मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 560, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. १५ पान ३१ सर्वादिपूज्यकः। सर्वपूज्यो गणेशानो वेदेषु कथितोऽभवत् ॥५२॥ गाणपत्यस्वभावस्था बभूवुर्मुनयोऽमलाः। यत्र तत्र गणेशानं भजंते तेऽधुना प्रभुम् ॥५३॥ एतल्लंबोदरस्यैव चरित्रं यः शृणोति वा। पठते तस्य विघ्नेशः सर्वदः प्रभविष्यति ॥५४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। सुरथो नाम राजर्षिः प्रधानैर्नयवर्जितैः। बलिष्ठैः पीडितोऽत्यंतं राज्यं त्यक्त्वा वनं ययौ ॥१॥ तत्र मुनिवरेणैवोपदिष्टः शक्तिमभजत्। तस्याश्च कृपया राजा समर्थः प्रबभूव ह ॥२॥ स्वराज्यं प्राप्य राजर्षिश्चक्रे तद्धर्मसंयुतः। अभजच्छक्तिमत्यंतं भावयुक्तेन चेतसा ॥३॥ ततो मृतः पुनः सोऽपि सावर्णिश्च बभूव ह। मनुर्भानुसुतो दक्ष सर्वमान्य उदारधीः ॥४॥ पूर्वसंस्कारयोगेन शक्तिभक्तो बभूव ह। वने गत्वा महाशक्तिं पूजयामास नित्यदा ॥५॥ उपोषणसमायुक्तस्तताप तप उत्तमम्। ध्यात्वा हृदि महामायां नवार्णजपकारकः ॥६॥ माहात्म्यम- पठन्नित्यं शक्त्या भक्तिसमन्वितः। एवं वर्षशते पूर्णे प्रसन्नाऽभून् महासती ॥७॥ अंते तत्तपसा युक्तं ज्ञानमार्गपरायणम्। ज्ञात्वा लंबोदरस्तत्र वरदाता समाययौ ॥८॥ हृदि तस्य स्थितं ध्यानं शक्तेस्तत्र गणेश्वरः। शुशुभे रक्तवर्णाभो दृष्ट्वा तं सोऽपि विस्मितः ॥९॥ ततः शक्तिस्वरूपं स ददर्श पुनरंजसा। पुनर्लंबोदरं देवं पुनः शक्तियुतं प्रभुम् ॥१०॥ वामांगे संस्थितां शक्तिं हावभावसमन्विताम्। भक्तियुक्तां गणेशस्य ततोऽतिविस्मितोऽभवत् ॥११॥ लंबोदरार्थजं दक्ष शक्तेश्च कृपया महत्। ज्ञानं प्रकटरूपं तद्वभूव हृदये मनोः ॥१२॥ ततो मनुर्विशेषेण भक्तियुक्तो हृदि स्वयम्। विचारमकरोत् पूर्णं तच्छृणु त्वं प्रजापते ॥१३॥ लंबोदरः स्वयं शक्तिः शक्तिर्लंबोदरात्मिका। शक्तेर्लंबोदरस्यैव नांतरं विद्यते कदा ॥१४॥ शक्तिर्वामांगसंभूता दक्षिणांगाद्गणेश्वरः। तयोरभेदभावे यद्ब्रह्म स्वानंदसंज्ञकम् ॥१५॥ क्रीडार्थं भक्तरक्षार्थं देहाकृतिधराविमौ। बभूवतुर्न संदेहस्ततः सर्वमिदं बभौ ॥१६॥ एवं विचारयुक्तः स मनुर्यावत् प्रतापवान्। तावत्तौ बहिरायातौ वरदौ च प्रजापते ॥१७॥ हृदि संस्थ्यौ विस्मितः स क्व गतौ शक्तिविघ्नपौ। पुनर्ध्यानबलेनैव