भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 562, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 562

स स्वयं दक्ष लंबोदरो न संशयः ॥४५॥ स्त्रीपुंभावमयी माया त्यक्तव्या योगसेवया । तदा लंबोदरः प्राप्तो योगिभिर्ब्रह्म- नायकः ॥४६॥ केचिच्छक्तिं वदंत्येनं केचिल्लंबोदरं परम् । भक्त्या भिन्नं स्वरुच्यर्थं जानीह्यत्र न संशयः ॥४७॥ असत्स्वानंदरूपा वै शक्तिर्वेदे प्रकीर्तिता । स लंबोदर आख्यातो गणेशस्यावतारभृत् ॥४८॥ शक्तिविनायकस्यैतच्चरित्रं यः शृणोति वा । पठते भविता तस्य भुक्तिर्मुक्तिर्न संशयः ॥४९॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते शक्तिविनायकमाहात्म्ये पंचदशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शेषपुत्रस्य माहात्म्यं कथयामि समासतः । तच्छृणुष्व प्रजानाथ योगशांतिप्रदायकम् ॥१॥ एकदा सत्यलोकस्थो ब्रह्मा ध्यानपरायणः । बभूव सर्वजंतूनां हितार्थं मोहितः स्वयम् ॥२॥ सदा सृष्टिर्मदीयेयमखंडा जायते कथम् । तत्र तस्य स्वनिःश्वासात् पुरुषः संभवूव ह ॥३॥ स प्रणम्य विधातारं तुष्टाव विविधैः स्तवैः । तमुवाच तदा ब्रह्मा किं वाञ्छसि वदाऽशु मे ॥४॥ ब्रह्मणो वचनं श्रुत्वा हर्षयुक्तः पुमानभूत् । तं जगाद प्रजानाथं भक्ति- नम्रात्मकंधरः ॥५॥ पुमानुवाच । तव निःश्वाससंभूतं पुत्रं मां पालय प्रभो । देहि नाम तथा स्थानं भक्ष्यं नानाविधं विधे ॥६॥ अन्यत् सुखकरं सर्वं देहि नाथ नमोऽस्तु ते । त्वं गतिः सर्वभूतानामधुना मे विशेषतः ॥७॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा स्नेहयुतोऽभवत् । स जगाद तमालिंग्य चुचुंबे पुत्रवत्सलः ॥८॥ ब्रह्मोवाच । मायादर्शनमात्रेण वर्धसे त्वं महामते । मायाकरस्ते विख्यातमतो नाम भविष्यति ॥९॥ यद्यदिच्छसि तत्तत्ते सफलं च भविष्यति । त्रैलोक्ये वसतिः पुत्र गतिरव्याहता भवेत् ॥१०॥ चतुःपदार्थसंभूतं सदा वश्यं भविष्यति । चतुर्विधमयेभ्यस्ते मरणं न कदा भवेत् ॥११॥ युद्धे चतुर्विधं सर्वं प्रजेष्यसि न संशयः । सदाऽऽरोग्यादिसंयुक्तो भविष्यसि मदात्मज ॥१२॥ ब्रह्मणो वचनं श्रुत्वा हर्षितोऽभूत् पुमान् स्वयम् । मायाकरः प्रणम्यैव तं ययौ स्वेच्छया चरन् ॥१३॥ ततो दानवमुख्यश्च विप्रचित्तिः प्रतापवान् । तं दृष्ट्वा बलसंयुक्तं समागत्य ननाम सः ॥१४॥ ज्ञात्वा वृत्तांतमेतस्य मायाकरस्य दुर्मतिः । जगाद तं पुनः सोऽपि विप्रचित्तिः प्रतापवान् ॥१५॥ विप्रचित्तिरुवाच । मायाकर महाभाग शृणु मे परमं वचः । वराः प्राप्तास्त्वया सर्वे दुर्लभा