबा बुबोध च । अपश्यद्गणराजं तमुत्थाय प्रणनाम सा ॥४३॥ पुपूज भक्तिसंयुक्ता तुष्टाव करसंपुटैः । पुनः प्रणम्य विघ्नेशं सर्वसिद्धिप्रदायकम् ॥४४॥ शक्तिरुवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥४५॥ गणेशाय गणानां वै पालकाय परात्मने । गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥४६॥ अमेयशक्तये चैवामेयमायाप्रचालक । मायाहीन- स्वरूपाय मायिभ्यो मोहदायिने ॥४७॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः । ब्रह्मणे ब्रह्मरूपाय हेरंबाय नमो नमः ॥४८॥ कर्मणां फलदात्रे ते कर्मणां कर्मधारक । कर्मयोगस्वरूपाय परेशाय नमो नमः ॥४९॥ ज्ञानानां ज्ञानरूपाय ज्ञानिनां ज्ञानधारिणे । सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः ॥५०॥ समाय च स्वरूपाय समेभ्यः साम्यदाय ते ।

आनंदानंदकंदाय समहीनाय ते नमः ॥५१॥ सहजाय विहीनाय सहजैः सहजात्मने । सहजानां तु योगाय निर्मोहाय नमो नमः ॥५२॥ स्वानंदाय सदा स्वानंदानां स्वानंदमूर्तये । मायायुक्ताय देवेश सर्वाधीशाय ते नमः ॥५३॥ अयोगाय सदा ब्रह्मनिवृत्तिं धारिणे नमः । असंप्रज्ञातभावाय लंबोदर नमो नमः ॥५४॥ शांतिरूपाय योगाय योगेभ्यो योगदाय ते । चित्तभूमिविहीनाय नमश्चितामणे नमः ॥५५॥ क्षमापराधकं नाथ विस्मृत्या भ्रमसंयुता । अप्रपूज्य गणाधीश गता योद्धुं परात्परम् ॥५६॥ अधुना मे वरं देहि त्वत्पादरसदायकम् । महाभक्तिप्रदं नाथ येनाऽहं तोषिता त्वया ॥५७॥ जयं देहि गणाधीश महिषस्य वधाय वै । रतायै देवदेवेश नमस्ते परमेश्वर ॥५८॥ एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः । तेन युक्ता ननर्त्तैव साश्रुनेत्रा प्रजापते ॥५९॥ लंबोदरस्तादृशीं स निरीक्ष्यैव जगाद ताम् । त्वया यद्याचितं देवि तत् सर्वं सफलं भवेत् ॥६०॥ त्वया कृतमिदं स्तोत्रं भवेद् भक्तिरसप्रदम् । अपराधस्य देवेशि सहने कारणं मयि ॥६१॥ भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेणाऽहं हि संस्तुतः । यं यं चिंतयसे कामं तं तं दास्यामि निश्चितम् ॥६२॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः । शक्तिः खिन्नैव तत्रैव संस्थिता ध्यानसंयुता ॥६३॥ स्थापयामास मूर्तिं सा ब्राह्मणैर्वेदपारगैः । पूजयामास तां तत्र ततो योद्धुं समागता ॥६४॥ तदादि गणराजस्य स्थानं तत् पप्रथे भुवि । सर्वसिद्धिकरं पूर्णं यात्राकारि जनस्य च ॥६५॥ ब्रह्मभूयप्रदं पूर्णं तत्रैव मरणे सति । विघ्नेश्वरस्य दक्षैतद् बभूवे सर्वदा प्रियम् ॥६६॥ महिषासुरकं देवी जघान वरदानतः । युद्धं कृत्वा महाघोरं जगद्रक्षणलालसा ॥६७॥ पुनः समागता देवी विघ्नेशक्षेत्रके प्रभो । तत्र नित्यं महाभक्त्या भजते गणनायकम् ॥६८॥ इदं लंबोदरस्यैव चरित्रं सर्वदं परम् । यः शृणोति नरो भक्त्या पठेद्वा तस्य संभवेत् ॥६९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः ॥

खं. ५ अ. १४ | पान २९


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु महाभाग लंबोदरचरित्रकम् । शक्त्यधीनस्वभावारूयं सर्वसिद्धिप्रदायकम् ॥१॥ एकदा मिलिता देवाः सर्वे तत्र प्रजापते । विंध्ये देशे महाक्षेत्रे यात्रार्थं गणपस्य च ॥२॥ तत्र वादः समुत्पन्नो मुनीनां सर्वसन्निधौ । पंच देवाः समानाश्च सगुणा निर्गुणा मताः ॥३॥ कथं विघ्नेश्वरो देवः सर्वपूज्यो बभूव ह । सर्वादौ पूजनीयः स चतुर्भिरपि निश्चितम् ॥४॥ अन्यदेवस्य भक्तैश्चेष्टदेवाद्दौ गजाननः । पूजनीयः प्रयत्नेन किमिदं विपरीतकम् ॥५॥ गणेशोच्छिष्टभोक्तारो देवा विष्णुशिवादयः । इदं किं वेदवादेषु कथितमादिपूज्यतः ॥६॥ यथा देवाश्च चत्वारस्तथाऽयं गणनायकः । स्वस्वभक्तविधानेन पूजनीयो यदा भवेत् ॥७॥ तदा सर्वं समीचीनं स्वस्वमार्गपरं भवेत् । शुभाशुभे गणाधीशः सर्वादौ संमतः कथम् ॥८॥ इति प्राप्ते विवादे तु शक्तिः क्रोधसमन्विता । जगाद तान् मुनीन् सर्वान् देवांस्तद्धितकाम्यया ॥९॥ शक्तिरुवाच । लंबोदरोऽयमेकश्च वेदे संकथितोऽभवत् । न वयं तादृशा विप्रा लंबोदरप्रवाचकाः ॥१०॥ तस्योदरात् समुत्पन्नं नाना विश्वं न संशयः । नाना ब्रह्म तथेशाश्च तत्रांते संस्थिता बभुः ॥११॥ मध्ये कलांशरूपेण क्रीडते गणनायकः । अतः सर्वादिपूज्यः स सर्वपूज्यो बभूव ह ॥१२॥ सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ ॥१३॥ तस्यास्तद्वचनं श्रुत्वा जगदंबामुवाच ह । शंकरः क्रोधसंयुक्तस्तथा विष्णुश्च मानद ॥१४॥ शिवविष्णू ऊचतुः । किं शक्ते वदसि प्रेम्णा गणेशे भक्तिभाविता । वयं पंच समानाश्च तत्राधिक्यं न विद्यते ॥१५॥ परस्परं च देवेशि भावयामो न संशयः । आधिक्यं तेन किं देवे कत्थसे त्वं गणेश्वरे ॥१६॥ यदि लंबोदरश्चायमेको देवो न संशयः । तस्योदरात् समुत्पन्ना वयं सर्वे सुनिश्चितम् ॥१७॥ तदाधारास्तथांऽते वै तत्र लीना भवामहे । तदा वयं सृजामश्च जगद्ब्रह्म कथं वद ॥१८॥ पालयामो हरामश्चाधिकं भवति किं महः । तथापि वेदवादेषु वयं लंबोदरा नहि ॥१९॥ अतो लंबोदरस्यादौ सामर्थ्यं कीदृशं महत् । पश्यामस्त्वत्सन्निधाने पश्चात्तं प्रभजामहे ॥२०॥ यदाधिक्यं प्रपश्यामस्तदा सर्वादिपूज्यकम् । सर्वपूज्यं करिष्यामो नान्यथा देवि निश्चितम् ॥२१॥ ततः शिवश्च विष्णुश्च कल्पयित्वा ह्यपारक्रम् । नैवेद्यं सत्यसंकल्पौ पूजायां संस्थितौ परौ ॥२२॥ एककालसमाविष्टावावाह्य गणनायकम् । पुपूजतुर्महाभक्त्या छलधर्म- स्वरूपया ॥२३॥ गणेश्वरस्तत्र साक्षात् समायातः प्रजापते । दृष्ट्वाऽपारं स नैवेद्यं विस्मितोऽभूत् स्वेचेतसि ॥२४॥ ध्यानेनालोक्य विघ्नेशो ज्ञात्वा तयोर्हृदि स्थितम् । सत्यसंकल्परूपां तां सिद्धिमाकृष्य संस्थितः ॥२५॥ सिद्धिहीनौ विष्णुशिवौ पूजायां

यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण है:

