मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मायाकरासुरं वीक्ष्य तुतोष गणनायकः । मूषकं स समारुह्य ययौ संग्राममंडलम् ॥१॥ चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः । दैत्यानाज्ञापयामास देवानां हननाय सः ॥२॥ ततो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः । ववृषुः शस्त्रधाराभिर्मेघा इव सुदुर्मदाः ॥३॥ दृष्ट्वा देवगणाः क्रुद्धा युयुधुस्तान् समागतान् । एवं युद्धं महाघोरं सैन्ययोरुभयोरभूत् ॥४॥ परस्परं मम्लुरेत्य संमुखं ते जयेप्सवः । रक्तौघैः सरितस्तत्र संजाता भयदायिकाः ॥५॥ कदाचिज्जयिनो दैत्याः कदाचिदमरा मृधे । न रात्रौ विश्रमं ते तु चक्रिरे क्रोधसंयुताः ॥६॥ एवं दिनानि सप्तैव युयुधुः शस्त्रकोविदाः । पलायंतामरा भिन्ना हाहारवकरा भृशम् ॥७॥ तद् दृष्ट्वा शंकरः क्रुद्ध आययौ रणमंडले । ततो विष्णुमुखा देवा युयुधुः क्रोधसंयुताः ॥८॥ तेषां शस्त्रप्रहारेण मृता दैत्या अनेकशः । प्रजापते पलायंत भयभीता दिशो दश ॥९॥ मूर्च्छिता दैत्यराजास्ते सर्वे भूतलाश्रिताः । दृष्ट्वा सिंहरवं मायाकरः कृत्वा समागतः ॥१०॥ क्रोधयुक्तो महादैत्यः शस्त्रवृष्टिं चकार ह । तया देवाः क्षता भूमौ पेतुः सर्वे प्रजापते ॥११॥ आग्नेयास्त्रेण महादैत्यः पातयामास शंकरम् । अन्ये दाहयुताः सर्वे पलायंत दिशो दश ॥१२॥ एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोष ह । स्वयं समागतो हर्षाद्रणभूमौ महाबलः ॥१३॥ दृष्ट्वा मूषकसंस्थं तमवोचद् दैत्यनायकः । क्रोधयुक्तः प्रहस्याऽऽदौ वचनं मद्यपो यथा ॥१४॥ मायाकरासुर उवाच । किं संग्रामाय विघ्नेश मया सह समागतः । एकबाणेन हत्वा त्वां हनिष्यामि सुरान् मुनीन् ॥१५॥ चतुःपदार्थरूपं वै जगत् सर्वं प्रवर्तते । तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ॥१६॥ ब्रह्मांडं निर्जितं येन तेन सार्धं गजानन । योद्धुमिच्छसि बालः सन् बालभावान्न संशयः ॥१७॥ नत्वा मां स्वगृहं याहि न हनिष्यामि निश्चितम् । त्वामज्ञानसमायुक्तं प्रेरकांस्तान्निहन्म्यहम् ॥१८॥ नाम मूषकगस्तेचाखुतुल्यस्त्वं मतो मम । मूर्खवन्नैव जानासि मां सर्व- भयदायकम् ॥१९॥ एवं मायाकरं वीक्ष्य ब्रुवंतं स्वपराक्रमम् । मूषकगस्तमेवं वै जगाद वचनं हितम् ॥२०॥ मूषकग उवाच । किं मां वदसि दैत्येंद्र नाऽहं बालोऽसुराधम । स्वानंदवासकारी वै त्वां हंतुं रूपवान् परः ॥२१॥ हनिष्यामि न संदेह- श्रुतिर्भिर्वर्जितोऽधुना । बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक ॥२२॥ इत्युक्त्वा क्रोधसंयुक्तः कमलं निजहस्तगम् । बिंदुब्रह्ममयं ज्योतिस्तत्याज मूषकेशगः ॥२३॥ आगतं कमलं दृष्ट्वा ज्योतीरूपमयं महत् । मायाकरासुरस्तद्वै जग्राह बलगर्वितः ॥२४॥ गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् । पपात कंठदेशोऽस्य ममार दैत्यनायकः ॥२५॥ कमलं
शीर्षक (Header): खं. १ अ. २२ | पान ४६
गणराजस्य हस्तगं पुनरंजसा । बभूव चासुरेशाना विस्मिताः संबभूविरे ॥२६॥ अहो मायाकरो राजा कथं ममार गर्वितः । शरीरं यादृशं तस्य तादृशं दृश्यतेऽधुना ॥२७॥ तेजः समागतं ह्यत्र तेन तेजो हृतं मृधे । शस्त्रघातविहीनोऽयं ममार दैत्यनायकः ॥२८॥ ततो दैत्यगणाः सर्वे भयभीताः समंततः । पातालं विविशुर्दक्ष देवा हर्षयुता बभुः ॥२९॥ मूषकगं नमस्कृत्य मुनिभिस्तत्त्वकोविदैः । सर्वे पुपूजुर्देवेशास्तुष्टुवुः करसंपुटैः ॥३०॥ देवर्षय ऊचुः । सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः । सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥३१॥ लंबोदराय विघ्नानां नायकाय परात्मने । भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥३२॥ हेरंबाय नमस्तुभ्यं भक्तवत्सलरूपिणे । स्वानंदवासिने चैव परेशाय नमो नमः ॥३३॥ महोदराय पूज्याय सर्वेषां सर्वरूपिणे । सर्वादिपूज्यकायैव वक्रतुंडाय ते नमः ॥३४॥ त्रिनेत्राय चतुर्हस्तकमलस्य धराय ते । मूषकोपरिसंस्थाय ज्येष्ठराजाय ते नमः ॥३५॥ अमेयाय गणाध्यक्ष शूर्पकर्णप्रधारिणे । सर्वेशाय नमस्तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ॥३६॥ अनादये तथा मध्ये नानारूपधराय ते । अंते तादृशरूपाय त्रिस্বরূপाय वै नमः ॥३७॥ शेषपुत्राय शैवाय पाराशर्याय ते नमः । सर्वेषां जनकायैव मात्रे ब्रह्मेश ते नमः ॥३८॥ स्रष्ट्रे पात्रे च संहर्त्रे गणेशाय नमो नमः । शांतिरूपाय शांतिभ्यः शांतिदाय नमो नमः ॥३९॥ अपारगुणधाराय योगिनां हृदि संस्थित । तत् किं स्तुमो नः प्रसीद गणाधीश नमो नमः ॥४०॥ एवं स्तुत्वा गणेशानं प्रणेमुस्ते सुरर्षयः । प्रसन्नात्मा मूषकगस्तानुवाच प्रहर्षितः ॥४१॥ मूषकग उवाच । कृतं मे स्तवनं सर्वैर्भवद्भिः सर्वदं भवेत् । यद्यदिच्छथ तत्तद्दास्यामि वै भक्तितंत्रिताः ॥४२॥ पठतां शृण्वतां नित्यं स्वाधीनोऽहं भवामि च । भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ॥४३॥ वरं वृणुत देवेशा देवा मुनिसमन्विताः । दास्यामि स्तोत्रतुष्टोऽहं वाञ्छितं नात्र संशयः ॥४४॥ देवर्षय ऊचुः । मायाकरासुरस्यैव त्वया नाशः कृतो महान् । तेन तुष्टा गणाधीश किं वदामो वरं परम् ॥४५॥ भक्तिं देहि दृढां नाथ त्वदीयां शांतिदायिनीम् । तया वयं गणेशान कृतकृत्या न संशयः ॥४६॥ तथेति तानुवाचाथ गणेशोऽंतर्दधे स्वयम् । देवाः खिन्ना ययुः सर्वे स्वस्वस्थानं निरामयाः ॥४७॥ मुनयः स्वाश्रमं जग्मुर्महाहर्षसमन्विताः । पूर्ववत् कर्मकर्तारो बभूवुः सर्वजंतवः ॥४८॥ शेषः संमूर्च्छित- स्तत्र पपात धरणीतले । हृदि तस्य गणेशानः प्रकटोऽभूच्च तत्क्षणात् ॥४९॥ जगाद तं महानागं मन्मूर्तिस्थापनं कुरु । तत्र पूजापरो भूत्वा कालं क्राम च सर्पप ॥५०॥ पातालविवरे क्षेत्रं भविष्यति सुसिद्धिदम् । तत्र मां पूजयिष्यंति
[Header] खं. ५ अ. २२ | पान ४७
तेभ्यः सर्वं ददाम्यहम् ॥५१॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः । शेषः स्वगृहमागत्य तथा चक्रे स भावतः ॥५२॥ शतयोजनपर्यन्तं क्षेत्रं गणपतेः स्मृतम् । पाताले सिद्धिदं सर्वं स्वानन्दं कथ्यतेऽपरम् ॥५३॥ तत्र पूजनमात्रेण वाञ्छितं लभते नरः । अनुष्ठानविधानेन ब्रह्मभूयं लभेत्तथा ॥५४॥ इदं ते कथितं दक्ष मूषकगस्य चेष्टितम् । भुक्तिमुक्ति- प्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥५५॥ जगत्सु ब्रह्मसु स्थित्वा चौरवद् गणनायकः । भुनक्ति भोगकान् सर्वांस्तेनाऽयं मूषकध्वजः ॥५६॥ भक्तानां स्मरणेनाऽयं पुण्यपापभवं मलम् । हृत्वा ब्रह्ममयांस्तांश्च कुरुते मूषकध्वजः ॥५७॥ ज्येष्ठशुक्लचतुर्थ्यां महोत्सवो वै प्रवर्तते । जनुस्तिथिर्गणेशस्यांगारकी मध्यगे रवौ ॥५८॥ स्तेयानां विविधानां स राजवाहोऽयमुच्यते । ततो मूषकगो लंबोदरः प्रोक्तः प्रजापते ॥५९॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लंबोदरावतारो मूषकगोऽयं प्रकीर्तितः । स एव शक्तिपुत्रोऽभूत्तच्छृणुष्व प्रजापते ॥१॥ शक्तिलोकस्थिता देवी निर्ममे सकलं जगत् । तद्रक्षणविहारार्थं त्रिधाऽभूत् साऽपि मायया ॥२॥ महाकाली तथा दक्ष महालक्ष्मीः प्रकीर्तिता । महासरस्वती प्रोक्ता भक्तानां भेदनाशनात् ॥३॥ ताभ्यो नानाविधा जाता देव्यो दुर्गादिकाः किल । देवीभिः सहिता साऽपि तताप तप उत्तमम् ॥४॥ एकाक्षरविधानेन दिव्यवर्षसहस्रकम् । ततः प्रसन्नभावेन विघ्नेशो वरदोऽभवत् ॥५॥ स्तुतः संपूजितस्ताभिर्वरं चित्तेप्सितं ददौ । बहुत्वान्नो कथयितुं भवेच्छक्यं प्रजापते ॥६॥ वरस्यैव प्रभावेण स्वस्वकार्यरता बभुः । देव्यो लंबोदरं नित्यं भजंते कुलदैवतम् ॥७॥ आदिशक्तिर्महामाया शांत्यर्थं पुनरारभत् । तपो दुष्करमत्यंतं ततः शांतिमवाप सा ॥८॥ तथापि तपसा युक्ता पुपूज गणनायकम् । ततो वर्षेषु पूर्णेषु शते हृदि समागतः ॥९॥ तं दृष्ट्वा हृदि संस्थं सा तुष्टाव विविधैः स्तवैः । ततो बहिर्विनिःसृत्य जगाद जगदंबिकाम् ॥१०॥ पुत्रोऽहं ते महाभागे ध्यानजो नाऽत्र संशयः । पश्य मां त्वं महामाये स्थितं लंबोदरं बहिः ॥११॥ सा प्रबुद्धा बहिर्लंबोदरं
