मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 580, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २४ पान ५१ ✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼✼ त्यक्त्वा शूद्रो दीक्षां लभेत् पराम् ॥५॥ नाममंत्रेण सर्वं वै कुर्यात् शूद्रः स्वयं विधिम् । गणेश्वरस्य पूजादि न श्लोकादि समुच्चरेत् ॥६॥ न होमादिभवं कर्म प्रायश्चित्तं चरेत्तथा। गाणपत्यो भवेच्छूद्रो दीक्षायुक्तो महायशाः ॥७॥ गणेशदीक्षया युक्तो भवेद् विपथगो यदि । स एव विघ्नसयुक्तो भविष्यति प्रकोपतः ॥८॥ अथ दीक्षितजंतूनां चिह्नानि ते वदाम्यहम् । तैर्युक्तान् गाणपत्यान् वै परान् जानाति मानवः ॥९॥ प्रातः स्नानादिकं कृत्वा संध्यां शाखोक्तमार्गतः । आगमोक्तां च वेदोक्तां पूजां कृत्वा समापयेत् ॥१०॥ अर्चनं द्वादशांगेषु यः कुर्यान् मंत्रपूर्वकम् । सर्वांगलेपनेनैव तत्र मंत्रान् शृणु प्रभो ॥११॥ गणेशोच्छिष्टगंधं वै गृह्यादौ नियतो न्यसेत् । स्वानंदवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥१२॥ ललाटं गणनाधाय नम उच्चार्य चार्चयेत् । दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥१३॥ वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः । अर्चयेच्च ततः कंठं विघ्नेशाय ततः पठन् ॥१४॥ बाहुं दक्षिणगं तद्वद् हेरंबाय नमोऽर्चयेत् । वामं समर्च्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥१५॥ हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे । उदरं नाभिसंस्थानं नमो लंबोदराय ते ॥१६॥ दक्षिणं चैव कुक्षिं स वक्रतुंडाय वै नमः । वामं तु चिंतामणये ह्यर्चयेन्नात्र संशयः ॥१७॥ पृष्ठदेशं नाभिसममर्चयेत् ढुंढये नमः । एते द्वादश मंत्राश्च कथितास्ते प्रजापते ॥१८॥ ललाटं चार्चयेत् सुज्ञः सर्वभद्रविधानतः । अंगानि स तथा दक्ष नाभेरुर्ध्वं समर्च्चयेत् ॥१९॥ सर्वांगलेपनं शस्तं गाणेशानां विशेषतः । रक्तचंदनसंयुक्तो गंधस्तेषां मतः सदा ॥२०॥ मालां शमीभवां वाऽपि प्रभो मंदारवृक्षजाम् । प्रशस्तां स्वगले बाहौ सर्वसिद्धिप्रदायिनीम् ॥२१॥ धारयेन्नात्र संदेहो देवकाष्ठप्रमाणतः । अन्यकाष्ठभवां मालां धारयेन्न कदाचन ॥२२॥ वैष्णवानां यथा दक्ष तुलसीकाष्ठसंभवा । तथा वै गाणपत्यानां शमीमंदारसंभवा ॥२३॥ तदभावे प्रजानाथ विद्रुमजां तु धारयेत् । अथवाऽक्षमयीं मालां धारयेन् मंदमार्गतः॥२४॥ सदा शुचिस्वभावस्थो मित्रशत्रुत्ववर्जितः । द्वंद्वभावविनिर्मुक्तो गाणपत्यश्चरेन् महीम् ॥२५॥ शुक्लकृष्ण- चतुर्थीजं व्रतं नित्यं समाचरेत् । गाणपत्यानि सर्वाणि व्रतानि श्रद्धयान्वितः ॥२६॥ अन्यदेवप्रियं दक्ष व्रतं तीर्थं चरेत्तथा । शक्तियुक्तो भवेत् सोऽपि तदा सर्वं प्रतिष्ठितम् ॥२७॥ क्षेत्राणि गाणपत्यानि चरेन्नियमसंयुतः । अन्यानि शक्तियुक्त- श्चेत् निश्चितं मुनिभिः पुरा ॥२८॥ यथा गणेश्वरो देवः सर्वेषामादिपूज्यकः । अन्यदेवस्य भक्तानां तथा तस्य व्रतादिकम् ॥२९॥ गाणेशानां यथा दक्ष एक एव गणेश्वरः । आवश्यकेन तद्व्रतादिकं च समाचरेत् ॥३०॥ सदा