खं. ५ अ. १४ पान ३० निरतौ मुदा । नैवेद्यं गणराजाय ददतुः परमं ततः ॥२६॥ एकग्रासेन नैवेद्यमपारं गणनायकः । बभक्ष पुनरूचे तौ क्षुधितोऽहं विशेषतः ॥२७॥ तस्य तद्वचनं श्रुत्वा शिवो विष्णुः पुनः प्रभू । नैवेद्यं सत्यसंकल्पात् कल्पयामासतुः पुरः ॥२८॥ तथापि न च नैवेद्यं बभूवाणुस्वरूपकम् । तेन खेदसमायुक्तौ परस्परमथोचतुः ॥२९॥ सत्यसंकल्परूपं यदैश्वर्यं क गतं परम् । आवां नरसमौ जातौ किं भविष्यति दैवतः ॥३०॥ ब्रह्माणानामीश्वराणां च महत् ब्रह्मत्वमैश्वरम् । सत्यसंकल्पभावाख्यं तेन हीना नराः स्मृताः ॥३१॥ अधुना किं करिष्यावो जीवतुल्यौ न संशयः । अयं लंबोदरः क्रोधान्नरके पातयिष्यति ॥३२॥ अथवा मृत्युलोके वै निश्चितं भयमागतम् । कं यावः शरणं नाथं छलनायां परायणौ ॥३३॥ शक्त्या संबोधितं पूर्वं तत्राज्ञानसमन्वितौ । वादं कृत्वा महाविघ्नमावाभ्यां प्रकटीकृतम् ॥३४॥ अधुना शरणं श्रेष्ठं शुभदं प्रभविष्यति । गणेशश्च विशेषेण ब्रह्मनायक एव सः ॥३५॥ ततस्तौ भक्षितुं तत्र क्रोधयुक्तो गजाननः । बभूवाद्भुतरूपश्च दृष्ट्वा तं संप्रपेलतुः ॥३६॥ शक्तेश्चरणमासाद्य पेततुर्भयविह्वलौ । ततः सा तौ समाश्वास्यागृह्य दूर्वां तमाययौ ॥३७॥ प्रणम्य गणनाथं सोवाच कृत्वा करांजलिम् । हृष्टरोमा च सर्वेशी भक्तिनम्रात्मकंधरा ॥३८॥ शक्तिरुवाच । क्षमापराधमत्युग्रं देवदेवेश ते नमः । त्वन्मायागर्वसंयुक्तयोर्विष्णुशिवयोः प्रभो ॥३९॥ समुत्पन्नौ त्वदुदराद् बालभावधरौ तथा । शिवविष्णुगुणे- शानतयोर्दंडं च मा कुरु ॥४०॥ सर्वेषां पोषणे स्वामिंस्त्वं शक्तो नात्र संशयः । त्वदीयपोषणं पूर्णं त्वमेव कुरुषे सदा ॥४१॥ एवमुक्त्वा महामाया तस्मै दूर्वांकुरं ददौ । मनसा कल्पयामासान्नं चतुर्विधमुत्तमम् ॥४२॥ ततो दूर्वांकुरेणैव तृप्तो- ऽभूद्गणनायकः । महाभक्तिं ददौ तस्यै शक्तये भक्तवत्सलः ॥४३॥ प्रसन्नं तं गणाधीशं दृष्ट्वा तत्र समाययौ । हरिश्च शंकरो देवः प्रणम्य प्रोचतुर्वचः ॥४४॥ क्षमापराधमुग्रं नौ गणाधीश विशेषतः । त्वन्मायया मोहितयोः सदा स्वानंददायक ॥४५॥ अधुना ते स्वरूपं यज्जातं पूर्णं महाप्रभो । सर्वादिपूज्य एकस्त्वं सर्वपूज्यो यथातथम् ॥४६॥ एवमुक्त्वा तुष्टुवतुर्गणेशानं महेश्वरौ । अथर्वशिरसा भक्त्या संतुष्टः स ततोऽभवत् ॥४७॥ शक्त्या संप्रार्थितस्तत्र भावयुक्तेन चेतसा । यथापूर्वं शिवो विष्णुस्तादृशौ स चकार ह ॥४८॥ संकल्पसिद्धिसंयुक्तौ संबभूवतुरिश्वरौ । सदा भक्तिसमायुक्तौ भजतो गणनायकम् ॥४९॥ संशयेन विहीनाश्च जाता देवर्षयो जनाः । पूर्णभावयुतं ढुंढिमभजंस्ते विमत्सराः ॥५०॥ न गणेशात् परं किंचित्तस्मादादौ गणेश्वरः । अंते सोऽपि न संदेहो मध्ये नानाविधः स्मृतः ॥५१॥ सर्वेषां बीजरूपोऽयमतः

खं. ५ अ. १५ पान ३१ सर्वादिपूज्यकः। सर्वपूज्यो गणेशानो वेदेषु कथितोऽभवत् ॥५२॥ गाणपत्यस्वभावस्था बभूवुर्मुनयोऽमलाः। यत्र तत्र गणेशानं भजंते तेऽधुना प्रभुम् ॥५३॥ एतल्लंबोदरस्यैव चरित्रं यः शृणोति वा। पठते तस्य विघ्नेशः सर्वदः प्रभविष्यति ॥५४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। सुरथो नाम राजर्षिः प्रधानैर्नयवर्जितैः। बलिष्ठैः पीडितोऽत्यंतं राज्यं त्यक्त्वा वनं ययौ ॥१॥ तत्र मुनिवरेणैवोपदिष्टः शक्तिमभजत्। तस्याश्च कृपया राजा समर्थः प्रबभूव ह ॥२॥ स्वराज्यं प्राप्य राजर्षिश्चक्रे तद्धर्मसंयुतः। अभजच्छक्तिमत्यंतं भावयुक्तेन चेतसा ॥३॥ ततो मृतः पुनः सोऽपि सावर्णिश्च बभूव ह। मनुर्भानुसुतो दक्ष सर्वमान्य उदारधीः ॥४॥ पूर्वसंस्कारयोगेन शक्तिभक्तो बभूव ह। वने गत्वा महाशक्तिं पूजयामास नित्यदा ॥५॥ उपोषणसमायुक्तस्तताप तप उत्तमम्। ध्यात्वा हृदि महामायां नवार्णजपकारकः ॥६॥ माहात्म्यम- पठन्नित्यं शक्त्या भक्तिसमन्वितः। एवं वर्षशते पूर्णे प्रसन्नाऽभून् महासती ॥७॥ अंते तत्तपसा युक्तं ज्ञानमार्गपरायणम्। ज्ञात्वा लंबोदरस्तत्र वरदाता समाययौ ॥८॥ हृदि तस्य स्थितं ध्यानं शक्तेस्तत्र गणेश्वरः। शुशुभे रक्तवर्णाभो दृष्ट्वा तं सोऽपि विस्मितः ॥९॥ ततः शक्तिस्वरूपं स ददर्श पुनरंजसा। पुनर्लंबोदरं देवं पुनः शक्तियुतं प्रभुम् ॥१०॥ वामांगे संस्थितां शक्तिं हावभावसमन्विताम्। भक्तियुक्तां गणेशस्य ततोऽतिविस्मितोऽभवत् ॥११॥ लंबोदरार्थजं दक्ष शक्तेश्च कृपया महत्। ज्ञानं प्रकटरूपं तद्वभूव हृदये मनोः ॥१२॥ ततो मनुर्विशेषेण भक्तियुक्तो हृदि स्वयम्। विचारमकरोत् पूर्णं तच्छृणु त्वं प्रजापते ॥१३॥ लंबोदरः स्वयं शक्तिः शक्तिर्लंबोदरात्मिका। शक्तेर्लंबोदरस्यैव नांतरं विद्यते कदा ॥१४॥ शक्तिर्वामांगसंभूता दक्षिणांगाद्गणेश्वरः। तयोरभेदभावे यद्ब्रह्म स्वानंदसंज्ञकम् ॥१५॥ क्रीडार्थं भक्तरक्षार्थं देहाकृतिधराविमौ। बभूवतुर्न संदेहस्ततः सर्वमिदं बभौ ॥१६॥ एवं विचारयुक्तः स मनुर्यावत् प्रतापवान्। तावत्तौ बहिरायातौ वरदौ च प्रजापते ॥१७॥ हृदि संस्थ्यौ विस्मितः स क्व गतौ शक्तिविघ्नपौ। पुनर्ध्यानबलेनैव

