मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 561, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. १५ पान ३२ चिंतयामास भूमिपः ॥१८॥ ततस्तं तावूचतुश्च वरं वरय सुव्रत । तपसा भक्तिभावेन तुष्टौ दास्यावहे मुने ॥१९॥ तयोर्वचनमाकर्ण्योन्मील्याऽपश्यद्वहिर्मनुः । दृष्ट्वा शक्तियुतं देवं प्रणाम मुदायुतः ॥२०॥ पूजयित्वा विधानेन तुष्टाव भक्तिसंयुतः । प्रणम्य तौ पुनर्देवौ कृत्वा करपुटं विधे ॥२१॥ सावर्णिरुवाच । नमस्ते गणनाधायै नमस्ते गणपालक । चतुर्बाहु- धरायैव चतुर्बाहुधराय ते ॥२२॥ अनाधायै ह्यनाधाय परेशायै परात्मने । भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥२३॥ हेरंबायै नमस्तुभ्यं हेरंबाय नमो नमः । लंबोदरस्वरूपायै नमो लंबोदराय ते ॥२४॥ नानारूपधरायैव नानारूपधराय च । नमो नमो महादेव्यै देवाधिपतये नमः ॥२५॥ गजवक्त्रधरायै ते गजवक्त्रधराय च। शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः॥२६॥ एकदंतधरायै चैकदंतरूपिणे नमः । मायामोहहरायैव मोहहर्त्रे नमो नमः ॥२७॥ स्वानंदपुरसंस्थायै नमः स्वानंदवासिने । परश्वादिधरायै च परश्वादिधराय ते ॥२८॥ नमः सर्वप्रबोधायै नमः सर्वप्रबोधक । मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥२९॥ ढुंढिराज्यै नमस्तुभ्यं ढुंढिराजाय ते नमः । वक्रतुंडधरायै ते वक्रतुंडाय ते नमः ॥३०॥ सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते । नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥३१॥ अनंतखेलकारिण्यै ह्यनंतखेलकारिणे । नमो नमो महाशक्ते नमः शक्तिधराय ते ॥३२॥ नानाभेदकरायै ते नानाभेदमयाय च । नमो नमः परेशायै परेशाय नमो नमः ॥३३॥ या शक्तिः सैव विघ्नेशो नांतरं विद्यते क्वचित् । अज्ञानेन महाभागौ स्त्रीपुंभावः प्रदृश्यते ॥३४॥ यत्र वेदादयो योगिनो देवेशा विसिस्मिरे । तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥३५॥ भवतोर्दर्शनेनैव बोधयुक्तोऽहमंजसा । तेन स्तुतौ गणाध्यक्षौ योगशांतिप्रदायकौ ॥३६॥ प्रयच्छतं महायोगमधुना मे नमाम्यहम् । भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः॥३७॥ इत्युक्त्वा दंडवद्भूतौ पपात पदयोस्तयोः । मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥३८॥ शक्तिविनायकावूचतुः । शांतियोगं महाभाग लभसे योगसेवया । भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥३९॥ भुक्त्वा मन्वंतरं पूर्णं यशः स्थाप्य जगत्त्रये । अंते स्वानंदगो भूत्वा ब्रह्मभूतो भविष्यसि ॥४०॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । पठते शृण्वते चैव भविष्यति न संशयः ॥४१॥ एवमुक्त्वा गणाध्यक्षावंतर्धानं प्रचक्रतुः । मनुः स्वगृहमागत्याऽभजत्तौ भावसंयुतः ॥४२॥ मन्वंतरसमा भुक्त्वा ब्रह्मभूतो बभूव ह । गाणपत्यो महाभागः सावर्णिः प्रथितोऽभवत् ॥४३॥ मयाऽवतारः कथितो नाम्ना शक्तिविनायकः। सर्वसिद्धिप्रदः पूर्णो लंबोदरस्य भक्तितः ॥४४॥ मायया मोहितानां वै भिन्ना शक्तिः प्रदृश्यते । या शक्तिः