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण (Transliteration), श्लोक, अन्वय, हिन्दी अनुवाद एवं कथा-प्रसंग प्रस्तुत है:
मूल पाठ (पंक्ति-दर-पंक्ति लिप्यन्तरण)
ख. ५ अ. २३ पान ४८ वीक्ष्य तुतोष ह । अथर्वशिरसा देवी तुष्टवापूज्य साश्रुका ॥१२॥ तुष्टस्तां गणराजश्च जगाद वृणु वाञ्छितम् । दास्यामि भक्तियुक्तायै पुत्रोऽहं पालयस्व माम् ॥१३॥ शक्तिरुवाच । अनेन वपुषा नाथ स्थिरो भव गजानन । भक्तिं देहि दृढां वत्स तव पादाम्बुजे पराम् ॥१४॥ योगिनां ध्यानजं ब्रह्म पुत्रो वेदे प्रकीर्तितः । तत्र किं चित्रमेवेदं विनायक कृतं त्वया ॥१५॥ श्रुत्वा तां गणराजस्तु जगाद वचनं हितम् । मन्मूर्तिस्थापनं कृत्वा पूजयस्व निरंतरम् ॥१६॥ पुत्रवत्सलतां तत्र कुलदेवत्वमादरात् । ब्रह्मभावं तथा देवि कुरु त्वं सर्वदा मयि ॥१७॥ तत्र पूजोपचाराद्यैः पूजयस्व निरंतरम् । तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि ॥१८॥ एवमुक्त्वाऽन्तर्दधेऽसौ लंबोदरः प्रजापते । शक्तिस्तथैव कृत्वा तं भजते ब्रह्मनायकम् ॥१९॥ एवं नानाऽवताराश्च लंबोदरस्य मानद । भक्तानां सर्वसिद्ध्यर्थं भजतां परमाद्भुताः ॥२०॥ रक्त- दंतादिभिश्चैव देवीभिस्तपसा प्रभुः । आराधितो वधार्थाय दैत्यानां गणनायकः ॥२१॥ देवीभिः संस्तुतो देवः प्रसन्नो वरदोऽभवत् । वरस्यैव प्रभावेण हता दैत्या अनेकशः ॥२२॥ योगनिष्ठा महादेव्योऽभजंस्तं विघ्ननाशनम् । कुलदैवत- भावेन शांत्यर्थं च प्रजापते ॥२३॥ ते सर्वे गणराजा वै स्मृता लंबोदरात्मकाः । ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः ॥२४॥ इदं लंबोदरस्यैवावतारस्य कथामृतम् । शृणोति पठते वापि स सर्वफलभाग् भवेत् ॥२५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो शृणु महाभाग गाणपत्यस्वरूपकम् । येन त्वं गाणपत्ये वै पदे सुनिपुणो भवेः ॥१॥ नरो गणेशभक्तिं यो भवेत् कर्तुं समुद्यतः । गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् ॥२॥ गाणपत्यं सुशांतस्थं गुरुं वेदार्थपारगम् । नत्वा तं संवदेत् पूर्वं दीक्षां देहि महाप्रभो ॥३॥ त्वमेव गणराजोऽसि गाणपत्यपरायणः । मां कुरुष्व महाभाग गाणपत्यं सुशीलकम् ॥४॥ एवं पृष्टो गुरुः शिष्यं वदेद् दृष्ट्वा सुशीलकम् । श्रौतस्मार्तक्रियायुक्तं गणेशभावलालसम् ॥५॥ ततस्तं शिक्षयेदादौ धर्मान् गाणेशकान् परान् । तांस्तुभ्यं कथयाम्येव शृणु सर्वसुखप्रदान् ॥६॥
अध्याय २२ (अवशिष्ट भाग) : श्लोक, अन्वय एवं हिन्दी अनुवाद
श्लोक १२–१३
वीक्ष्य तुतोष ह । अथर्वशिरसा देवी तुष्टवापूज्य साश्रुका ॥१२॥ तुष्टस्तां गणराजश्च जगाद वृणु वाञ्छितम् । दास्यामि भक्तियुक्तायै पुत्रोऽहं पालयस्व माम् ॥१३॥
- अन्वय: (देवी) वीक्ष्य तुतोष ह। साश्रुका देवी अथर्वशिरसा अपूज्य तुष्टाव। तुष्टः गणराजः च तां जगाद—वाञ्छितं वृणु, भक्तियुक्तायै (तुभ्यं) दास्यामि। अहं पुत्रः (अस्मि), माम् पालयस्व।
- हिन्दी अनुवाद: उन्हें (गणेश जी को) देखकर देवी अत्यंत संतुष्ट हुईं। आँखों में प्रेमाश्रु भरकर उन्होंने 'अथर्वशीर्ष' से उनका पूजन एवं स्तवन किया। संतुष्ट होकर गणराज ने उनसे कहा—"अपनी इच्छानुसार वर माँगो, मुझमें अनन्य भक्ति रखने वाली तुम्हें मैं सब कुछ दूँगा। मैं तुम्हारा पुत्र हूँ, मेरा पालन करो।"
श्लोक १४–१५
शक्तिरुवाच । अनेन वपुषा नाथ स्थिरो भव गजानन । भक्तिं देहि दृढां वत्स तव पादाम्बुजे पराम् ॥१४॥ योगिनां ध्यानजं ब्रह्म पुत्रो वेदे प्रकीर्तितः । तत्र किं चित्रमेवेदं विनायक कृतं त्वया ॥१५॥
- अन्वय: शक्तिः उवाच—हे गजानन नाथ! अनेन वपुषा स्थिरः भव। हे वत्स! तव पादाम्बुजे दृढां परां भक्तिं देहि। योगिनां ध्यानजं ब्रह्म वेदे पुत्रः प्रकीर्तितः, हे विनायक! तत्र त्वया इदं कृतं किं चित्रम् एव।
- हिन्दी अनुवाद: शक्ति (देवी) ने कहा—"हे गजानन! हे नाथ! आप इसी स्वरूप में यहाँ स्थिर रहें। हे वत्स! मुझे अपने चरण-कमलों में सुदृढ़ एवं परम भक्ति प्रदान कीजिए। योगियों के ध्यान से जानने योग्य जो परब्रह्म है, वही वेदों में पुत्र-रूप में वर्णित किया गया है; अतः हे विनायक! आपने जो यह (पुत्र-रूप धारण) किया है, इसमें आश्चर्य ही क्या है!"
श्लोक १६–१८
श्रुत्वा तां गणराजस्तु जगाद वचनं हितम् । मन्मूर्तिस्थापनं कृत्वा पूजयस्व निरंतरम् ॥१६॥ पुत्रवत्सलतां तत्र कुलदेवत्वमादरात् । ब्रह्मभावं तथा देवि कुरु त्वं सर्वदा मयि ॥१७॥ तत्र पूजोपचाराद्यैः पूजयस्व निरंतरम् । तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि ॥१८॥
- अन्वय: तां श्रुत्वा गणराजः तु हितं वचनं जगाद—मन्मूर्तिस्थापनं कृत्वा निरंतरं पूजयस्व। हे देवि! तत्र पुत्रवत्सलतां, आदरात् कुलदेवत्वं, तथा मयि सर्वदा ब्रह्मभावं कुरु। तत्र पूजोपचाराद्यैः निरंतरं पूजयस्व, तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि।
- हिन्दी अनुवाद: उनकी बात सुनकर गणराज ने हितकारी वचन कहा—"मेरी मूर्ति की प्रतिष्ठा करके निरंतर पूजन करो। हे देवि! उस प्रतिमा में पुत्र-स्नेह, आदरपूर्वक कुलदेवता-भाव तथा मुझमें सर्वदा परब्रह्म-भाव रखो। विभिन्न पूजोपचारों से निरंतर मेरी पूजा करो, इससे तुम कृतकृत्य और परा-भक्ति से युक्त हो जाओगी।"
श्लोक १९–२१
एवमुक्त्वाऽन्तर्दधेऽसौ लंबोदरः प्रजापते । शक्तिस्तथैव कृत्वा तं भजते ब्रह्मनायकम् ॥१९॥ एवं नानाऽवताराश्च लंबोदरस्य मानद । भक्तानां सर्वसिद्ध्यर्थं भजतां परमाद्भुताः ॥२०॥ रक्तदंतादिभिश्चैव देवीभिस्तपसा प्रभुः । आराधितो वधार्थाय दैत्यानां गणनायकः ॥२१॥
- अन्वय: हे प्रजापते! असौ लंबोदरः एवम् उक्त्वा अन्तर्दधे। शक्तिः तथैव कृत्वा तं ब्रह्मनायकं भजते। हे मानद! भजतां भक्तानां सर्वसिद्ध्यर्थं लंबोदरस्य एवं नाना परमाद्भुताः अवताराः (भवन्ति)। रक्तदन्तादिभिः देवीभिः च एव दैत्यानां वधार्थाय प्रभुः गणनायकः तपसा आराधितः।
- हिन्दी अनुवाद: (मुद्गल ऋषि कहते हैं—) हे प्रजापति! ऐसा कहकर वे लंबोदर अंतर्धान हो गए। देवी शक्ति ने भी वैसा ही करके उन परब्रह्म-नायक गणेश जी का भजन किया। हे मानद! अपने आराधक भक्तों की समस्त सिद्धियों के लिए लंबोदर के ऐसे अनेक परम अद्भुत अवतार हुए हैं। रक्तदंता आदि देवियों ने भी दैत्यों के संहार के लिए तपस्या द्वारा प्रभु गणनायक की आराधना की थी।
श्लोक २२–२५
देवीभिः संस्तुतो देवः प्रसन्नो वरदोऽभवत् । वरस्यैव प्रभावेण हता दैत्या अनेकशः ॥२२॥ योगनिष्ठा महादेव्योऽभजंस्तं विघ्ननाशनम् । कुलदैवतभावेन शांत्यर्थं च प्रजापते ॥२३॥ ते सर्वे गणराजा वै स्मृता लंबोदरात्मकाः । ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः ॥२४॥ इदं लंबोदरस्यैवावतारस्य कथामृतम् । शृणोति पठते वापि स सर्वफलभाग् भवेत् ॥२५॥
- अन्वय: देवीभिः संस्तुतः देवः प्रसन्नः वरदः अभवत्। वरस्य प्रभावेण एव अनेकशः दैत्याः हताः। हे प्रजापते! योगनिष्ठाः महादेव्यः शांत्यर्थं कुलदैवतभावेन तं विघ्ननाशनम् अभजन्। ते सर्वे गणराजाः वै लंबोदरात्मकाः स्मृताः, सर्वभावेन ब्रह्मभूतपदप्रदाः ज्ञातव्याः। यः इदं लंबोदरस्य अवतारस्य कथामृतं शृणोति पठते वा अपि, सः सर्वफलभाग् भवेत्।