खं. ५ अ. १५ पान ३२ चिंतयामास भूमिपः ॥१८॥ ततस्तं तावूचतुश्च वरं वरय सुव्रत । तपसा भक्तिभावेन तुष्टौ दास्यावहे मुने ॥१९॥ तयोर्वचनमाकर्ण्योन्मील्याऽपश्यद्वहिर्मनुः । दृष्ट्वा शक्तियुतं देवं प्रणाम मुदायुतः ॥२०॥ पूजयित्वा विधानेन तुष्टाव भक्तिसंयुतः । प्रणम्य तौ पुनर्देवौ कृत्वा करपुटं विधे ॥२१॥ सावर्णिरुवाच । नमस्ते गणनाधायै नमस्ते गणपालक । चतुर्बाहु- धरायैव चतुर्बाहुधराय ते ॥२२॥ अनाधायै ह्यनाधाय परेशायै परात्मने । भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥२३॥ हेरंबायै नमस्तुभ्यं हेरंबाय नमो नमः । लंबोदरस्वरूपायै नमो लंबोदराय ते ॥२४॥ नानारूपधरायैव नानारूपधराय च । नमो नमो महादेव्यै देवाधिपतये नमः ॥२५॥ गजवक्त्रधरायै ते गजवक्त्रधराय च। शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः॥२६॥ एकदंतधरायै चैकदंतरूपिणे नमः । मायामोहहरायैव मोहहर्त्रे नमो नमः ॥२७॥ स्वानंदपुरसंस्थायै नमः स्वानंदवासिने । परश्वादिधरायै च परश्वादिधराय ते ॥२८॥ नमः सर्वप्रबोधायै नमः सर्वप्रबोधक । मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥२९॥ ढुंढिराज्यै नमस्तुभ्यं ढुंढिराजाय ते नमः । वक्रतुंडधरायै ते वक्रतुंडाय ते नमः ॥३०॥ सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते । नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥३१॥ अनंतखेलकारिण्यै ह्यनंतखेलकारिणे । नमो नमो महाशक्ते नमः शक्तिधराय ते ॥३२॥ नानाभेदकरायै ते नानाभेदमयाय च । नमो नमः परेशायै परेशाय नमो नमः ॥३३॥ या शक्तिः सैव विघ्नेशो नांतरं विद्यते क्वचित् । अज्ञानेन महाभागौ स्त्रीपुंभावः प्रदृश्यते ॥३४॥ यत्र वेदादयो योगिनो देवेशा विसिस्मिरे । तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥३५॥ भवतोर्दर्शनेनैव बोधयुक्तोऽहमंजसा । तेन स्तुतौ गणाध्यक्षौ योगशांतिप्रदायकौ ॥३६॥ प्रयच्छतं महायोगमधुना मे नमाम्यहम् । भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः॥३७॥ इत्युक्त्वा दंडवद्भूतौ पपात पदयोस्तयोः । मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥३८॥ शक्तिविनायकावूचतुः । शांतियोगं महाभाग लभसे योगसेवया । भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥३९॥ भुक्त्वा मन्वंतरं पूर्णं यशः स्थाप्य जगत्त्रये । अंते स्वानंदगो भूत्वा ब्रह्मभूतो भविष्यसि ॥४०॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । पठते शृण्वते चैव भविष्यति न संशयः ॥४१॥ एवमुक्त्वा गणाध्यक्षावंतर्धानं प्रचक्रतुः । मनुः स्वगृहमागत्याऽभजत्तौ भावसंयुतः ॥४२॥ मन्वंतरसमा भुक्त्वा ब्रह्मभूतो बभूव ह । गाणपत्यो महाभागः सावर्णिः प्रथितोऽभवत् ॥४३॥ मयाऽवतारः कथितो नाम्ना शक्तिविनायकः। सर्वसिद्धिप्रदः पूर्णो लंबोदरस्य भक्तितः ॥४४॥ मायया मोहितानां वै भिन्ना शक्तिः प्रदृश्यते । या शक्तिः

स स्वयं दक्ष लंबोदरो न संशयः ॥४५॥ स्त्रीपुंभावमयी माया त्यक्तव्या योगसेवया । तदा लंबोदरः प्राप्तो योगिभिर्ब्रह्म- नायकः ॥४६॥ केचिच्छक्तिं वदंत्येनं केचिल्लंबोदरं परम् । भक्त्या भिन्नं स्वरुच्यर्थं जानीह्यत्र न संशयः ॥४७॥ असत्स्वानंदरूपा वै शक्तिर्वेदे प्रकीर्तिता । स लंबोदर आख्यातो गणेशस्यावतारभृत् ॥४८॥ शक्तिविनायकस्यैतच्चरित्रं यः शृणोति वा । पठते भविता तस्य भुक्तिर्मुक्तिर्न संशयः ॥४९॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते शक्तिविनायकमाहात्म्ये पंचदशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शेषपुत्रस्य माहात्म्यं कथयामि समासतः । तच्छृणुष्व प्रजानाथ योगशांतिप्रदायकम् ॥१॥ एकदा सत्यलोकस्थो ब्रह्मा ध्यानपरायणः । बभूव सर्वजंतूनां हितार्थं मोहितः स्वयम् ॥२॥ सदा सृष्टिर्मदीयेयमखंडा जायते कथम् । तत्र तस्य स्वनिःश्वासात् पुरुषः संभवूव ह ॥३॥ स प्रणम्य विधातारं तुष्टाव विविधैः स्तवैः । तमुवाच तदा ब्रह्मा किं वाञ्छसि वदाऽशु मे ॥४॥ ब्रह्मणो वचनं श्रुत्वा हर्षयुक्तः पुमानभूत् । तं जगाद प्रजानाथं भक्ति- नम्रात्मकंधरः ॥५॥ पुमानुवाच । तव निःश्वाससंभूतं पुत्रं मां पालय प्रभो । देहि नाम तथा स्थानं भक्ष्यं नानाविधं विधे ॥६॥ अन्यत् सुखकरं सर्वं देहि नाथ नमोऽस्तु ते । त्वं गतिः सर्वभूतानामधुना मे विशेषतः ॥७॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा स्नेहयुतोऽभवत् । स जगाद तमालिंग्य चुचुंबे पुत्रवत्सलः ॥८॥ ब्रह्मोवाच । मायादर्शनमात्रेण वर्धसे त्वं महामते । मायाकरस्ते विख्यातमतो नाम भविष्यति ॥९॥ यद्यदिच्छसि तत्तत्ते सफलं च भविष्यति । त्रैलोक्ये वसतिः पुत्र गतिरव्याहता भवेत् ॥१०॥ चतुःपदार्थसंभूतं सदा वश्यं भविष्यति । चतुर्विधमयेभ्यस्ते मरणं न कदा भवेत् ॥११॥ युद्धे चतुर्विधं सर्वं प्रजेष्यसि न संशयः । सदाऽऽरोग्यादिसंयुक्तो भविष्यसि मदात्मज ॥१२॥ ब्रह्मणो वचनं श्रुत्वा हर्षितोऽभूत् पुमान् स्वयम् । मायाकरः प्रणम्यैव तं ययौ स्वेच्छया चरन् ॥१३॥ ततो दानवमुख्यश्च विप्रचित्तिः प्रतापवान् । तं दृष्ट्वा बलसंयुक्तं समागत्य ननाम सः ॥१४॥ ज्ञात्वा वृत्तांतमेतस्य मायाकरस्य दुर्मतिः । जगाद तं पुनः सोऽपि विप्रचित्तिः प्रतापवान् ॥१५॥ विप्रचित्तिरुवाच । मायाकर महाभाग शृणु मे परमं वचः । वराः प्राप्तास्त्वया सर्वे दुर्लभा

[Page Header: पान ३४]

