मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 574, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मायाकरासुरं वीक्ष्य तुतोष गणनायकः । मूषकं स समारुह्य ययौ संग्राममंडलम् ॥१॥ चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः । दैत्यानाज्ञापयामास देवानां हननाय सः ॥२॥ ततो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः । ववृषुः शस्त्रधाराभिर्मेघा इव सुदुर्मदाः ॥३॥ दृष्ट्वा देवगणाः क्रुद्धा युयुधुस्तान् समागतान् । एवं युद्धं महाघोरं सैन्ययोरुभयोरभूत् ॥४॥ परस्परं मम्लुरेत्य संमुखं ते जयेप्सवः । रक्तौघैः सरितस्तत्र संजाता भयदायिकाः ॥५॥ कदाचिज्जयिनो दैत्याः कदाचिदमरा मृधे । न रात्रौ विश्रमं ते तु चक्रिरे क्रोधसंयुताः ॥६॥ एवं दिनानि सप्तैव युयुधुः शस्त्रकोविदाः । पलायंतामरा भिन्ना हाहारवकरा भृशम् ॥७॥ तद् दृष्ट्वा शंकरः क्रुद्ध आययौ रणमंडले । ततो विष्णुमुखा देवा युयुधुः क्रोधसंयुताः ॥८॥ तेषां शस्त्रप्रहारेण मृता दैत्या अनेकशः । प्रजापते पलायंत भयभीता दिशो दश ॥९॥ मूर्च्छिता दैत्यराजास्ते सर्वे भूतलाश्रिताः । दृष्ट्वा सिंहरवं मायाकरः कृत्वा समागतः ॥१०॥ क्रोधयुक्तो महादैत्यः शस्त्रवृष्टिं चकार ह । तया देवाः क्षता भूमौ पेतुः सर्वे प्रजापते ॥११॥ आग्नेयास्त्रेण महादैत्यः पातयामास शंकरम् । अन्ये दाहयुताः सर्वे पलायंत दिशो दश ॥१२॥ एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोष ह । स्वयं समागतो हर्षाद्रणभूमौ महाबलः ॥१३॥ दृष्ट्वा मूषकसंस्थं तमवोचद् दैत्यनायकः । क्रोधयुक्तः प्रहस्याऽऽदौ वचनं मद्यपो यथा ॥१४॥ मायाकरासुर उवाच । किं संग्रामाय विघ्नेश मया सह समागतः । एकबाणेन हत्वा त्वां हनिष्यामि सुरान् मुनीन् ॥१५॥ चतुःपदार्थरूपं वै जगत् सर्वं प्रवर्तते । तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ॥१६॥ ब्रह्मांडं निर्जितं येन तेन सार्धं गजानन । योद्धुमिच्छसि बालः सन् बालभावान्न संशयः ॥१७॥ नत्वा मां स्वगृहं याहि न हनिष्यामि निश्चितम् । त्वामज्ञानसमायुक्तं प्रेरकांस्तान्निहन्म्यहम् ॥१८॥ नाम मूषकगस्तेचाखुतुल्यस्त्वं मतो मम । मूर्खवन्नैव जानासि मां सर्व- भयदायकम् ॥१९॥ एवं मायाकरं वीक्ष्य ब्रुवंतं स्वपराक्रमम् । मूषकगस्तमेवं वै जगाद वचनं हितम् ॥२०॥ मूषकग उवाच । किं मां वदसि दैत्येंद्र नाऽहं बालोऽसुराधम । स्वानंदवासकारी वै त्वां हंतुं रूपवान् परः ॥२१॥ हनिष्यामि न संदेह- श्रुतिर्भिर्वर्जितोऽधुना । बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक ॥२२॥ इत्युक्त्वा क्रोधसंयुक्तः कमलं निजहस्तगम् । बिंदुब्रह्ममयं ज्योतिस्तत्याज मूषकेशगः ॥२३॥ आगतं कमलं दृष्ट्वा ज्योतीरूपमयं महत् । मायाकरासुरस्तद्वै जग्राह बलगर्वितः ॥२४॥ गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् । पपात कंठदेशोऽस्य ममार दैत्यनायकः ॥२५॥ कमलं