- हिन्दी अनुवाद: देवियों द्वारा स्तुति किए जाने पर प्रसन्न होकर देव गणेश वरदाता बने। उनके वर के प्रभाव से ही अनेकों दैत्य मारे गए। हे प्रजापति! योग-परायण महादेवियों ने शांति के निमित्त कुलदेवता-भाव से उन विघ्नविनाशक की आराधना की। वे सभी गणराज वस्तुतः 'लंबोदर' के ही स्वरूप माने गए हैं, जो पूर्ण निष्ठा से भजने पर ब्रह्म-पद प्रदान करने वाले हैं। जो मनुष्य लंबोदर के इस अवतार रूपी कथामृत को सुनता या पढ़ता है, वह समस्त शुभ फलों का भागी होता है।
अध्याय पुष्पिका
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॥
- हिन्दी अनुवाद: इस प्रकार पुराणोपनिषद् रूप श्रीमद् मौद्गल महापुराण के पाँचवें खण्ड में लंबोदर-चरित्र के अंतर्गत 'शक्तिपुत्रचरित' नामक बाईसवाँ अध्याय समाप्त हुआ।
अध्याय २३ : (गाणपत्य-स्वरूप-वर्णन)
श्लोक १–३
श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो शृणु महाभाग गाणपत्यस्वरूपकम् । येन त्वं गाणपत्ये वै पदे सुनिपुणो भवेः ॥१॥ नरो गणेशभक्तिं यो भवेत् कर्तुं समुद्यतः । गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् ॥२॥ गाणपत्यं सुशांतस्थं गुरुं वेदार्थपारगम् । नत्वा तं संवदेत् पूर्वं दीक्षां देहि महाप्रभो ॥३॥
- अन्वय: मुद्गलः उवाच—अथो हे महाभाग! गाणपत्यस्वरूपकं शृणु, येन त्वं गाणपत्ये पदे सुनिपुणः भवेः। यः नरः गणेशभक्तिं कर्तुं समुद्यतः भवेत्, अयं गणेशप्रीतिकामार्थं दीक्षायुक्तः भवेत्। सुशांतस्थं वेदार्थपारगं गाणपत्यं गुरुं नत्वा पूर्वं तं संवदेत्—हे महाप्रभो! दीक्षां देहि।
- हिन्दी अनुवाद: श्री गणेशाय नमः। मुद्गल ऋषि बोले—"अब हे महाभाग! गाणपत्य (गणेश-उपासना) के स्वरूप को सुनो, जिससे तुम गाणपत्य-पद में पूर्णतः निपुण हो जाओगे। जो मनुष्य गणेश जी की भक्ति करने को उद्यत हो, उसे भगवान गणेश की प्रीति प्राप्त करने हेतु सर्वप्रथम विधिवत् दीक्षा ग्रहण करनी चाहिए। परम शांत स्वभाव वाले, वेदों के गूढ़ अर्थ के पारगामी गाणपत्य गुरु को प्रणाम करके पहले उनसे प्रार्थना करे—'हे महाप्रभो! मुझे दीक्षा प्रदान कीजिए।'
श्लोक ४–६
त्वमेव गणराजोऽसि गाणपत्यपरायणः । मां कुरुष्व महाभाग गाणपत्यं सुशीलकम् ॥४॥ एवं पृष्टो गुरुः शिष्यं वदेद् दृष्ट्वा सुशीलकम् । श्रौतस्मार्तक्रियायुक्तं गणेशभावलालसम् ॥५॥ ततस्तं शिक्षयेदादौ धर्मान् गाणेशकान् परान् । तांस्तुभ्यं कथयाम्येव शृणु सर्वसुखप्रदान् ॥६॥
- अन्वय: (शिष्यः वदेत्—) त्वम् एव गाणपत्यपरायणः गणराजः असि। हे महाभाग! मां सुशीलकं गाणपत्यं कुरुष्व। एवं पृष्टः गुरुः सुशीलकं, श्रौतस्मार्तक्रियायुक्तं, गणेशभावलालसं शिष्यं दृष्ट्वा वदेत्। ततः तं आदौ परान् गाणेशकान् धर्मान् शिक्षयेत्। सर्वसुखप्रदान् तान् तुभ्यं कथयामि एव, शृणु।
- हिन्दी अनुवाद: (शिष्य कहे—) 'आप ही साक्षात् गाणपत्य-परायण गणराज हैं। हे महाभाग! मुझ उत्तम शील (सदाचारी) वाले को सच्चा गाणपत्य भक्त बनाइए।' शिष्य द्वारा इस प्रकार प्रार्थना किए जाने पर, गुरु उस शिष्य को सुशील, श्रौत-स्मार्त (वेदोक्त एवं स्मृत्युक्त) कर्मों में संलग्न तथा गणेश-भाव के लिए लालायित देखकर उपदेश दें। इसके पश्चात् गुरु सर्वप्रथम उसे परम गाणेश-धर्मों की शिक्षा दें। वे सभी सुखों को देने वाले धर्म मैं तुम्हें बताता हूँ, ध्यानपूर्वक सुनो।"
[खं. ५ अ. २३] [पान ४९]
परान्नं भक्षयेन्नैवालोकयेन्न रजस्वलाम् । परस्त्रीगमनं क्वापि न कुर्यान् मनसाऽपि सः ॥७॥ स्वार्थाय क्रोधसंयुक्तो न भवेल्लोभसंयुतः । अभक्ष्यभक्षणं नैव कुर्यात् हिंसां कदापि न ॥८॥ गुरुद्रोहं च पैशून्यं ज्येष्ठानामपमानकम् । वेदशास्त्रादिमार्गेभ्यो हीनं नैव समाचरेत् ॥९॥ इहामुत्र विरक्तः स भवेद्ब्रह्मपरायणः । इत्यादिविविधान् धर्मानुपदिश्य मनुं दिशेत् ॥१०॥ आदौ कृच्छ्रादिकं तस्मै दापयेच्च ततः परम् । गाणपत्यान् समाज्ञाप्य सुदिनं त्ववलोकयेत् ॥११॥ अथवा गणराजस्योत्सवदां तिथिमादरात् । चतुर्थीं शुक्लपक्षस्थां वा कृष्णमवलोकयेत् ॥१२॥ गणेशप्रियकालं वा समालोक्य सुसिद्धिदः । गुरुः शिष्याय मंत्रं वै दद्याद्भक्त्यर्थमादरात् ॥१३॥ शृणु तत्र विधिं दक्ष कथयामि सुखप्रदम् । शुचौ मंडपिकां कृत्वा गोमयेनाऽवलेपयेत् ॥१४॥ मृन्मयां तु स्वयं तत्र वेदिं कुर्याद्विचक्षणः । चतुरस्रां च तन्मध्ये दिक्षु संस्थापयेद् घटान् ॥१५॥ आदौ गणेशयंत्रं स्वं कुंकुमेनात्र कारयेत् । स्वेष्टमष्टगणेशानान् पूजयेद् विधिपूर्वकम् ॥१६॥ दीक्षायुक्तांश्च गाणेशान् पूजयेत् स ततः परम् । तेभ्यो भूषणवस्त्रादीन् दापयेच्छाठ्यवर्जितः ॥१७॥ गाणेशेनैव मंत्रेण स जपं कारयेत्तु तैः । पुरश्चरणसंख्याकमथवा लक्षमादरात् ॥१८॥ अथवा दशसाहस्रमथवा च सहस्रकम् । तद्दशांशेन होमं वै कुर्यात्तत्र महामतिः ॥१९॥ ततो बलिप्रदानं वै कुर्यात् पूर्णाहुतिं ततः । पुनः संपूज्य विघ्नेशं स प्रणम्य ततो गुरुम् ॥२०॥ प्रार्थयेत् सर्वभावेन शिष्यं मां तारय प्रभो । मंत्रं देहि महाभाग गाणपत्यं विशेषतः ॥२१॥ पुनर्गुरुं समभ्यर्च्य ततः सकलशं पुनः । स्थापयेत् स्वेष्टदेवाख्यं गाणेशेनैव मंत्रतः ॥२२॥ तत्र विघ्नेश्वरं ध्यात्वा पूजयेत् स्वल्प- मार्गतः । ततो वस्त्रं समाच्छाद्य मस्तके गुरुसंयुतः ॥२३॥ प्रणम्य स्वगुरुं तत्र प्रार्थयेद्वद मंत्रकम् । संसारतारणार्थाय देहि मंत्रं द्विजोत्तम ॥२४॥ एवं गुरुर्महर्षिश्च प्रार्थितस्तं सुशिष्य वै । गणेशं मनसा ध्यात्वा मंत्रं शिष्याय दापयेत् ॥२५॥ ततस्तान् कलशान् गृह्य पूर्वदिक्क्रमतश्च तैः । अष्टोत्तरशतं मंत्रं जपंस्तं स्नापयेद्गुरुः ॥२६॥ एकैकसिद्धिदः प्रोक्तः कलशः स्नानमात्रतः । ब्रह्मभूयकरः प्रोक्तो मध्यमः सर्वसिद्धिदः ॥२७॥ स्नातं शिष्यं समादाय गणेशं प्रणिपत्य च । शिष्येण पूजयेद्देवं ततस्तं स विसर्जयेत् ॥२८॥ प्रणमेद् गाणपत्यांस्तांस्ततो दद्याच्च दक्षिणाम् । पुष्कलां शाठ्यहीनः स भोजयेत्तान् महायशाः ॥२९॥ मोदकापूपलड्डूकपायसान्नैर्महामते । सूक्ष्मतंडुलसंयुक्तैर्नानापक्वान्नमिश्रितैः ॥३०॥ यथेष्टं भोजयित्वा वै प्रणमेत् स पुनः पुनः । प्रार्थयेत्तान् विशेषेण तारितोऽहं भवार्णवात् ॥३१॥ संभारं गुरवे दद्याद्गुरुवंशं नमेत् सदा ।
खं. ५ अ. २४ पान ५०
गाणपत्यान् प्रहृष्यैवोत्थाय तांश्च नमेन्नरः ॥३२॥ गाणपत्यान् समालोक्य न नमेद्यः प्रजापते । तेन विघ्नेश्वरः साक्षाद्धिंसितो नाऽत्र संशयः ॥३३॥ एवं दीक्षां समागृह्य गणेशं पूजयेत् सदा । तत्समीपे तु मंत्रस्य पुरश्चरणकं चरेत् ॥३४॥ अथ धर्मान् प्रवक्ष्यामि शृणु तान् सुसमाहितः । दंतकाष्ठमभुक्त्वा तु न गच्छेदृणपालयम् ॥३५॥ मैथुनं यदि कृत्वा देवालयं च गमिष्यति । स सद्यो भ्रंशमागच्छेदतः स्नात्वा च तं व्रजेत् ॥३६॥ अशुद्धवस्त्रसंयुक्तो विघ्नराजं न संस्पृशेत् । परवस्त्र- धरो भूत्वा पूजयेन्न गणाधिपम् ॥३७॥ छिद्रयुक्तं न वस्त्रं स धारयेद्देवपूजने । मौनेन पूजयेद्देवं यथाविधि गणेश्वरम् ॥ ३८॥ गणेशपूजने सक्तो यदि वाचं वदेन्नरः । पूजांतरायदोषेण विघ्नयुक्तो भवेन्नरः ॥३९॥ अभ्यंगसंयुतो यस्तु स्नानहीनो यदा भवेत् । देवालयं समागच्छेत्तदा भ्रंशमवाप्नुयात् ॥४०॥ उपानत्स्पर्शसंयुक्तः पादक्षालनवजितः । गणेशानालयं गच्छेद्विघ्नयुक्तो भवेन्नरः ॥४१॥ गंधादिचर्चितो भूत्वा यो नार्च्य गणनायकम् । देवालयं गतो दैवाल्लभेदू भ्रंशं स मानवः ॥४२॥ अजीर्णदोषसंयुक्तो यस्तिष्ठेद्देवसन्निधौ । उद्गाराधः समीरेण विघ्नयुक्तो भवेत्तु सः ॥४३॥ भेरीशब्दमनावाद्य गणेशालयगो भवेत् । स भ्रंशं च लभेदक्ष देवगुह्यप्रभंजनात् ॥४४॥ देवालयं समागत्याऽनृतवाचं वदेन्नरः । अथवा देवस्तुत्यादिहीनां स भ्रंशितामियात् ॥४५॥ नित्यं तत्र प्रजानाथ संयतो देवसंनिधौ । मर्यादां पालयंस्तिष्ठेत् स ईप्सितफलं लभेत् ॥४६॥ यथाशास्त्रं विचारेण गणेशं सर्वसिद्धिदम् । यो भजेत् गाणपत्यस्तं स गणेशो भवेन्नरः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । यदि क्षत्रियवंशस्थो दीक्षामिच्छति शाश्वतीम् । गाणेशीं शृणु वक्ष्यामि विधिं तस्य प्रजापते ॥१॥ ब्राह्मणस्यैव हस्तेन कारयेदेतदादरात् । मंत्रमात्रं जपेत् सोऽपि न होमादि स्वहस्ततः ॥२॥ शस्त्रविद्यां परित्यज्य दंडादिकमशेषतः । गाणपत्यों भवेत् सोऽपि क्षत्रियो नाऽत्र संशयः ॥३॥ वैश्यः स्ववृत्तिजं कर्म क्रयविक्रयकं परम् । त्यजेत्ततो गणेशस्य दीक्षायां योग्यतामियात् ॥४॥ शूद्राणां नाममंत्रश्च वक्तव्यो ब्राह्मणैः सदा । हिंसादिकमथो