नात्र संशयः ॥१६॥ तेषां भोगः प्रकर्त्तव्यस्त्वया नित्यं महामते । तदा शोभायुता जाता वरास्ते नान्यथा प्रभो ॥१७॥ यथा रूपवयोयुक्ता नारी स्वपतिना युता । नित्यं भुक्ता विशेषेण शोभतेऽतीव मानद ॥१८॥ मिलिता विविधा भोगा भुक्ताश्चेत् सार्थकं भवेत् । निक्षिप्ता भोगहीनास्ते शपंति पुरुषं सदा ॥१९॥ अतो वरान् महाभाग साधयस्व विशेषतः । नोचेत्ते त्वां शपिष्यंति वरा भोगविहीनतः ॥२०॥ वयं दानवमुख्याश्च त्वदधीना भवामहे । अस्माभिर्बलसंयुक्तैर्भुंक्ष्व भोगं महाबल ॥२१॥ दानवा बलसंयुक्ता अजेयाः सर्वभावतः । त्वदाज्ञावशगा नाथ चरिष्यंति न संशयः ॥२२॥ एवं मायाकरस्तेन बोधितो दुष्टधीः स्वयम् । तदधीनो बभूवाऽपि ययौ तेन रसातलम् ॥२३॥ तत्र दानवमुख्यैश्च मिलितैर्यमसन्निभैः । तैर्मानितो विधेः पुत्रो मायाकरस्तुतोष ह ॥२४॥ ततः शुक्रं समानीय प्रणता दानवा विधे । ब्राह्मणै- रभिषिक्तं तं कारयामासुरादरात् ॥२५॥ असुराणां महाराजो बभूव ब्रह्मणः सुतः । मायाकरोऽतिशुशुभे सर्वेभ्यो भयदायकः ॥२६॥ नानाभोगान् प्रभुंजानो बलेन गर्वितोऽभवत् । अमन्यतासुराधीश आत्मनः कृतकृत्यताम् ॥२७॥ ततो दानवमुख्यैः स जित्वा पृथ्वीं ससागराम् । ततो देवगणान् जित्वेंद्रासने संस्थितोऽभवत् ॥२८॥ ततः सिषेविरे सर्वे दानवास्तं विशेषतः । स्वर्गभोगकरा भूत्वा हर्षिताः स्वजनैः प्रभो ॥२९॥ ततः शिवं समागम्य स युद्धायोद्यतोऽभवत् । त्यक्त्वा कैलासमादौ स पपाल शंकरः स्वयम् ॥३०॥ ततो वैकुंठगो भूत्वा रराजे दानवाधिपः । त्यक्त्वा वैकुंठमेवं स विष्णुः पपाल भीतितः ॥३१॥ ततः शांतिधरं वीक्ष्य तमूचुर्दानवाः पुनः । जय त्वं सत्यलोकस्थं ब्रह्माणं देवनायकम् ॥३२॥ सुरेभ्यः सर्वदाता स पक्षगश्च पितामहः ॥ असुराणामहो हंता न समो वर्तते कदा ॥३३॥ तमाश्रित्य महादेवादयोऽभूवंश्च संस्थिताः । कालं प्राप्य महावेगा मारयिष्यंति नः खलु ॥३४॥ त्वया सर्वं जितं राजन् तदपि पश्य चेष्टितम् । ब्रह्मणा दूतवर्येण सत्कृतो न कदा भवान् ॥३५॥ मायाकरस्ततस्तेषां वचः श्रुत्वाऽसुरः स्वयम् । सत्यं विचार्य धातारमभूत् जेतुं समुद्यतः ॥३६॥ दानवैर्ब्रह्मलोके तमागतं वीक्ष्य वै विधिः । शोकयुक्तः पपालाऽसौ देवौघैः संवृतः प्रभुः ॥३७॥ ततः स सत्यलोकस्थः शुशुभेऽतीव तत्क्षणात् । दानवान् मानयन् दैत्यः सह तैर्बुभुजे सुखम् ॥३८॥ ततः स सत्यलोके च कैलासे वैष्णवे पदे । सौरे शाक्तेऽन्यदेवानां पदेष्वास्थापयत् स्वकान् ॥३९॥ पुनर्भूमौ समागम्य संस्थितो नगरे स्वके । प्रपंचाख्ये महादैत्यो दैत्यपैः संवृतो बभौ ॥४०॥ ततो दानवमुख्यांश्च पातालजयने सुरः । प्रास्थापयच्च ते सर्वे गताः सर्वे

खं ५ अ. १७ पान ३५ समन्विताः ॥४१॥ तैर्जिताः सर्पराजास्ते शेषस्ताञ्छरणं ययौ । स्वीकृत्य करभारं स संस्थितो नागपैर्वृतः ॥४२॥ तथापि दानवास्तत्र संस्थिता भयदायकाः । नागानधर्षयन् सर्वे यमकालनिभा बलात् ॥४३॥ ततोऽतिदुःखितः शेषः सस्मार गणनायकम् । निर्विघ्नार्थं प्रजानाथ पुत्रभावार्थमादरात् ॥४४॥ अंतर्ध्यानेन विघ्नेशं तोषयामास नागपः । ततो वर्षे गते पूर्णे प्रकटोऽभूद् गजाननः ॥४५॥ हृदयाद् बहिरेवाऽसौ निर्गत्य तमुवाच ह । पश्य शेष महाभाग ध्यानजं ते सुतं च माम् ॥४६॥ दक्ष उवाच । स्वल्पाय़ासेन हेरंबः कथं पुत्रो बभूव ह । कथयस्व महायोगिन् शेषस्य चरितं महत् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरा कश्यपविप्रेणाराधितौ तपसा प्रभू । शिवविष्णू च पुत्रार्थं मंत्रध्यानसमाधिना ॥१॥ दश वर्षे गते तौ च वरदौ तं समागतौ । सुतौ मुनिवरेणैव वरं दत्त्वा प्रजग्मतुः ॥२॥ तयोरंशेन शेषश्च पुत्रस्तस्य बभूव ह । धराधरणभावेन पालको विष्णुरेव सः ॥३॥ ब्रह्मणो दिवसांते स ज्वालया विष्टपं महत् । ददाह शंकरांशश्च महानागः प्रतापवान् ॥४॥ सहस्रशीर्षा पुरुषः शेष एव स उच्यते । मृत्युहीनो ह्यनंतोऽयं सर्वेषामंतकोऽभवत् ॥५॥ लय एकोऽवशेषश्च तेन शेषः प्रकीर्तितः । ब्रह्मांडं धारयामास सर्वाधारो बभूव ह ॥६॥ उत्पन्नोऽभूत् स्वयं शेषः साक्षाद्धरिहरात्मकः । ब्रह्मणा- गत्य तत्रैवाऽभिषिक्तो राज्यकर्मणि ॥७॥ नागानामीश्वरो भूत्वा स्थितः सर्वत्र संमतः । ततः स कश्यपं नत्वा जगाद वचनं हितम् ॥८॥ शेष उवाच । ब्रह्मांडं धारयामीश कथं सर्वसमाकुलम् । तदर्थं मां महायोगिन् शाधि शिष्यं पितः प्रभो ॥९॥ ततस्तस्मै मुनिश्रेष्ठो ददौ मंत्रं षडक्षरम् । गणेशस्य यथान्यायं शोधयित्वा प्रजापते ॥१०॥ ततस्तं प्रणिपत्यैव तताप तप उत्तमम् । वने गत्वा गणेशं स ध्यात्वा जपपरायणः ॥११॥ निराहारेण विघ्नेशं तोषयामास नित्यदा । पुपूज भक्तिसंयुक्तस्तुष्टाव विविधैः स्तवैः ॥१२॥ एवं वर्षसहस्रेण प्रसन्नो गणनायकः । अस्थिमात्रावशेषं तं त्वचायुक्तं समाययौ ॥१३॥ तं दृष्ट्वा नागपः शेषः प्रणम्योत्थाय चादरात् । पुपूज हर्षसंयुक्तस्तुष्टाव करसंपुटैः ॥१४॥

ततस्तं गणराजः स जगाद वृणु वाञ्छितम् । दास्यामि तपसा तुष्टो यत्ते चित्ते भविष्यति ॥१५॥ शेषः प्रणम्य विघ्नेशं जगाद हर्षसंयुक्तः । ब्रह्मांडधारणे शक्तिं देहि नाथ नमोऽस्तु ते ॥१६॥ भक्तिं देहि गणाधीश भुक्तिमुक्तिप्रदायिनीम् । मृत्युहीनं दिशां नाथं मां कुरुष्व यशोतिगम् ॥१७॥ तथेति गणराजस्तु तमुक्त्वाऽन्तरधात्ततः । शेषो हृष्टः स्वयं दक्ष स्वस्थानं प्रजगाम ह ॥१८॥ तदारभ्य स्वयं नागो धराधारो बभूव ह । दिक्पालत्वं सदा लेभे मान्यः सर्वार्थदोऽभवत् ॥१९॥ ततो योगबलेनैव नाना मायाविशारदः । नाना रूपधरः शेषः शुशुभे सर्वमंडले ॥२०॥ एवं बहौ गते काले हिरण्य- कशिपोर्भयात् । ऐश्वर्यं नश्वरं मत्वाऽभवत् ज्ञानार्थमुद्यतः ॥२१॥ विपुलं स तपस्तप्त्वा शमदमपरायणः । योगभूमिस्थ- भावेनांतर्निष्ठश्च बभूव ह ॥२२॥ ततः क्रमेण नागेशः समस्वानंदगोऽभवत् । योगेन तत्र शांतिं च स दृष्ट्वा संस्थितो- ऽभवत् ॥२३॥ विष्णुं ज्ञात्वा परं भावं तदर्थं संयतः स्वयम् । वैष्णवेनैव मार्गेण तोषयामास केशवम् ॥२४॥ ततस्तं वरदो विष्णुर्ययौ शेषेण संस्तुतः । याचितो नित्यमेवं मे दर्शनं देहि केशव ॥२५॥ मदीयदेहसंस्थस्त्वं भव नित्यं जनार्दन । तथेति तमुवाचाऽसौ नारायणो बभूव ह ॥२६॥ शेषशायी सदा तस्य स देहे संस्थितोऽभवत् । तेन संहर्षितोऽत्यंतं बभूवे नागपालकः ॥२७॥ ततो योगबलेनाऽसौ मायामोहं ददर्श ह । समानंदं द्वंद्वमयमशांतोऽपि बभूव ह ॥२८॥ एवं बहौ गते काले योगमार्गरतोऽभवत् । समाधिना प्रजानाथ सहजं ब्रह्म संश्रितः ॥२९॥ साहजं शंकरं ज्ञात्वा शैवमार्गपरोऽभवत् । ब्रह्म स्वेच्छामयं दृष्ट्वा शांतिं प्राप्य समास्थितः ॥३०॥ ततस्तं वरदः शंभुराययौ तं प्रणम्य सः । शेषस्तुष्टाव संहृष्टः शैवैः स्तोत्रैः सदाशिवम् ॥३१॥ प्रसन्नं शंकरं दृष्ट्वा ययाचे भक्तिमुत्तमाम् । सदा दर्शनभावार्थं संगतिं शंकरस्य सः ॥३२॥ तथेति शंकरो देवः स चकार प्रजापते । मस्तके तं बबंधाऽथ नित्यदर्शनकांक्षिणम् ॥३३॥ ततोऽतिहर्षितोऽनंतः शंभुमार्गपरायणः । सिषेवे भावसंयुक्तः शंकरं वृषभध्वजम् ॥३४॥ ततो योगबलेनैव शेषस्तत् सहजं परम् । मोहहीनं विदित्वा स शांतिहीनो बभूव ह ॥३५॥ मनसा शांकरं ब्रह्म नामन्यत परं प्रभुम् । शिवं नत्वा महानागः पप्रच्छ योगशांतिदम् ॥३६॥ पात्रं गणेशयोगे तं ज्ञात्वा शेषं सदाशिवः । जगाद गणनाथास्य ज्ञानं सर्वहितावहम ॥३७॥ शिव उवाच । योगशांतिप्रदं पूर्णं गणेशं विद्धि मानद । सत्यासत्यसमानानि सहजेन युतानि वै ॥३८॥ ब्रह्माणि यत्र लीयंते संयोगेन महामते । स्वसंवेद्यं तद्वदंति ब्रह्म शांतिप्रदं परम् ॥३९॥ संयोगे

