मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 581, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २४ पान ५२
गणेशनाम्नश्च कीर्तनं तत्र वर्तते । कथा नानाविधा रम्याः कथयंति परस्परम् ॥३१॥ चरित्राणि गणेशस्य गायेयुर्हर्षसंयुताः । पात्रीभूतान् जनान् दृष्ट्वा बोधयंति सुसिद्धये ॥३२॥ अत्र ते कथयिष्यामि संवादं नारदेंद्रजम् । एकदा नारदो योगी भ्रमन्निंद्रं समाययौ ॥३३॥ इंद्रेण पूजितः सोपि गाणेशं गानमाकरोत् । तं प्रणम्य महेंद्रश्च जगाद वाक्यमुत्तमम् ॥३४॥ इंद्र उवाच । वद ब्रह्मन् महाभाग चिह्नानि गणपात्मनाम् । कैश्चिह्नैः संयुता नित्यं गाणपत्याश्चरंति हि ॥३५॥ नारद उवाच । सर्वांगे चंदनालेपो रक्तचंदनसंयुतः । शमीमंदारमाला च तेषां हस्ते गले भवेत् ॥३६॥ सदा गणेशनाम्नश्च श्रवणे तत्पराः स्मृताः । कीर्तने भावसंयुक्ताः गाणपत्या इमे बुधाः ॥३७॥ द्वंद्वस्य भावो हृदि नोभवेत् कदा ये निःस्पृहा योगधराः सुनिर्मलाः । गाणेश्वरा वंदनशीलकाः सदा तान् गाणपत्यान् प्रवदंति योगिनः ॥३८॥ नित्यं स्वधर्मेण च संयुतास्तथा न मानयंति ह्यपवर्गकं कदा । भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदंति योगिनः ॥३९॥ न स्थानगेहादिकमाश्रयंति ये प्रारब्धमात्रेत्यवलंबिनोऽपरे । चिंतामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदंति योगिनः ॥४०॥ श्रौते तथा स्मार्तभवे सुकर्मणि संसक्तदेहा गणराजसिद्धये । सर्वाणि कर्माणि समर्प्य नैज्यपे तान् गाणपत्यान् प्रवदन्ति योगिनः ॥४१॥ निंदां स्तुतिं वीक्ष्य विकारवर्जिताः कांतासुवर्णादिषु भावहीनकाः । प्राटंति विघ्नेश्वरभक्तिलालसा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥४२॥ आच्छादिता ये न च केन भावितास्तिरस्कृता देववरिष्ठ- भोजिनः । जीवैर्हता दोषविहीनचेतसस्तान् गाणपत्यान् प्रवदंति योगिनः ॥४३॥ नेच्छंति कैलासविकुंठकादिकं न ब्रह्मभूयं न रसां रसातलम् । भक्तिं सदेच्छंति गणेशभाविकान् तान् गाणपत्यान् प्रवदंति योगिनः ॥४४॥ मुद्गल उवाच । एवमुक्त्वा महेंद्रं स नारदः स्वेच्छया मुनिः । ययौ विघ्नेश्वरं गायन् यत्र तत्र प्रजापते ॥४५॥ एतत्ते गाणपत्यानां स्वरूपं कथितं मया । श्रवणात् पापसंभूतमज्ञानं नाशमात्रजेत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