खं. ५ अ. २४ पान ५१ ✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼ त्यक्त्वा शूद्रो दीक्षां लभेत् पराम् ॥५॥ नाममंत्रेण सर्वं वै कुर्यात् शूद्रः स्वयं विधिम् । गणेश्वरस्य पूजादि न श्लोकादि समुच्चरेत् ॥६॥ न होमादिभवं कर्म प्रायश्चित्तं चरेत्तथा। गाणपत्यो भवेच्छूद्रो दीक्षायुक्तो महायशाः ॥७॥ गणेशदीक्षया युक्तो भवेद् विपथगो यदि । स एव विघ्नसयुक्तो भविष्यति प्रकोपतः ॥८॥ अथ दीक्षितजंतूनां चिह्नानि ते वदाम्यहम् । तैर्युक्तान् गाणपत्यान् वै परान् जानाति मानवः ॥९॥ प्रातः स्नानादिकं कृत्वा संध्यां शाखोक्तमार्गतः । आगमोक्तां च वेदोक्तां पूजां कृत्वा समापयेत् ॥१०॥ अर्चनं द्वादशांगेषु यः कुर्यान् मंत्रपूर्वकम् । सर्वांगलेपनेनैव तत्र मंत्रान् शृणु प्रभो ॥११॥ गणेशोच्छिष्टगंधं वै गृह्यादौ नियतो न्यसेत् । स्वानंदवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥१२॥ ललाटं गणनाधाय नम उच्चार्य चार्चयेत् । दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥१३॥ वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः । अर्चयेच्च ततः कंठं विघ्नेशाय ततः पठन् ॥१४॥ बाहुं दक्षिणगं तद्वद् हेरंबाय नमोऽर्चयेत् । वामं समर्च्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥१५॥ हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे । उदरं नाभिसंस्थानं नमो लंबोदराय ते ॥१६॥ दक्षिणं चैव कुक्षिं स वक्रतुंडाय वै नमः । वामं तु चिंतामणये ह्यर्चयेन्नात्र संशयः ॥१७॥ पृष्ठदेशं नाभिसममर्चयेत् ढुंढये नमः । एते द्वादश मंत्राश्च कथितास्ते प्रजापते ॥१८॥ ललाटं चार्चयेत् सुज्ञः सर्वभद्रविधानतः । अंगानि स तथा दक्ष नाभेरुर्ध्वं समर्च्चयेत् ॥१९॥ सर्वांगलेपनं शस्तं गाणेशानां विशेषतः । रक्तचंदनसंयुक्तो गंधस्तेषां मतः सदा ॥२०॥ मालां शमीभवां वाऽपि प्रभो मंदारवृक्षजाम् । प्रशस्तां स्वगले बाहौ सर्वसिद्धिप्रदायिनीम् ॥२१॥ धारयेन्नात्र संदेहो देवकाष्ठप्रमाणतः । अन्यकाष्ठभवां मालां धारयेन्न कदाचन ॥२२॥ वैष्णवानां यथा दक्ष तुलसीकाष्ठसंभवा । तथा वै गाणपत्यानां शमीमंदारसंभवा ॥२३॥ तदभावे प्रजानाथ विद्रुमजां तु धारयेत् । अथवाऽक्षमयीं मालां धारयेन् मंदमार्गतः॥२४॥ सदा शुचिस्वभावस्थो मित्रशत्रुत्ववर्जितः । द्वंद्वभावविनिर्मुक्तो गाणपत्यश्चरेन् महीम् ॥२५॥ शुक्लकृष्ण- चतुर्थीजं व्रतं नित्यं समाचरेत् । गाणपत्यानि सर्वाणि व्रतानि श्रद्धयान्वितः ॥२६॥ अन्यदेवप्रियं दक्ष व्रतं तीर्थं चरेत्तथा । शक्तियुक्तो भवेत् सोऽपि तदा सर्वं प्रतिष्ठितम् ॥२७॥ क्षेत्राणि गाणपत्यानि चरेन्नियमसंयुतः । अन्यानि शक्तियुक्त- श्चेत् निश्चितं मुनिभिः पुरा ॥२८॥ यथा गणेश्वरो देवः सर्वेषामादिपूज्यकः । अन्यदेवस्य भक्तानां तथा तस्य व्रतादिकम् ॥२९॥ गाणेशानां यथा दक्ष एक एव गणेश्वरः । आवश्यकेन तद्व्रतादिकं च समाचरेत् ॥३०॥ सदा
खं. ५ अ. २४ पान ५२
गणेशनाम्नश्च कीर्तनं तत्र वर्तते । कथा नानाविधा रम्याः कथयंति परस्परम् ॥३१॥ चरित्राणि गणेशस्य गायेयुर्हर्षसंयुताः । पात्रीभूतान् जनान् दृष्ट्वा बोधयंति सुसिद्धये ॥३२॥ अत्र ते कथयिष्यामि संवादं नारदेंद्रजम् । एकदा नारदो योगी भ्रमन्निंद्रं समाययौ ॥३३॥ इंद्रेण पूजितः सोपि गाणेशं गानमाकरोत् । तं प्रणम्य महेंद्रश्च जगाद वाक्यमुत्तमम् ॥३४॥ इंद्र उवाच । वद ब्रह्मन् महाभाग चिह्नानि गणपात्मनाम् । कैश्चिह्नैः संयुता नित्यं गाणपत्याश्चरंति हि ॥३५॥ नारद उवाच । सर्वांगे चंदनालेपो रक्तचंदनसंयुतः । शमीमंदारमाला च तेषां हस्ते गले भवेत् ॥३६॥ सदा गणेशनाम्नश्च श्रवणे तत्पराः स्मृताः । कीर्तने भावसंयुक्ताः गाणपत्या इमे बुधाः ॥३७॥ द्वंद्वस्य भावो हृदि नोभवेत् कदा ये निःस्पृहा योगधराः सुनिर्मलाः । गाणेश्वरा वंदनशीलकाः सदा तान् गाणपत्यान् प्रवदंति योगिनः ॥३८॥ नित्यं स्वधर्मेण च संयुतास्तथा न मानयंति ह्यपवर्गकं कदा । भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदंति योगिनः ॥३९॥ न स्थानगेहादिकमाश्रयंति ये प्रारब्धमात्रेत्यवलंबिनोऽपरे । चिंतामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदंति योगिनः ॥४०॥ श्रौते तथा स्मार्तभवे सुकर्मणि संसक्तदेहा गणराजसिद्धये । सर्वाणि कर्माणि समर्प्य नैज्यपे तान् गाणपत्यान् प्रवदन्ति योगिनः ॥४१॥ निंदां स्तुतिं वीक्ष्य विकारवर्जिताः कांतासुवर्णादिषु भावहीनकाः । प्राटंति विघ्नेश्वरभक्तिलालसा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥४२॥ आच्छादिता ये न च केन भावितास्तिरस्कृता देववरिष्ठ- भोजिनः । जीवैर्हता दोषविहीनचेतसस्तान् गाणपत्यान् प्रवदंति योगिनः ॥४३॥ नेच्छंति कैलासविकुंठकादिकं न ब्रह्मभूयं न रसां रसातलम् । भक्तिं सदेच्छंति गणेशभाविकान् तान् गाणपत्यान् प्रवदंति योगिनः ॥४४॥ मुद्गल उवाच । एवमुक्त्वा महेंद्रं स नारदः स्वेच्छया मुनिः । ययौ विघ्नेश्वरं गायन् यत्र तत्र प्रजापते ॥४५॥ एतत्ते गाणपत्यानां स्वरूपं कथितं मया । श्रवणात् पापसंभूतमज्ञानं नाशमात्रजेत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥
खं. ५ अ. २५ पान ५३ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शमीमंदारमाहात्म्यं वद मे करुणानिधे । कथं विघ्नेश्वरस्यैव प्रियौ तौ संबभूवतुः ॥१॥ मुद्गल उवाच । और्वो नामाऽभवद्विप्रः श्रौतस्मार्तक्रियापरः । स्वधर्मरतया पत्न्या ब्रह्मनिष्ठो महायशाः ॥२॥ तयोः कालेन संजाता पुत्री तेजस्विनी प्रभो । तस्या नाम द्विजौ तौ तु शमीकेति प्रचक्रतुः ॥३॥ सा कन्या रूपसंयुक्ता गुणयुक्ता प्रजापते । सप्तवर्षवयः संस्था बभूव जनकप्रिया ॥४॥ तदर्थं ब्राह्मणः सोऽपि वरमिच्छन् समाययौ । शौनकस्याश्रमं तत्र ददर्श मुनिसत्तमम् ॥५॥ पूजितः शौनकेनैव मंदारं शिष्यमुत्तमम् । शौनकस्य ददर्शाऽसौ विद्याह्वयं धौम्यनंदनम् ॥६॥ सुशील गुरुसेवाया निरतं धर्मलालसम् । हर्षयुक्तोऽभवत्तत्र मेने जामातरं हृदि ॥७॥ विचार्य शौनकेनैव स्वगृहं प्रत्यपद्यत । सुदिने तं समानाय्य ददौ कन्यां महात्मने ॥८॥ तेन युक्ता शमी तत्र शुशुभे रूपसंयुता । रत्नकांचनयोर्योगस्तथा जातः प्रजापते ॥९॥ पुनर्गते कियत्काले यौवनस्थां विभाव्य ताम् । शमीकां स समानेतुं मंदारः प्रययौ स्वयम् ॥१०॥ तं प्रपूज्य ददौ कन्यामौर्वो हर्षसमन्वितः । मंदारः श्वशुरं नत्वा मार्गसंस्थो बभूव ह ॥११॥ कदा भृशुंडिनामा यो गाणेशश्च महायशाः । विश्रांतिमाश्रमे तस्य चक्रतुर्दंपती परे ॥१२॥ स्वकाश्रमविहारार्थं भृशुंडी संगतोऽभवत् । तं दृष्ट्वा शुंडया युक्तं जहसतुश्च मूर्खवत् ॥१३॥ शुंडाया अपमानेन पापं प्राप्तं महाद्भुतम् । तेन संप्रेरितो योगी चुकोप रक्तलोचनः ॥१४॥ उवाच तौ महायोगी भृशुंडी च द्विजाधमौ । दृष्ट्वा जहसथुः शुंडां पादपौ भवतं रुषा ॥१५॥ शुंडाया अपमानं यः करिष्यति नराधमः । स मे शत्रुनं संदेहो गजास्यस्यावमानतः ॥१६॥ तौ तं भृशुंडिनं विप्रौ प्रणेमतुः सुदुःखितौ । अज्ञानेन कृतं हास्यं क्षंतुमर्हसि योगिप ॥१७॥ उच्छापं वद विप्रेश दासौ ते नात्र संशयः । अत्यंतं गणराजस्य प्रियौ कुरु च मानद ॥१८॥ ततोऽतिकरुणाविष्टो जगाद मुनिसत्तमः । शुंडाया अपमानेन मया शप्तौ न संशयः ॥१९॥ अतः शुंडाधरो देवः प्रसन्नश्च भविष्यति । तदा सर्वं शुभं पूर्णं युवयोर्वाञ्छितं भवेत् ॥२०॥ ममाधीनं न किंचिद्वै शापदाता गजाननः । क्रोधहीनस्य मे क्रोधः प्रेरितस्य समाययौ ॥२१॥ एवमुक्त्वा महायोगी स्वासनस्थो बभूव ह । तौ सद्यो वृक्षयोनिस्थौ बभूवतुः प्रजापते ॥२२॥ अथ मासे गते विप्रः शौनकश्चिंतयान्वितः । शिष्यान् गृह्य ययौ विप्रमौर्वं दुःखान् महामुनिः ॥२३॥ तं पप्रच्छ शनैः सोऽपि मंदारः कुत्र वर्तते । शमीकाया आनयने प्रेषितोऽद्यं मया सुतः ॥२४॥ ततस्तं शोकसंयुक्तमौर्वो जगाद विस्मितः । दत्वा कन्यां मया सद्यः प्रेषितश्च त्वदंतिके ॥२५॥