खं. ५ अ. १८ पान ३७


गणनाथस्य स्वसंवेद्यात्मकं परम् । दर्शनं जायते येनाऽभवत् स्वानंदवासिकः ॥४०॥ सर्वसंयोगरूपश्च दोषस्तत्र महान् स्मृतः । तेन शांतिप्रदं पूर्णं न मतं योगिभिः कदा ॥४१॥ स्वसंवेद्यविहीनं यद्ब्रह्म योगमयं भवेत् । तत्र संदर्शनं तस्य न भवेद्व्यतिरेकतः ॥४२॥ स्वकीयाऽभेदतस्तत्र निवृत्तिर्जायते नृणाम् । तत्र शांतिः समाख्याता सा न मुख्या मता बुधैः ॥४३॥ अयोगात्मकरूपश्च दोषः संवर्तते सदा । मायाहीनप्रभावेण तिष्ठते गणनायकः ॥४४॥ संयोगायोगयोर्योगे योगः शांतिप्रदायकः । सा शांतिः सर्वमान्या वै भवते वेदवादतः ॥४५॥ संयोगश्च गकारस्थो णकारो योगगः प्रभो । तयोरीशो गणेशानो वेदे पश्य विचक्षण ॥४६॥ पंचभूमिमयं चित्तं तदेव बुद्धिभावगम् । मोहो भ्रांतिप्रदस्तेषु सा सिद्धिः संमता बुधैः ॥४७॥ तयोः स्वामी गणेशानः चिंतामणिः प्रकथ्यते । चित्तप्रकाशकः साक्षाच्छांतिदो योग- सेवया ॥४८॥ तं भजस्व महानाग ततः शांतिमवाप्स्यसि । नान्यथा कोटिवर्षैः कः शांतिं प्रलभते नरः ॥४९॥ एवमुक्त्वा महादेवो विरराम स तं प्रभुः । प्रणम्य शेषनागश्च ययौ तपोवनं परम् ॥५०॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ ततः शेषः स्वयं तत्र तताप तप उत्तमम् । शमदमपरो भूत्वा योगभूमिमशो- धयत् ॥१॥ क्रमेण पंचभूमीनां चित्तस्य पारमागतः । शांतिं प्राप्तो महानागोऽभजत्तं गणनायकम् ॥२॥ गाणपत्य- स्वभावेनाऽपूजयद् भक्तिसंयुतः । एवं तपःप्रभावेण संतुष्टोऽभूद् गजाननः ॥३॥ तमाययौ महाभक्तं ध्यानस्ति- मितलोचनम् । जगाद स वृणुष्व त्वं वरान् मत्तो सुदुर्लभान् ॥४॥ तस्य तद्वचनं श्रुत्वा प्रबुद्धो गण- नायकम् । दृष्ट्वा लंबोदरं देवं प्रणनाम कृतांजलिः ॥५॥ प्रणम्य विघ्नपं भक्तिसंयुक्तोऽपूजयत् पुनः । तुष्टाव सुस्थिरो भूत्वा निबद्धकरसंपुटः ॥६॥ शेष उवाच । गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः । चिंतामणे महाविघ्ननाशनाय नमो नमः ॥७॥ सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः । ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो

[Header] खं. ५ अ. १८ पान ३८

नमः ॥८॥ विनायकाय सर्वेषां नायकाय नमो नमः । नायकानां प्रचालाय नायकैः सेविताय ते ॥९॥ विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते । अभक्तानां सुभक्तानां विघ्नहंत्रे नमो नमः ॥१०॥ ढुंढिराजाय सर्वैश्च ढुंढिताय सुसिद्धिद । ढुंढितानां महाराज परेशाय नमो नमः ॥११॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मभ्यः सुखदायाऽथ शांतिरूपाय ते नमः ॥१२॥ स्वानंदवासिने तुभ्यं सदा स्वानंदमूर्तये । नाना विहारकर्त्रे ते समाधये नमो नमः ॥१३॥ मूषकवाहनायैव मूषकप्रियमूर्तये । मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥१४॥ अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये । असमाधिस्थ हेरंब मायाहीनाय ते नमः ॥१५॥ योगाय योगनाथाय योगेभ्यो योगदायिने । चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥१६॥ किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् । मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥१७॥ अतो वेदादयः सर्वे कुंठिता नात्र संशयः । योगिनः शुकमुख्याश्चास्तस्वां पश्यामि भाग्यतः ॥१८॥ एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः । ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥१९॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥२०॥ त्वया कृतमिदं स्तोत्रं शांतियोगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥२१॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणान्नाऽत्र संदेहो भवेन् मद्‌भक्तिवर्धनम् ॥२२॥ ततस्तं नागराजश्च जगाद वचनं हितम् । प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥२३॥ शेष उवाच । भक्तिं देहि गणाधीश तव पादांबुजे पराम् । सदा शांतिस्थमत्यंतं कुरुष्व गणनायक ॥ २४ ॥ चित्तं पंचविधं प्रोक्तं तत्र त्वं सततं प्रभो । तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥२५॥ मनश्चंचलभावेन संसारविषये रतम् । भविष्यति न संदेहोऽतस्त्वं मे तनयो भव ॥ २६ ॥ संसारे पुत्रभावेन भजिष्यामि निरंतरम् । हृदि शांत्या तथा देव कुलदैवतरूपिणम् ॥२७॥ गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः । सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शांतिदायकम् ॥२८॥ चित्तभूमिधरं वीक्ष्याऽहं शांतोऽत्र गजानन । धरणीधरसंज्ञं त्वां वदिष्यंति जनाः प्रभो ॥२९॥ येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः । अतो मदीयनाम्ना त्वं धरणीधरको भव ॥३०॥ अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः । त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥३१॥ एवमुक्त्वा गणेशानं विरराम च काश्यपः । तमुवाच गणाधीशः संतुष्टो भक्तवत्सलः ॥ ३२॥ श्रीगणेश उवाच । त्वयोक्तं सकलं शेष सफलं ते भविष्यति । सदा शांतिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ ३३ ॥

यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण है:

[शीर्षक] खं. ५ अ. १८ | पान ३९


योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद । न योगे त्वत्समः कापि भविष्यति महामते ॥३४॥ सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर । श्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥३५॥ धराधरणदुःखमादिकं वै कदाचन । न भवि- ष्यति ते शेष सर्पपेण समा भवेत् ॥३६॥ तव विष्णुः शरीरस्थः शयिता नित्यमादरात् । पुष्पत्तुल्यो भवेद्देवः सोऽपि ब्रह्मांडनायकः ॥३७॥ सदा यज्ञेषु भागस्थो भविष्यसि न संशयः । दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥३८॥ एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् । दर्शयामास शेषाय नाना योगधरं परम् ॥३९॥ समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् । बिंदुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥४०॥ स्वस्वरूपमयोगस्थं योगशांतिमयं तथा । ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥४१॥ अंतर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः । शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥४२॥ धरणीधरविघ्नेशोऽभवत्तत्रैव संस्थितः । भक्तेभ्यः सिद्धिदाता स यात्रामात्रेण निश्चितम् ॥४३॥ शेषो जगाम दक्ष स्वभवनं हर्षसंयुक्तः । विघ्नराजस्य नाभौ च स्वयं तिष्ठति नागराट् ॥४४॥ अनन्यभावसंयुक्तोऽभजत्तं गणनायकम् । अथो व्यासा- वतारश्च बभूवे धर्मपालकः ॥४५॥ ब्रह्माणं शरणं गत्वा गाणेशं शुश्रुवे मुनिः । पुराणं स तथा देवमभजत्तपसा युतः ॥४६॥ प्रसन्नो गणराजः स तस्मै दत्वा ययौ वरम् । वेदशाखादिकं सर्वं चकार भिन्नमादरात् ॥४७॥ ततो बहौ गते काले मायया भ्रांतिसंयुतः । योगभ्रष्टोऽभवद्योगी चित्तचंचलभावतः ॥४८॥ कदा नदीजले व्यासस्तर्पणं नित्यमाकरोत् । तस्यांजलौ स्वयं शेषः पपात सूक्ष्मरूपधृक् ॥४९॥ तं दृष्ट्वा विस्मितो व्यासस्तत्याज स जले भयात् । मुनिं तं प्रत्युवाचेदं सर्पोऽङ्गुष्ठप्रमाणकः ॥५०॥ सर्प उवाच । जले सत्त्वा महोग्राश्च प्रग्रसिष्यंति मां प्रभो । रक्षस्व त्वं महाभाग शरणं त्वां समागतम् ॥५१॥ तच्छ्रुत्वा विस्मितो व्यासस्तं प्रणम्य महायशाः । जगाद हर्षसंयुक्तो वचनं स्वहितावहम् ॥५२॥ व्यास उवाच । कस्त्वं वद महाभागांऽजलौ मम समागतः । नरवन्नाथ वदसि न त्वां जानामि भावतः ॥५३॥ तस्य तद्वचनं श्रुत्वा तं जगाद पतंजलिः । हर्षयन् हेतुगर्भाभिर्वाग्भिर्हर्षसमन्वितः ॥५४॥ चिंतनं यदि संत्यक्तं तदा कुत्र प्रवर्तते । अपूर्वं मुनिशार्दूल मायया पृच्छसि प्रभो ॥५५॥ मायया सर्पजातिस्थो नरवद्भाषणं सदा । करोति नात्र संदेहो न तया दुर्लभं भवेत् ॥५६॥ तस्य तद्वचनं श्रुत्वा तं प्रणम्य मुनिः पुनः । पप्रच्छ ते स्वरूपं मे दर्शयस्व नमो नमः ॥५७॥ ततो नराकृतिर्भूत्वा संस्थितो भगवान् स्वयम् । शेषो ब्राह्मणरूपस्थस्तं जगाद महामुनिम् ॥५८॥ पतंजलिरुवाच । तवांजलौ


पान ४० महाभाग पतितोऽहं हिताय ते। पतंजलिं च मां विद्धि मुने शेषं धराधरम् ॥५९॥ गणेशाऽनेन विप्रेश प्रेरितं मां विशेषतः। भ्रांतिनाशार्थमेवं ते जानीहि सहसाऽऽगतम् ॥६०॥ ज्ञात्वाऽतिहर्षितो व्यासः प्रणम्य तमुवाच ह। चिंतनं च कथं नाथ त्यक्तव्यं चित्तगेन तु ॥६१॥ नानाभावमिदं दृष्ट्वा तत्र तत्तादृशं भवेत्। चित्तं नागेंद्रवंद्य त्वं वदस्वातिमहाद्भुतम् ॥६२॥ योगशास्त्रं स्वयं तस्मै जगाद स पतंजलिः। यथा विघ्नेश्वरेणैव दर्शितं तादृशं परम् ॥६३॥ विप्रेशोऽन्तर्हितो योगी शेषः सर्वार्थदायकः। व्यासस्तत्र प्रजानाथ खेदयुक्तो बभूव ह ॥६४॥ शुश्राव स यथाशास्त्रं परं शेषमुखात् पुरा। तथा चित्तं समागृह्य योगिवंद्यो बभूव ह ॥६५॥ पंचधा चित्तभूमिस्त्यक्त्वा तच्चिंतनं स्वयम्। चिंतामणौ तदाकारो बभूव मुनिसत्तमः ॥६६॥ तस्य भाष्यं चकारापि व्यासो गूढार्थसिद्धये। नराणां प्रहितार्थाय सुगमार्थं प्रजापते ॥६७॥ इदं शेषस्य माहात्म्यं कथितं योगशांतिदम्। अधुना शृणु दक्ष त्वं प्रकृतं यत् कथानकम् ॥६८॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। हृदयाद्बहिरागत्य शेषस्य गणनायकः। पुत्रभावेन संस्थोऽभून् मूषकारूढ आदरात् ॥१॥ तत उत्थाय शेषस्तं प्रणाम कृतांजलिः। पूजयामास सर्वेशं पुनः स प्रणतोऽभवत् ॥२॥ अथर्वोपनिषद्भिस्तं तुष्टाव करसंपुटैः। नागेशः प्रार्थयामास भक्तिनम्रात्मकंधरः ॥३॥ शेष उवाच। योगेशस्त्वं गणाध्यक्ष ब्रह्मणां नायकः स्मृतः। कथं मे पुत्रभावेन संस्थितोऽसि विडंबनम् ॥४॥ ततो गजाननस्तं वै मोहयामास मायया। मोहितो नागराजस्तं पुत्रं मेने गजाननम् ॥५॥ शेषः सस्त्रीक आगृह्य लालयामास बालकम्। क्रमेण पंचवर्षस्थो बभूवे तद्गृहे प्रभुः ॥६॥ अथ शृणु प्रजानाथ वृत्तांतं दैत्यसंभवम्। मायाकरासुरो दुष्टश्चकार कर्मखंडनम् ॥७॥ आसुरं कर्म सर्वत्र कृतं तेन दुरात्मना। तेनोपोषणसंयुक्ता बभूवुर्देवनायकाः ॥८॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः। न स्वाहा न स्वधाद्यं वै कर्तुं केनाऽपि शक्यते ॥९॥ ततो मुनिवराः सर्वे देवाः शंभुपुरोगमाः। विचारं दैत्यनाशार्थं चक्रुर्भयसमन्विताः ॥१०॥ तत्रोवाच


