मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 579, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २४ पान ५०
गाणपत्यान् प्रहृष्यैवोत्थाय तांश्च नमेन्नरः ॥३२॥ गाणपत्यान् समालोक्य न नमेद्यः प्रजापते । तेन विघ्नेश्वरः साक्षाद्धिंसितो नाऽत्र संशयः ॥३३॥ एवं दीक्षां समागृह्य गणेशं पूजयेत् सदा । तत्समीपे तु मंत्रस्य पुरश्चरणकं चरेत् ॥३४॥ अथ धर्मान् प्रवक्ष्यामि शृणु तान् सुसमाहितः । दंतकाष्ठमभुक्त्वा तु न गच्छेदृणपालयम् ॥३५॥ मैथुनं यदि कृत्वा देवालयं च गमिष्यति । स सद्यो भ्रंशमागच्छेदतः स्नात्वा च तं व्रजेत् ॥३६॥ अशुद्धवस्त्रसंयुक्तो विघ्नराजं न संस्पृशेत् । परवस्त्र- धरो भूत्वा पूजयेन्न गणाधिपम् ॥३७॥ छिद्रयुक्तं न वस्त्रं स धारयेद्देवपूजने । मौनेन पूजयेद्देवं यथाविधि गणेश्वरम् ॥ ३८॥ गणेशपूजने सक्तो यदि वाचं वदेन्नरः । पूजांतरायदोषेण विघ्नयुक्तो भवेन्नरः ॥३९॥ अभ्यंगसंयुतो यस्तु स्नानहीनो यदा भवेत् । देवालयं समागच्छेत्तदा भ्रंशमवाप्नुयात् ॥४०॥ उपानत्स्पर्शसंयुक्तः पादक्षालनवजितः । गणेशानालयं गच्छेद्विघ्नयुक्तो भवेन्नरः ॥४१॥ गंधादिचर्चितो भूत्वा यो नार्च्य गणनायकम् । देवालयं गतो दैवाल्लभेदू भ्रंशं स मानवः ॥४२॥ अजीर्णदोषसंयुक्तो यस्तिष्ठेद्देवसन्निधौ । उद्गाराधः समीरेण विघ्नयुक्तो भवेत्तु सः ॥४३॥ भेरीशब्दमनावाद्य गणेशालयगो भवेत् । स भ्रंशं च लभेदक्ष देवगुह्यप्रभंजनात् ॥४४॥ देवालयं समागत्याऽनृतवाचं वदेन्नरः । अथवा देवस्तुत्यादिहीनां स भ्रंशितामियात् ॥४५॥ नित्यं तत्र प्रजानाथ संयतो देवसंनिधौ । मर्यादां पालयंस्तिष्ठेत् स ईप्सितफलं लभेत् ॥४६॥ यथाशास्त्रं विचारेण गणेशं सर्वसिद्धिदम् । यो भजेत् गाणपत्यस्तं स गणेशो भवेन्नरः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । यदि क्षत्रियवंशस्थो दीक्षामिच्छति शाश्वतीम् । गाणेशीं शृणु वक्ष्यामि विधिं तस्य प्रजापते ॥१॥ ब्राह्मणस्यैव हस्तेन कारयेदेतदादरात् । मंत्रमात्रं जपेत् सोऽपि न होमादि स्वहस्ततः ॥२॥ शस्त्रविद्यां परित्यज्य दंडादिकमशेषतः । गाणपत्यों भवेत् सोऽपि क्षत्रियो नाऽत्र संशयः ॥३॥ वैश्यः स्ववृत्तिजं कर्म क्रयविक्रयकं परम् । त्यजेत्ततो गणेशस्य दीक्षायां योग्यतामियात् ॥४॥ शूद्राणां नाममंत्रश्च वक्तव्यो ब्राह्मणैः सदा । हिंसादिकमथो