खं. ५ अ. २५ | पान ५४ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ श्रुत्वैवं शोकसंयुक्ता और्वशौनकमुख्यकाः । तयोः शोधनकामास्ते निसस्रुस्त्वरितास्ततः ॥२६॥ तत्र मार्गे जनान् सर्वान् ग्रामस्थान् वनसंस्थितान् । पप्रच्छुस्ते समूचुस्तान् मासमात्राद् गतौ किल ॥२७॥ एवं विचार्य ते याता भृशुंड्या- श्रममुत्तमम् । तत्र विश्रांतिकृत् स्थाने जनानां ददृशुस्तरू ॥२८॥ अनुपेतौ ततो ज्ञात्वा शौनको ध्यानमाश्रितः । ज्ञात्वा भृशुंडिना शप्तौ वृत्तांतं तानवेदयत् ॥२९॥ ततः सर्वान् महायोगी विसृज्य तपसि स्थितौ । शौनकौर्वौ महादुःखाद् गणेशाराधने रतौ ॥३०॥ अवायुभक्षभावेन ध्यानेन गणनायकम् । तोषयामासतुः प्रीत्या तयोरघविमुक्तये ॥३१॥ एवं द्वादशवर्षेषु गतेषु द्विरदाननः । आययौ तौ वरं दातुं भृशं तत् क्लेशतापितः ॥३२॥ दृष्ट्वा विघ्नेश्वरं तौ तु प्रणम्या- पूज्य हर्षतः । गणाध्यक्षं तुष्टुवतुः प्रणम्य करसंपुटैः ॥३३॥ शौनकौर्वौ ऊचतुः । नमस्ते गजवक्त्राय विघ्नेशाय परात्मने । अपाराय महेशाय हेरंबाय नमो नमः ॥३४॥ संसारार्णवताराय मायामोहहराय ते । ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥३५॥ ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये । आदिपूज्याय देवाय चांतःस्थाय नमो नमः ॥३६॥ अनादये च सर्वेषां मात्रे पित्रे परात्मने । स्वानंदवासिने तुभ्यं गणेशाय नमो नमः ॥३७॥ शूर्पकर्णाय शूराय लंबोदराय ढुंढये । विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥३८॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च । योगेशाय सुशांताय शांतिदाय नमो नमः ॥३९॥ गुणांतं न ययुर्यस्य शिवविष्ण्वादयोऽमराः । योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥४०॥ नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन । धौम्यपुत्रं च मंदारं शिष्यं मे तारयाऽधुना ॥४१॥ तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप । वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥४२॥ भक्तिं ते देहि हेरंब यया भ्रांतिर्बिनश्यति । दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥४३॥ तयोर्वचनमाकर्ण्य जगाद गणनायकः । तौ भक्तौ तपसा युक्तौ भक्तिबद्ध- स्वभावतः ॥४४॥ श्रीगजानन उवाच । भृशुंडिना च विप्रर्षी शप्तौ तौ दंपती पुरा । ज्ञात्वा मदीयतुंडस्यापमानान्नात्र संशयः ॥४५॥ भृशुंडिनोऽतिभक्तस्य मम मिथ्यावचः कदा । न करोमि महाभागौ देहादधिक एव सः ॥४६॥ भृशुंडिनो- ऽपमानश्च क्रियते विविधैर्जनैः । न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥४७॥ मदीयपमानं स सहते न कदाचन । अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥४८॥ भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् । शृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥४९॥ मंदारस्य च शम्याश्च मूले स्थास्यामि निश्चलः । मद्रूपौ वृक्षजातीनां सर्ववंद्यौ भविष्यतः ॥५०॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
खं. ५ अ. २५ पान ५५ देवास्तौ प्रणमस्यंति किं पुनर्जंतवो मताः। दर्शनात् स्पर्शनाच्चैव पापघ्नौ तौ भविष्यतः ॥५१॥ मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ। भविष्यतो विशेषेण वृक्षराजौ महामुनी ॥५२॥ शमीपत्रेण मां विप्रा पूजयिष्यंति मानवाः। तेषां वाञ्छां सदाऽहं वै पूरयिष्यामि शाश्वतीम् ॥ ५३॥ मंदारपुष्पमेकं समर्पयिष्यति मे नरः। तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितम् ॥५४॥ कृता नानाविधा पूजा मदीया मानवेन च। दूर्वाहीना वृथा सर्वा भवत्यत्र न संशयः ॥५५॥ अद्य प्रभृति विप्रेशौ शमीपत्रेण संयुता। मंदारकुसुमेनैव सफला सा भविष्यति ॥५६॥ शमीपत्रं नरेणैव भवेन् मयि समर्पितम्। न तु क्रतुशतेनैव तुल्यं तेभ्योऽधिकं मतम् ॥५७॥ शमीपत्रेण संतुष्टो भविष्यामि निरंतरम्। मंदारपुष्प- केनैव को वदेत्तु तयोः फलम् ॥५८॥ नित्यं शमीं नमेद्यस्तु पूजयेद्वा तु संस्पृशेत्। स सप्तकुलसंयुक्तः स्वानंदं मे गमिष्यति ॥५९॥ तथा मंदारवृक्षं यो नमेत् संपूजयेन्नरः। संस्पृशेत् सोऽपि स्वानंदं व्रजेत् सप्तकुलैर्युतः ॥६०॥ प्रदक्षिणां प्रकुर्वीत शमीमंदारवृक्षयोः। सप्तद्वीपवती पृथ्व्याः कृता तेन प्रदक्षिणा ॥६१॥ यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेत्। शतभूमिप्रदाक्षिण्यसमं पुण्यं लभेन्नरः ॥६२॥ बहुनाऽत्र किमुक्तेन मद्रूपौ वृक्षजातिषु। तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः ॥६३॥ वृक्षबुद्ध्या शमीं यो वै मंदारं यदि पश्यति। स नारकी नरो विप्रौ भविष्यति न संशयः ॥६४॥ शमीं मंदारकं वीक्ष्य न नमेद्यो नराधमः। दक्षिणं कुरुते नैव नष्टपुण्यो भवेत्तदा ॥६५॥ शमीं यश्छेदयेद्वापि मंदारं मुनिसत्तमौ। नरकेषु महापापी पतिष्यति न संशयः ॥६६॥ शाखां पत्रं तु यः पापी छेदयिष्यति मानवः। नारकी स भवेन्नूनं दर्शनात् पापदो भवेत् ॥६७॥ शमीं यो निंदयेद्वा यो मंदारं वृक्षसत्तमम्। सर्वभाग्यविहीनः स नारकी जायते ततः ॥६८॥ मद्रूपेणैव मंदारं शमीं यस्तु प्रपश्यति। स भुक्त्वा विविधान् भोगानंते स्वानंदगो भवेत् ॥६९॥ मंदार- मूलमादाय मूर्तिं कृत्वा मदीयिकाम्। पूजयिष्यंति मद्भक्तास्तेषां साध्योऽहमञ्जसा ॥७०॥ मंदारमूलजा मूर्तिः सद्यः सिद्धिप्रदायिका। तद्न्यैवान्यसंभूता मम मूर्तिर्भविष्यति ॥७१॥ मंदारमूर्तिंगं पूजेत् शमीपत्रेण भावतः। दूर्वामंदार- पुष्पैश्च त्रयं सुदुर्लभं मतम् ॥७२॥ शमी मंदारदूर्वाश्च त्रयमेकत्र कारितम्। भक्तेन स तु मत्तुल्यो पूजायां मे भविष्यति ॥७३॥ शमीमंदारजां मालां कृत्वा जपं समाचरेत्। अनंतफलभोक्ताऽसौ भविष्यति न संशयः ॥७४॥ शमीमंदारजां मालां दधानः पुरुषो भवेत्। तस्य देहं समालोक्य विघ्ना नश्यंति पापकाः ॥७५॥ अंते शमीभवं पत्रं मंदारकुसुमं तथा।
दूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥७६॥ शमीमंदारसामीप्ये पूजयेन् मां च मानवः । तेनाप्यसंख्यका पूजा कृता मे नाऽत्र संशयः ॥७७॥ एवमुक्त्वा पुनस्तौ स जगाद गणनायकः । मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥७८॥ तदा मंदारवृक्षस्य मूलजां मूर्तिमादरात् । कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥७९॥ शमीमंदारदूर्वाभिः संतुष्टोऽहं भवामि तु । नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥८०॥ तुलसीवर्जितां पूजां मदीयां कुरुतं सदा । शमीमंदारमालाभिर्जपं मे कुरुतं सदा ॥८१॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥८२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शमीमंदारवरप्रदानं नाम पंचविंशतितमोऽध्यायः ॥
❖