खं. ५ अ. १९ पान ४१ महायोगी बृहस्पतिरुदारधीः । गणेशं भक्तिसंयुक्ता भजध्वं पदप्राप्तये ॥११॥ चतुःपदार्थसंयोगे गणेशो निजबोधकः । चतुर्भिर्वर्जितश्चाऽयं हनिष्यति महाखलम् ॥१२॥ श्रुत्वा ते गुरुसंयुक्तास्तपस्तेपुर्महत् प्रभो । निराहारादिसंयुक्ता नानाऽनुष्ठानतत्पराः ॥१३॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः। आययौ तान् वरान् दातुं भक्त्या तुष्टो महायशाः ॥१४॥ तं दृष्ट्वा हर्षसंयुक्ता देवा मुनय आदरात् । प्रणेमुः पूजयामासुस्तुष्टुवुर्विविधैः स्तवैः ॥१५॥ वरयामासुराहत्य गणेशं सर्वनायकम् । दैत्यं जहि गणाध्यक्ष प्रभो मायाकरासुरम् ॥१६॥ तथा मायाविहीनां वै भक्तिं देहि त्वदीयाकाम् । दासास्ते पादपद्मस्य वयं सर्वे न संशयः ॥१७॥ श्रुत्वा तान् गणराजस्तु जगाद हर्षसंयुतः । मायाकरं हनिष्यामि शेष- पुत्रोऽहमंजसा ॥१८॥ यदि मे वाहनं तत्र मुख्यं भवति देवपाः । चतुर्देवमयं विप्रास्तदाऽऽरोहं करोम्यहम् ॥१९॥ मदीया भक्तिरुग्रा वो भविष्यति तु निश्चितम् । सुदृढा मे सदा दासा भविष्यथ विशेषतः ॥२०॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो देवनायकः । शेषध्यानात् समुद्भूतो भक्तानां कार्यसिद्धये ॥२१॥ अथो देवर्षिमुख्यास्ते विचारं चक्रुरंजसा । चतुर्देवमयं तस्य वाहनं कीदृशं भवेत् ॥२२॥ सर्वांस्तत्र शिवः साक्षादुक्तवान् वाक्यमुत्तमम् । वेदमूर्तिमयो देवः सर्वेषां गुरुरंजसा ॥२३॥ शिव उवाच । अयं मूषकवाहश्च वेदेषु कथितोऽभवत् । मूषस्तेये तथा धातुर्ज्ञातव्यः स्तेयबन्धधृक् ॥२४॥ नामरूपात्मकं सर्वं तन्नाऽसङ्गम वर्तते । नामरूपेषु ये भोगास्तेषां भोक्ता स्वमायया ॥२५॥ भोगेषु भोगभोक्ता यस्तदाकारेण वर्तते । अहंकारयुतास्ते वै न जानंति विमोहिताः ॥२६॥ वयं भोक्तार एवं ते मानयंति विशेषतः । ईश्वरः सर्वभोक्ता च चौर्यवृत्तिषु संस्थितः ॥२७॥ स एव मूषकः प्रोक्तो मनुजानां प्रचालकः । मायया गूढरूपो भोगान् भुनक्ति स चोरवत् ॥२८॥ तद्भूज्जीवनगो देवः सूर्य आत्मा विशेषतः । नाना जीवेषु भोगान् भुनक्ति वै चौरवत् स्वयम् ॥२९॥ समेषु सर्वभोक्ता च विष्णुस्तद्वन्न संशयः । सदसन्मयरूपश्च चौरवन् मायया प्रभुः ॥३०॥ सहजेषु तथा देवः शिवो भोक्ता तुरीयगः । चौरवन्नाऽत्र संदेहो युतो निर्मोहमायया ॥३१॥ भोक्तारं चौरभावस्थं वाहनं कुरुत प्रियाः । मूषकाकृतिरूपं वै दीयतां गणपाय तत् ॥३२॥ श्रुत्वा ते हर्षिताः सर्वे शिवं देवर्षयोऽब्रुवन् । साधु साधु त्वया प्रोक्तं सर्वज्ञस्त्वं सदाशिव ॥३३॥ ततो गणेश्वरं ध्यात्वा चतुर्भिः कल्पितं वपुः । तत्र स्वांशं ददुुर्देवा भोक्तरूपं प्रजापते ॥३४॥ तदंशेन सजीवोऽभून् मूषको बलसंयुतः । ब्रह्मा देवर्षिभिः सार्धमभिषेकं चकार ह ॥३५॥ अंतर्बाह्यादिकं स्तेयं परं सर्वत्र वर्तते ।

खं. ५ अ. १९ पान ४२ नानाविधं तथैकं च तेषु राजाऽयमुच्यते ॥३६॥ अभिषिक्तः स्वयं तत्र मूषको हर्षितोऽभवत् । यज्ञभागस्य भोक्ताऽसौ कृतो देवैः सवासवैः ॥३७॥ संगृह्य सर्वदेवास्तं मुनयः शेषमंदिरम् । आजग्मुस्तान् समालोक्य शेषश्च विस्मितोऽभवत् ॥३८॥ पूजयामास सर्वान् स नागराजो महायशाः । नानाऽऽसनेषु संस्थाप्य पुनस्तान् प्रत्युवाच ह ॥३९॥ शेष उवाच । धन्यं मे जन्म दानं वै तपो ज्ञानं स्वभावजम् । पितरो मुनयो देवा दर्शनाद्भवतां किल ॥४०॥ किमर्थमागताः सर्वे वदत मां सुरर्षयः । भवतां कृपया युक्तः करिष्यामि सुभक्तितः ॥४१॥ तस्य तद्वचनं श्रुत्वा शंकरः सर्वनायकः । जगाद नागराजं तं हर्षयन् हर्षवर्धनः ॥४२॥ शिव उवाच । शेष शेष महाभाग धन्यस्त्वं सर्वमंडले । तव पुत्रत्वमापन्नो ब्रह्मणां नायकः प्रभो ॥४३॥ मूषकगोऽवतारोऽयं पंचवर्षवयोन्वितः । मा पुत्रं तं विजानीहि तपसा ध्यानजं प्रभुम् ॥४४॥ तस्येदं वाहनं मुख्यं चतुर्देव- कलांशजम् । स्तेयधर्मधरं पूर्णं सर्वेषां हृदि वर्तते ॥४५॥ अस्योपरि समारुह्य मूषकगः प्रतापवान् । मायाकरासुरं सद्यो हनिष्यति गणेश्वरः ॥४६॥ एवं तेषां वचः श्रुत्वा खेदयुक्तः स नागराट् । न किंचित् संजगौ देवान् पुत्रवत्सलभावतः ॥४७॥ ततस्तं शंकरो देव उवाच वचनं पुनः । मा खेदं कुरु कल्याण विघ्नहा न मरिष्यति ॥४८॥ तपोभिर्विविधैर्देवैः मुनिभिः प्रार्थितोऽभवत् । मायाकरविनाशाय तव पुत्रो गजाननः ॥४९॥ त्वयाऽऽदौ तपसा देव आराधितो गजाननः । वरदानप्रभावेण तव पुत्रो बभूव ह ॥५०॥ एतस्मिन्नंतरे मूषकगस्तत्र समागतः । नागबालैर्महाभागैः क्रीडायुक्तो गजाननः ॥५१॥ समुत्तस्थुः प्रणेमुस्तं दृष्ट्वा विप्राः सदेवपाः । तुष्टुवुः सामवेदस्थेन स्तोत्रेण गणेश्वरम् ॥५२॥ ततस्तान् गणराजो वै वचनं हितकारकम् । उवाच वृणुत प्राज्ञा वरं मनेप्सितं परम् ॥५३॥ ततोऽतिहर्षसंयुक्तास्तमूचुस्ते सुरर्षयः । मायाकरासुरं स्वामिन् जहि सर्वभयंकरम् ॥५४॥ भक्तिं देहि गणाधीश तव पादे च निश्चलाम् । दासा वयं गणेशान पालयस्व विशेषतः ॥५५॥ तथेति तानुवाचाऽथ वाहनं मे न वर्तते । अतो योग्यं महादेवा वाहनं दीयतां परम् ॥५६॥ चतुःपदार्थरूपेभ्यो मरणं न प्रविद्यते । मायाकरस्य दुष्टस्य कथं कार्यं मया सुराः ॥५७॥ चतुःपदार्थरूपं मे वाहनं यदि जायते । तदाऽहं तं हनिष्यामि नाऽत्र कार्या विचारणा ॥५८॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः ॥

खं. ५ अ. २० पान ४३ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मूषकगवचः श्रुत्वा देवेंद्रा हर्षिता बभुः । ऊचुः प्रांजलयस्तं ते विघ्नेशं विघ्नवारणम् ॥१॥ देवर्षय ऊचुः । चतुर्ब्रह्ममयं देव वाहनं ते प्रवर्तते । स्वानंदे मूषकाख्यं च सर्वभोगकरं परम् ॥२॥ अधुना भोगकारं तु चतुर्भिः शिवमुख्यकैः । कृतं स्वस्वकलांशेन वाहनं ते गजानन ॥३॥ जीवेषु सर्वभोक्ता वै चौरवत् परमेश्वरः । तदेव वाहनं तेऽभूद् गृहाण स्तेयरूपिणम् ॥४॥ एवमुक्त्वा गणेशानं देवा मुनिसमन्विताः । तुष्टुवुस्तं महावीर्यं मूषकं मूषका- कृतिम् ॥५॥ देवर्षय ऊचुः । नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते । अंतर्भोगकरायैव मूषकाय नमो नमः ॥६॥ मायया स्तेयरूपिण्या मोहयित्वा चराचरम् । चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥७॥ चराचरमयायैव चराचरधराय ते । सर्वाधीशाय लोकाय कालकालाय ते नमः ॥८॥ अनादये महेशाय चतुर्वर्गप्रदायिने । गणेशवाहनायैव गणेशध्वज- संस्थित ॥९॥ सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः । चालकात्मकवीर्यं यद्गणेशस्य त्वमंजसा ॥१०॥ ब्रह्माकार- शरीराय स्तेयानां स्वस्वरूपिणे । नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥११॥ चतुर्णां गणपः पाता त्वया तद्रूपधारिणा । भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥१२॥ इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह । भविष्यामि महाभागा वाहनं गणपस्य च ॥१३॥ एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः । मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥१४॥ मूषक उवाच । देवाय योगरूपाय नमो मूषकगाय ते । गणेशाय परेशाय परात्परतराय ते ॥१५॥ अनंताय महेशाय महेशैः संस्तुताय च । विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥१६॥ अनंतसूनवे तुभ्यं दैत्यदानवमर्दने । देवानां पालकायैव हेरंबाय नमो नमः ॥१७॥ स्वानंदवासिने तुभ्यं भक्तस्वानंददायिने । ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥१८॥ चतुर्णां चालकायैव चतुःसंयोगमूर्तये । चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥१९॥ योगेशयोगरूपाय योगिभ्यो योगदायिने । शांतिरूपाय वै तुभ्यं शांतिदाय नमो नमः ॥२०॥ मूषकवाहनायैव मूषकध्वजिने नमः । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥२१॥ वेदवाक्यप्रमाणेन मां कुरुष्व गजानन । वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥२२॥ इदं मूषकगो नाम मदीयं तु त्वया धृतम् । अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥२३॥ मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो । ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥२४॥ एवं स्तुत्वा गणाधीशं प्रणनाम स दंडवत् । भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥२५॥ मूषकग उवाच । वाहनं मे सदा साधो भविष्यसि

महामते । मदीया भक्तिरत्यंतं सुदृढा ते भविष्यति ॥२६॥ त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् । धर्मार्थ- काममोक्षाणां दायकं सर्वदं परम् ॥२७॥ पठते शृण्वते चैतत् पुत्रपौत्रादिकप्रदम् । यद्यदिच्छति तत्तद्वै सफलं प्रभवि- ष्यति ॥२८॥ अन्यच्च्वं शृणु मे वाक्यं देवैर्विप्रैः कृतं महत् । स्तवनं सर्वमान्यं ते भविष्यति न संशयः ॥२९॥ यस्त्वां स्तोष्यति चौरेशास्तोत्रेणानेन मानवः । स सर्वं लभते नित्यमीप्सितं नाऽत्र संशयः ॥३०॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो भविष्यति । मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेत् ॥३१॥ एवमुक्त्वा महादेवं मूषकं गणनायकः । तमारुह्य ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥३२॥ ते देवराजास्तमनुदेवाश्च मुनयः प्रभो । नागाः शेषमुखाः सर्वे ययुर्ब्रह्मसमन्विताः ॥३३॥ ब्रह्माणं प्रेषयामास मूषकगः प्रतापवान् । दूतं मायाकरस्याग्रे बोधार्थं नीतिपालकः ॥३४॥ गत्वा तममुरं ब्रह्मा जगाद वचनं हितम् । आखुवाहं च शरणं याहि नो चेन् मरिष्यसि ॥३५॥ चतुर्णां ब्रह्मणां मूषकगो योगे प्रकीर्तितः । स्वानंदवासकारी स गणेशोऽयं विचारय ॥३६॥ सुरासुरमयश्चायं गच्छतं भक्तिसंयुक्तः । मम पुत्रत्वमापन्नो हितं ते प्रवदाम्यहम् ॥३७॥ ब्रह्मणो वचनं श्रुत्वा क्रोधयुक्तस्तमब्रवीत् । मायाकरासुरः पापी पापयुक्तेन चेतसा ॥३८॥ मायाकरासुर उवाच । त्वं देवपक्षगो भूत्वा मोहनार्थं समागतः । पंचमं ब्रह्म सर्वत्र योगरूपं प्रतिष्ठति ॥३९॥ तदेव नागतं कुत्र न गतं च प्रजापते । समागतं गणेशानं तं हनिष्यामि सामरम् ॥४०॥ त्वं गच्छ दूतरूपेणागतस्तस्मात् महामते । सहामि तेऽपराधं वै नोचेद्धन्मि सुरप्रियम् ॥४१॥ ततो ब्रह्मा गणेशानमाययौ प्रणिपत्य तम् । वृत्तांतं कथयामास तच्छ्रुत्वा क्रोधमादधे ॥४२॥ देवानाज्ञापयामास जेतुं मूषकगोऽपि तम् । ततस्ते शस्त्रसंघातैर्जघ्नुर्दैत्यगणान् मृधे ॥४३॥ असुराः छिन्नभिन्नास्ते पप्लवुर्गल्मसंस्थिताः । सभासीनं समाचख्युर्वचो मायाकरासुरम् ॥४४॥ दैत्या ऊचुः । किं स्थितोऽसि महावीर देवाः क्रोधसमन्विताः । आगता नगरं सर्वं तेषामस्त्रैः सुपीडितम् ॥४५॥ तेषां तद्वचनं श्रुत्वा क्रोधयुक्तः समाययौ । प्रधानैरसुरैः सर्वैः संवृतो रणमंडलम् ॥४६॥ मायाकरं समालोक्य पप्लुर्देवसत्तमाः । आगम्य तं मूषकगं शशंसुश्चेष्टितं महत् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मायाकरासुरं वीक्ष्य तुतोष गणनायकः । मूषकं स समारुह्य ययौ संग्राममंडलम् ॥१॥ चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः । दैत्यानाज्ञापयामास देवानां हननाय सः ॥२॥ ततो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः । ववृषुः शस्त्रधाराभिर्मेघा इव सुदुर्मदाः ॥३॥ दृष्ट्वा देवगणाः क्रुद्धा युयुधुस्तान् समागतान् । एवं युद्धं महाघोरं सैन्ययोरुभयोरभूत् ॥४॥ परस्परं मम्लुरेत्य संमुखं ते जयेप्सवः । रक्तौघैः सरितस्तत्र संजाता भयदायिकाः ॥५॥ कदाचिज्जयिनो दैत्याः कदाचिदमरा मृधे । न रात्रौ विश्रमं ते तु चक्रिरे क्रोधसंयुताः ॥६॥ एवं दिनानि सप्तैव युयुधुः शस्त्रकोविदाः । पलायंतामरा भिन्ना हाहारवकरा भृशम् ॥७॥ तद् दृष्ट्वा शंकरः क्रुद्ध आययौ रणमंडले । ततो विष्णुमुखा देवा युयुधुः क्रोधसंयुताः ॥८॥ तेषां शस्त्रप्रहारेण मृता दैत्या अनेकशः । प्रजापते पलायंत भयभीता दिशो दश ॥९॥ मूर्च्छिता दैत्यराजास्ते सर्वे भूतलाश्रिताः । दृष्ट्वा सिंहरवं मायाकरः कृत्वा समागतः ॥१०॥ क्रोधयुक्तो महादैत्यः शस्त्रवृष्टिं चकार ह । तया देवाः क्षता भूमौ पेतुः सर्वे प्रजापते ॥११॥ आग्नेयास्त्रेण महादैत्यः पातयामास शंकरम् । अन्ये दाहयुताः सर्वे पलायंत दिशो दश ॥१२॥ एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोष ह । स्वयं समागतो हर्षाद्रणभूमौ महाबलः ॥१३॥ दृष्ट्वा मूषकसंस्थं तमवोचद् दैत्यनायकः । क्रोधयुक्तः प्रहस्याऽऽदौ वचनं मद्यपो यथा ॥१४॥ मायाकरासुर उवाच । किं संग्रामाय विघ्नेश मया सह समागतः । एकबाणेन हत्वा त्वां हनिष्यामि सुरान् मुनीन् ॥१५॥ चतुःपदार्थरूपं वै जगत् सर्वं प्रवर्तते । तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ॥१६॥ ब्रह्मांडं निर्जितं येन तेन सार्धं गजानन । योद्धुमिच्छसि बालः सन् बालभावान्न संशयः ॥१७॥ नत्वा मां स्वगृहं याहि न हनिष्यामि निश्चितम् । त्वामज्ञानसमायुक्तं प्रेरकांस्तान्निहन्म्यहम् ॥१८॥ नाम मूषकगस्तेचाखुतुल्यस्त्वं मतो मम । मूर्खवन्नैव जानासि मां सर्व- भयदायकम् ॥१९॥ एवं मायाकरं वीक्ष्य ब्रुवंतं स्वपराक्रमम् । मूषकगस्तमेवं वै जगाद वचनं हितम् ॥२०॥ मूषकग उवाच । किं मां वदसि दैत्येंद्र नाऽहं बालोऽसुराधम । स्वानंदवासकारी वै त्वां हंतुं रूपवान् परः ॥२१॥ हनिष्यामि न संदेह- श्रुतिर्भिर्वर्जितोऽधुना । बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक ॥२२॥ इत्युक्त्वा क्रोधसंयुक्तः कमलं निजहस्तगम् । बिंदुब्रह्ममयं ज्योतिस्तत्याज मूषकेशगः ॥२३॥ आगतं कमलं दृष्ट्वा ज्योतीरूपमयं महत् । मायाकरासुरस्तद्वै जग्राह बलगर्वितः ॥२४॥ गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् । पपात कंठदेशोऽस्य ममार दैत्यनायकः ॥२५॥ कमलं