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो धौम्यं समागम्य शौनको हर्षसंयुतः । कथयामास वृत्तांतं सोऽपि संहर्षितो- ऽभवत् ॥१॥ धन्यो मे वृक्षगः पुत्रः सर्वसिद्धिप्रदायकः । साक्षाद्गणेशरूपश्च सर्वेषां वंद्य आदरात् ॥२॥ शमीसमीपगो हर्षसंयुक्तस्तत और्वकः । तताप तप उग्रं स शमीसंयोगकारणात् ॥३॥ स एव मरणे तत्र शमीगर्भस्थितो ह्यभूत् । अग्निरौर्वाभि- धानश्च गाणपत्यो महायशाः ॥४॥ कल्पांते गणनाथं स ययौ योगसमन्वितः । शौनकश्च तथा ढुंढिमभजत् स्नेहसंयुतः ॥५॥ मंदारमूलजां मूर्तिं कृत्वा पूजापरायणः । शमीमंदारदूर्वाभिस्तोषयामास विघ्नपम् ॥६॥ शमीमंदारमालाभिः शुशुभे ब्राह्मणोत्तमः । गाणपत्यस्वरूपेण तथा धौम्यो बभूव ह ॥७॥ भृशुंडी तद्भवं वृत्तं श्रुत्वा हर्षसमन्वितः । आगत्य स्वाश्रमे संस्थौ ननाम वृक्षसत्तमौ ॥८॥ नित्यं पुपूज च शमीं मंदारं भक्तिसंयुतः । शमीमंदारदूर्वाभिः पूजयामास विघ्नपम् ॥९॥ शमीमंदारमालाभिर्भूषितो मुनिसत्तमः । शुशुभे गाणपत्येषु गणराज इवापरः ॥१०॥ एवं ये ये स्थिता दक्ष गाणपत्या विशेषतः । ते ते सर्वे शमीमंदारपूजासंयुता बभुः ॥११॥ एतत्ते कथितं सर्वं शमीमंदारसंभवम् । माहात्म्यं पुनरन्यत्त्वं शृणु पापहरं परम् ॥१२॥ द्राविडे शूद्रयोनिस्थो बभूवे पापकारकः । वनं गत्वा जनान् हत्वा द्रव्यलोभी दुरात्मवान् ॥१३॥ एकदा वनमध्यस्थोऽभवत् व्याघ्रेण धर्षितः । पपात भयभीतश्च सद्यस्तेन प्रभक्षितः ॥१४॥ तत्र
खं. ५ अ. २६ पान ५७ वायुबलेनैव शमीपत्रं समाययौ। तस्य स्पर्शोऽभवत्तस्य दैवयोगात् प्रजापते ॥१५॥ तं नेतुं यमदूताश्च समाजग्मुर्महाबलाः । गाणेशास्तत्र संयाताः समकाले नराधमम् ॥१६॥ यमदूतांस्तिरस्कृत्य गाणेशास्तं प्रगृह्य वै। गंतुं समुद्यता यावत्तावत्ते तान् प्रदुद्रुवुः ॥१७॥ मुसलेन हताः पेतुर्यमदूता महीतले । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥१८॥ यमदूता यमं गत्वा शोकदुःखसमन्विताः । वृत्तांतं कथयामासुः क्रोधेन परिपूरिताः ॥१९॥ यामा ऊचुः । स्वामिन् शास्त्रकराः केचिद्बभूवुर्भूमि- मंडले। त्वदाज्ञावशगं सर्वं वर्तते कुत्र तद् गतम् ॥२०॥ त्वं साक्षाद्धर्मराजश्च यथा वेदार्थवान् प्रभुः । वर्तसे तेन सर्वं वै त्वदाज्ञावशगं मतम् ॥२१॥ शंभुविष्णुमुखा देवा धर्माधारा भवंति वै। धर्मयुक्तस्वभावेन वर्तेरन्नात्र संशयः ॥२२॥ महा- पापी विशालाक्षो नाम शूद्रो ममार ह। तं गृहीतुं वयं तत्र गताः पाशधराः प्रभो ॥२३॥ अकस्मात्तत्र संयाता पुरुषाः परमाद्भुताः । शुंडादंडधराः सर्वे चतुर्बाहुविराजिताः ॥२४॥ अस्मांस्ते तु तिरस्कृत्य तं शूद्रं गृह्य सूर्यज । गंतुं समुद्यता यावत्तावद्योद्धुं वयं स्थिताः ॥२५॥ निपात्य नो महावीर्या मुसलेन प्रगृह्य तम् । गताः कुत्र न जानीमोऽधुना सर्वे महामते ॥२६॥ अतस्तं यत्नसंयुक्तो मदं तेषां हरस्व च । एवमुक्त्वा प्रणम्यैनं स्थिताः प्रांजलयोऽभवन् ॥२७॥ मुद्गल उवाच । तेषां तद्वचनं श्रुत्वा ध्यानस्थोऽभून् महामतिः । यमः सर्वं विदित्वा तु भयं दध्रे महायशाः ॥२८॥ ध्यात्वा गजाननं देवं हृष्टरोमा च साश्रुकः । हृदि प्रणम्य विघ्नेशमुवाच भयसंकुलः ॥२९॥ मदीयकिंकरैः स्वामिन्नपराधः कृतो महान् । तं क्षमस्व दयासिंधो प्रभो ह्यज्ञानसंयुतैः ॥३०॥ गाणपत्यैर्महाभागैर्विवादो नैव शोभनः । स एव तु मया प्राप्तो भाग्यहीनबलेन च ॥३१॥ एवं क्षमाप्य विघ्नेशं स्थितं मनसि किंकरान् । आकार्य भानुजः सर्वान् जगाद वचनं हितम् ॥३२॥ यम उवाच । मंदारमालाश्मिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् । पुष्पं तयोः पत्रयुतं च शूराः संत्यज्य दूरं चरत प्रभीताः ॥३३॥ दूर्वायुतं विघ्नहरस्य गाथां संगायमानं यदि पापयुक्तम् । पूजादिकारं गणनायकस्य संत्यज्य दूरं चरत प्रभीताः ॥३४॥ गणेश हेरंब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदंतमेवं त्यजत प्रभीताः ॥३५॥ अनेकविघ्नांतक वक्रतुंड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीश देवांतकनाशकारिन् वदंतमेवं त्यजत प्रभीताः॥३६॥ महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र । परेश धरणीधर एकदंत वदंतमेवं त्यजत प्रभीताः ॥३७॥ प्रमोदमौदेति नरांतकारे षडूर्मिहंतर्गजकर्ण ढुंढे । द्वंद्धारिसिंधौ स्थिरभावकारिन् वदंतमेवं त्यजत प्रभीताः ॥३८॥
यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण दिया गया है:
विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपूत्र । अनादिपूज्याखुग सर्वपूज्य वदंतमेवं त्यजत प्रभीताः ॥३९॥ विधेर्ज लंबोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन । सुरासुरैः सेवितपादपद्म वदंतमेवं त्यजत प्रभीताः ॥४०॥ वरिन महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनंतवाह । दितौज विघ्नेश्वर शेषनाभे वदंतमेवं त्यजत प्रभीताः ॥४१॥ अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज । निधींश मंत्रेश च शेषपुत्र वदंतमेवं त्यजत प्रभीताः ॥४२॥ वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र । गुहाग्रज ब्रह्मप पार्श्वपुत्र वदंतमेवं त्यजत प्रभीताः ॥४३॥ सिंधोश्च शत्रो परशुपपाणे शमीश पुष्पप्रिय विघ्नहारिन् । दूर्वाभैरर्चित देवदेव वदंतमेवं त्यजत प्रभीताः ॥४४॥ धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशांतिदातः । अमेयामायामितविक्रमेमि वदंतमेवं त्यजत प्रभीताः ॥४५॥ द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रदप्रकाश । चिंतामणे चित्तविहारकारिन् वदंतमेवं त्यजत प्रभीताः ॥४६॥ यमस्य शत्रो अभिमानशत्रो विधेर्जहंतः कपिलस्य सूनो । विदेह स्वानंद अयोगयोग वदंतमेवं त्यजत प्रभीताः ॥४७॥ गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचंद्र । अनादिमध्यांतमयप्रचारिन् वदंतमेवं त्यजत प्रभीताः ॥४८॥ विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध । कर्तश्च पातश्च तु संहरेति वदंतमेवं त्यजत प्रभीताः ॥४९॥ इदमष्टोत्तरशतं नाम्नां तत् प्रपठंति ये । शृण्वंति तेषु कुरुत भीता मा वै प्रवेशनम् ॥५०॥ भुक्तिमुक्तिप्रदं ढुंढेर्धनधान्य- प्रवर्धनम् । ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥५१॥ यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः । धामानि तत्र कुरुत संभीता मा प्रवेशनम् ॥५२॥ तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः । केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥५३॥ एवमुक्त्वा यमः सर्वान् किंकरान् मौनमादधे । यामाः सर्वे गणेशानं भजंते भावसंयुताः ॥५४॥ इदं शमीभवं पुण्यं माहात्म्यं यः शृणोति चेत् । पठति सिद्धिदं तस्य मंदारस्य भविष्यति ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते शमीमंदारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः ॥
खं. ५ अ. २७ पान ५९ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । दूर्वायाश्चरितं हर्षकारकं ब्रूहि मुद्गल । अहो शम्यास मं नास्ति मंदारेण पवित्रकम् ॥१॥ मुद्गल उवाच । पुराऽऽदौ देवदेवेशो ब्रह्मा सृष्ट्वा चराचरम् । तेषामन्नार्थमत्यंतचिंतायुक्तो बभूव ह ॥२॥ ध्यात्वा गजाननं देवं संस्थितः प्रपितामहः । तस्य रोमभ्य एका वै देवी संनिःसृता बभौ ॥३॥ सर्वतः पाणिपादं तां सहस्रवदनां पराम् । सहस्रावयवैः सर्वैः शोभमानां ददर्श सः ॥४॥ ततोऽतिहर्षितो ब्रह्मा बभूवे सर्वधारकः । ज्ञात्वा तामन्नरूपां वै सर्वपोषणकारिणीम् ॥५॥ धातारं तं प्रणम्याऽसौ संस्थिता करसंपुटा । आज्ञां कुरु जगद्धातः किं करोमि पितामह ॥६॥ ब्रह्मोवाच । सर्वेषामन्नभूता त्वं दूर्वानाम्नी भविष्यसि । तपस्व च ततः सर्वमन्नं सृज विधानतः ॥७॥ तथेति तं प्रणम्यैव तताप तप उत्तमम् । गणेशं मनसि ध्यात्वा निराहारसमन्विता ॥८॥ एकाक्षरस्य मंत्रस्य जपेन द्विरदाननः । दिव्यवर्ष- सहस्रेण ययौ तां वरदायकः ॥९॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज सा । अथर्वशिरसा देवं तुष्टाव करसंपुटा ॥१०॥ तामुवाच गणेशानः सृष्टिं नानाविधां सदा । करिष्यसि महाभागे सर्ववंद्या भविष्यसि ॥११॥ एवमुक्त्वा गणाधीशों- ऽतर्धानं प्रजगाम ह । साऽपि हर्षसमायुक्ता सृष्टिं कर्तुं मनो दधे ॥१२॥ तस्या मस्तकभागाद् वै स्वर्गान्नं विविधं महत् । निःसृतं तेन स्वर्गस्था भुंजते विविधान् रसान् ॥१३॥ उदराद् भूमिसंस्थानां निःसृतं विविधं विधे । अन्नं तेनैव भूमिस्था भुंजते विविधान् रसान् ॥१४॥ पातालवासिनां पद्भ्यामन्नं नानाविधं परम् । भुंजते षड्रसान्नित्यं निःसृतं तेन तद्गताः ॥१५॥ अंगप्रत्यंगरूरपेभ्यो नानान्नं ससृजे प्रभो । देवी तेन तु संतुष्टा बभूवुः सर्वजंतवः ॥१६॥ हृष्टपुष्टजनान् वीक्ष्य ब्रह्मा संतोषमादधे । तामागत्य द्विजैर्मंत्रैरभिषेकं चकार ह ॥१७॥ अन्नानामाधिपत्ये चाभिषिक्ता ब्रह्मणा पुरा । शुशुभे सर्वमान्या सा देवी दूर्वा विशेषतः ॥१८॥ राज्यश्रीसंयुता देवी मद्युक्ता बभूव ह । विसस्मार जपं मंत्रं गणेशस्य प्रजापते ॥१९॥ ततो वित्ताकुला जाता स्पर्धां चक्रे विशेषतः । पार्वत्या नित्यमानंदादन्नपूर्णांहेमादरात् ॥२०॥ जगदंबा च सर्वेषामन्नपूर्णत्वकारणात् । साऽहमन्नस्वरूपस्था वृथैयं गर्वमादधे ॥२१॥ तस्याश्चेष्टितमाज्ञाय क्रोधयुक्ता जगन्मयी । दौरात्म्यसहनं कृत्वा ह्यतिष्ठच्छिवसंनिधौ ॥२२॥ एकदा चंद्रगेहे वै बभूव ह महोत्सवः । तत्र देवादिकाः सर्वे सस्त्रीकाश्च समाययुः ॥२३॥ तत्र दूर्वा मदोत्सिक्ता निनिंद जगदंबिकाम् । वृथैयं जगदंबा वै नाम्ना ख्याता बभूव ह ॥२४॥ इत्यादि विविधैर्वाक्यैर्निनिंद जगदंबिकाम् । ततः क्रोधसमायुक्ता पार्वती तां शशाप ह ॥२५॥ पार्वत्युवाच । मदीयरमकूपस्था
निःसृता त्वं न संशयः। वृथा मां स्पर्धसे दुष्टे पतस्व तृणरूपिणी ॥२६॥ पृथिव्यां तृणरूपा च सा बभूव प्रजापते । तदादि सर्ववंद्येयं दूर्वा परमपावनी ॥२७॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । भो क्षमस्वापराधं मे मंत्रत्याग- कृतं प्रभो ॥२८॥ गत्वा वनांतरे दूर्वा तताप तप उत्तमम् । ध्यात्वा विघ्नेश्वरं देवं मंत्रजपपरायणा ॥२९॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः । तामाययौ वरं दातुं भक्तिस्थां भजनप्रियः ॥३०॥ आगतं गणराजं सा दृष्ट्वा ननाम भावतः । संहृष्टा पूज्य तुष्टाव कृत्वा करपुटं विधे ॥३१॥ दूर्वोवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः । भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयंकर ॥३२॥ अनंतायाप्रमेयाय नानालीलाधराय च । हेरंबाय महेशानां नमः पूज्याय ते नमः ॥३३॥ सर्व- पूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे । ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥३४॥ अनाकाराय साकारमूर्तये ब्रह्मरूपिणे । शांतिभ्यः शांतिदात्रे ते परेशाय नमो नमः ॥३५॥ लंबोदराय चौरेशवाहनाय परात्मने । चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥३६॥ ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने । महोदराय पूर्णाय पूर्णानंदाय ते नमः ॥३७॥ स्वानंदवासिने तुभ्यं सिद्धिवुद्धिमयाय च । सिद्धिवुद्धिपते नाथ भक्तेशाय नमो नमः ॥३८॥ किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥३९॥ एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह । जगाद गणराजस्तु दूर्वां तां हर्षसंयुक्तः ॥४०॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् । मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥४१॥ यं यं चिंतयते कामं तं तं दास्यामि सर्वदा । भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥४२॥ वरं वरय दास्यामि चित्तस्थं भक्तितोषितः । क्रोधयुक्तोऽपि देवि त्वां मंत्रत्यागकरीं पुनः ॥४३॥ श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् । दूर्वा लंबोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥४४॥ दूर्वोवाच । वरदोसि यदा नाथ तदा ते भक्तिमुत्तमाम् । दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥४५॥ अन्यच्च मदसंयुक्तां जगदंबां गजानन । स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥४६॥ तृणरूपा भविष्यामि पतिष्यामि धरातले । तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥४७॥ श्रीगजानन उवाच । मा कुरुष्व वृथा चिंतां दूर्वे मे शरणागते । सर्वं शुभं करिष्यामि भविष्यामि नियंत्रितः ॥४८॥ अंशेन तृणरूपा त्वं भविष्यसि महीतले । देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥४९॥ पृथिव्यां तृणरूपा त्वममृतरूपधारिका । शतमूला प्रकांडाद् वै प्ररोहा च शतांकुरा ॥५०॥ सर्वमान्या सर्वपूज्या देवादीनां सदा
खं. ५ अ. २७ पान ६१ प्रिया । भविष्यसि न संदेहो मदूरादन्ननायिके ॥५१॥ महामंगलदा प्रोक्ता मम प्रीतिविवर्धिनी । भविष्यसि तु लोकानां शुभमंगलदायिका ॥५२॥ त्वत्पत्रेण नरा भूमावर्चयिष्यंति देवपान् । न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥५३॥ शक्तेश्चावतारा ये लक्ष्मीललितिकादयः । तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥५४॥ शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा । अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥५५॥ मदीया भक्तिरत्यंतं दृढा ते प्रभविष्यति । मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥५६॥ मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः । करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥५७॥ दूर्वापत्रं विना देवि पूजयिष्यंति मां नराः । तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥५८॥ दूर्वासमं न मे किंचित् पूजायां सुप्रियं भवेत् । विना दूर्वां निराहारी भविष्यामि निरंतरम् ॥५९॥ त्यक्त्वा दूर्वादलं ये वै पूजयिष्यंति मानवाः । शत्रवस्ते मता नित्यं नरकेषु पचंतु ते ॥६०॥ येनार्पितं च पूजायां दूर्वापत्रं महामते । तेनापारमयं सर्वं दत्तं मह्यं विशेषतः॥६१॥ दूर्वापत्रेण संतुष्टो दास्यामि सकलं च मे । ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥६२॥ ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् । पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥६३॥ एवमुक्त्वा गणेशानोऽतर्दधे च प्रजापते । दूर्वा हर्षसमायुक्ता विघ्नेशं भजते परम् ॥६४॥ यथा लंबोदरेणैव कथितं तादृशं नराः । देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः ॥६५॥ सर्वमंगलरूपा सा बभूवे पापनाशिनी । गणेशवरदानेन गाणपत्या तथाऽभवत् ॥६६॥ एतत्ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम् । शृण्वते पठते तस्मै भुक्ति- मुक्तिप्रदं भवेत् ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । दूर्वाया महिमा यत्र ज्ञायते मानवैः परः ॥१॥ दंडकारण्यदेशस्थो बभूवांत्यजजः पुमान् । पिशुनो नाम दुर्बुद्धिः पापकर्मपरायणः ॥२॥ चौरकर्मा वने गत्वा जनान् जघान दारुणः । क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमग्रभत् खलः ॥३॥ शिश्नोदरपरो भूत्वा विचचार वनांतरे । ग्रामे च नगरे वाऽपि शस्त्रधारी दुरात्मवान् ॥४॥ ब्रह्महत्यादिकं पापमपारं स चकार ह । न वक्तुं शक्यते दक्ष मया तस्य चरित्रकम् ॥५॥ एकदा वनसंस्थोऽयं द्विजं दृष्ट्वा महाखलः । कोटरात् स विनिःसृत्याधावच्छस्त्रधरः स्वयम् ॥६॥ तमागतं समालोक्य कालं दंडधरं यथा । पपाल स द्विजस्तस्मात् हाहाकारकरो भृशम् ॥ ७ ॥ द्विजशब्दं समाकर्ण्य क्षत्रिया आगता वनात् । दैवयोगेन पंचैव समीपे मार्गयायिनः ॥ ८ ॥ तैः शस्त्रैः स हतः पापी ममार च पपात ह । ब्राह्मणो हर्षसंयुक्तः स्वाश्रमं चागतोऽभवत् ॥९॥ ततो यामाः प्रगृह्यैव पिशुनं तं महाखलम् । रौरवे ते विनिक्षिप्य नरके पाचयंस्तदा ॥१०॥ पंचमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै । नरकः शांतरूपश्च यातनावर्जितोऽभवत् ॥११॥ तं दृष्ट्वा परमाश्चर्यं यमदूता यमं ययुः । वृत्तांतं कथयामासुर्नर्रकस्य सुशांतिजम् ॥१२॥ तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्थो बभूव ह । ज्ञात्वा तान् कथयामास स्मृत्वा लंबोदरं प्रभुः ॥१३॥ धर्मराज उवाच । पिशुनोऽयं महापापी चांडालो नाऽत्र संशयः । न योग्यो नरके दूता अधुना पुण्यवान्भूत् ॥१४॥ यत्राऽयं तु मृतस्तत्र गाणपत्यः समागतः । तस्य मस्तकगा दूर्वा पपात पिशुनोपरि ॥१५॥ यस्य स्पर्शो भवेद् दूता अस्थिकस्य शवस्य वा । तस्य पापं लयं सर्वं गमिष्यति न संशयः ॥१६॥ पुण्यराशिर्भवेत् सोऽपि सर्वमान्यो विशेषतः । अत एनं तु निष्कास्यानयंत्तु मम संनिधौ ॥१७॥ यमस्य वचनं श्रुत्वा विस्मितास्ते समाययुः । निष्कासितुं समुद्युक्तास्तावच्चित्रं बभूव ह ॥१८॥ गणेशदूतसंयुक्तं विमानं नेतुमाययौ । तं गृह्य गाणपत्यास्ते ययुः स्वानंदकं पुरम् ॥१९॥ पिशुनं ब्रह्मभूतं ते चकुर्हर्षसमन्विताः । पूर्वदेहस्य दूर्वायाः स्पर्शं भक्तिपरायणाः ॥२०॥ धर्मोऽति- विस्मितो भूत्वा तान् जगाद स्वसेवकान् । अहो पश्यत दूतेशा दूर्वामाहात्म्यमुत्कटम् ॥२१॥ धन्योऽयं पिशुनो पापी यस्य देहे समागता । दूर्वा यया विशेषेण योगिनां पदगोऽभवत् ॥२२॥ महिमानं तु दूर्वायाः को जानाति समग्रकम् । शवस्पर्शन दूतेशा ब्रह्मभूतपदप्रदम् ॥२३॥ तानुक्त्वा साश्रुनेत्रः स बभूव रविनंदनः । गणेशं मन्यते नित्यं भजते भक्तिसंयुक्तः ॥२४॥ इदं दूर्वाभवं चित्रं माहात्म्यं यः शृणोति चेत् । पठति तस्य विघ्नेशो वाञ्छितं ददते सदा ॥२५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यत्त्वं शृणु माहात्म्यं दूर्वायाः स्वसुखप्रदम् । यया तृप्तिसमायुक्तो बभूव द्विरदाननः ॥१॥ एकदा नारदो योगी जगाम जनकालयम् । पूजितो जनकं सोऽपि जगाद हर्षसंयुतः ॥२॥ नारद उवाच । धन्यस्त्वं गणनांथस्य भक्तः परमभाविकः । मनेप्सितं गणाध्यक्षो ददते ते नियंत्रितः ॥३॥ नारदस्य वचः श्रुत्वा तं प्रहस्य महामुनिम् । जगाद जनको वाक्यं योगयुक्तं स योगवित् ॥४॥ जनक उवाच । याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः । पूर्णशांतिप्रदो विप्र गाणेशो नात्र संशयः ॥५॥ एकाक्षरं गणेशस्य ददौ मंत्रं सुसिद्धिदम् । मह्यं स कृपया योगिन् साधनं प्रजगाम ह ॥६॥ तथा मया महायोगिन् साधितं ज्ञानमुत्तमम् । गणेशकृपयाऽहं तु योगी जातो गुरुर्यथा ॥७॥ अतोऽहं गणनांथश्च न भिन्नौ मुनिसत्तम । गणेशस्य कृपा कुत्र वर्तते भेददायिनी ॥८॥ मया यच्चिंतितं तत्तत् कथं ददाति विघ्नपः । अयोगिनामिदं सर्वं भ्रांतिदं भवतीत्यहो ॥९॥ पंचधा चित्तवृत्तिश्च तासां प्रकाशकारकः । चिंतामणिः स्वयं साक्षात् खेलति हृदि संस्थितः ॥१०॥ जनकः कुत्र योगींद्र वर्तते वद सांप्रतम् । तस्योपरि गणेशस्य कृपादिकमिदं मुने ॥११॥ अहं हर्ता अहं कर्ताऽहं पाता च मदात्मनाम् । भ्रांतवद्भाषणं योग्यं नैव ते योगिसत्तम ॥१२॥ जनकस्य वचः श्रुत्वा नारदः क्रोधसंयुतः । उवाच तं महाभागं निर्भर्त्स्य जनकं पुनः ॥१३॥ नारद उवाच । ज्ञानमत्तोऽसि राजेंद्र नश्वरस्त्वं कथं भवेः । गणेशाकाररूपश्च देहवान् भ्रमधारकः ॥१४॥ ब्रह्मणस्पतिनामा वै गणेशो वेदवादतः । शरीरे तस्य सा सत्ता वर्तते पूर्णभावतः ॥१५॥ योगिदेहेन सा सत्ता कदापि नृप वर्तते । समाधिना च योगींद्रो गणेशः कथितो बुधैः ॥१६॥ प्रारब्धदेहधारित्वान्नरो योगी न संशयः । नरतुल्या शरीरेस्य भवेत् सत्ता हि सर्वदा ॥१७॥ गर्विष्ठो योगमाहात्म्या- ज्जनक त्वां विशेषतः । भविता गर्वभंगस्ते गजाननप्रसादतः ॥१८॥ एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ । तं प्रणम्य विनीतः स वृत्तांतं प्रजगाद ह ॥१९॥ पुनः प्रणम्य विघ्नेशं ययौ स्वेच्छाचरो मुनिः । नारदो गणनांथस्य गाना- सक्तो महामतिः ॥२०॥ ततो गजाननो भूपं वृद्धब्राह्मणरूपधृक् । आययौ जनकं कुष्ठी कृमिभाराकुलः पतन् ॥२१॥ कंपेन संयुतः सोऽपि दुर्गंधेन समावृतः । पूयशोणितघर्मौघैर्व्याप्तश्च मक्षिकावृतः ॥२२॥ द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः । ययाचे तं नृपं विप्रो भोजनं तोषकारकम् ॥२३॥ राज्ञा संपूजितो विप्रो बुभुजेऽन्नं समागतम् । अन्नं पुनर्ययाचे तं पुष्कलं प्रददौ नृपः ॥२४॥ तदेव तेन संभुक्तं पुना राजा भयाकुलः । अयुतानां समं तस्मै ददावन्नं
सुतुष्टिदम् ॥२५॥ भक्षयित्वा तदपि स ययाचेऽन्नं महामुनिः । ततोऽपक्वं ददौ तस्मै तद् बभक्ष द्विजोत्तमः ॥२६॥ ततो राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः । अन्नं बभक्ष तत् सोऽपि ययाचे तं धरापतिम् ॥२७॥ पुरप्रांते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् । अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ॥२८॥ ययाचे स नृपं विप्रो देह्यन्नं राजसत्तम । राज्ञा लज्जासमायुक्तो न किंचित्तमुवाच ह ॥२९॥ राजानं मुनिवर्यश्च जगाद प्रहसन्निव । त्वं गणेशो न संदेहः कथं सत्ताविवर्जितः ॥३०॥ अकर्तुं कर्तुमथैवान्यथा कर्तुं गजाननः । समर्थस्त्वं कथं राजंस्तूष्णीं तिष्ठसि तद् वद ॥३१॥ भ्रांतो योगमदेनासि राजेंद्रोत्र न संशयः । प्रत्यक्षं नरतुल्योऽसि न गणेशो मतः कदा ॥३२॥ एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपधृक् । बहिर्निःसृत्य लोकान् स ययाचेऽन्नं क्षुधातुरः ॥३३॥ लोकाः सर्वे समृचुस्तं सर्वेषां गृहगं मुने । राज्ञा समाहृतं चान्नं त्वया सर्वं प्रभक्षितम् ॥३४॥ नास्मद्गेहेऽधुना किंचिदन्नं त्वं गच्छ वाडव । सर्वभक्षः कुतो यातः कोऽसि न ज्ञायते जनैः ॥३५॥ श्रुत्वा सोऽपि हसन् विप्रो बभ्राम यत्र तत्र तु । पुरप्रांते गतो दैवाद् ददर्शेदं वाडवालयम् ॥३६॥ त्रिशिरा मुनिवर्यश्चायाचिता वृत्तिधारकः । गाणपत्याग्रणीः पत्न्या स विरोचनया युतः ॥३७॥ तं ददर्श गणेशानः प्रविवेश तदाश्रमम् । सर्वापकारसंयुक्तं धातुधान्यादिवर्जितम् ॥३८॥ ययाचे तं महाभागमन्नं तृप्तिकरं मुने । दीयतां मे क्षुधार्ताय गाणपत्यस्वरूपधृक् ॥३९॥ जगाद त्रिशिरास्तत्र ब्राह्मणं वाक्य- मुत्तमम् । मद्गृहे नैव विप्रेंद्र धान्यं किंचित् प्रवर्तते ॥४०॥ दरिद्राणां महाराजोऽहमेको नात्र संशयः । मत्समो मानवो युक्तो दारिद्र्येण न तिष्ठति ॥४१॥ दूर्वांकुराः समानीता गणेशपूजनाय च । तेष्वेको विद्यते विप्र नान्यत् किंचिद् विचारय ॥४२॥ तस्य तद् वचनं श्रुत्वा जगाद क्षुधितो द्विजः । भक्त्या देहि महाभाग दूर्वांकुरं क्षुधापहम् ॥४३॥ ततो विरोचना विप्रं ददौ नत्वा गजाननम् । ध्यात्वा दूर्वांकुरं तस्मै नानान्नं कल्प्य तत्र सा ॥४४॥ भक्त्या दत्तं तया विप्रो बभक्ष प्रीतिसंयुतः । तेन दूर्वांकुरेणैव संतृप्तोऽभून् महामते ॥४५॥ भक्त्या तुष्टो ददौ विप्रं दर्शनं गणनायकः । गजवक्त्रादिचिह्नैश्च युतं रूपं परात्परम् ॥४६॥ दृष्ट्वा लंबोदरं तौ तु प्रणेमतुः पुनः पुनः । तं साश्रुनयनौ पूज्य तुष्टुवतुः कृतांजली ॥४७॥ विरोचनात्रिशिरसावूचतुः । गणेशाय नमस्तुभ्यं नमः सर्वप्रियंकर । ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥४८॥ हेरंबाय परेशाय मूषकध्वजिने नमः । आत्मनेऽनात्मने तुभ्यं नमो लंबोदराय वै ॥४९॥ अनामय ह्यनाधार