मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 582, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २५ पान ५३ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शमीमंदारमाहात्म्यं वद मे करुणानिधे । कथं विघ्नेश्वरस्यैव प्रियौ तौ संबभूवतुः ॥१॥ मुद्गल उवाच । और्वो नामाऽभवद्विप्रः श्रौतस्मार्तक्रियापरः । स्वधर्मरतया पत्न्या ब्रह्मनिष्ठो महायशाः ॥२॥ तयोः कालेन संजाता पुत्री तेजस्विनी प्रभो । तस्या नाम द्विजौ तौ तु शमीकेति प्रचक्रतुः ॥३॥ सा कन्या रूपसंयुक्ता गुणयुक्ता प्रजापते । सप्तवर्षवयः संस्था बभूव जनकप्रिया ॥४॥ तदर्थं ब्राह्मणः सोऽपि वरमिच्छन् समाययौ । शौनकस्याश्रमं तत्र ददर्श मुनिसत्तमम् ॥५॥ पूजितः शौनकेनैव मंदारं शिष्यमुत्तमम् । शौनकस्य ददर्शाऽसौ विद्याह्वयं धौम्यनंदनम् ॥६॥ सुशील गुरुसेवाया निरतं धर्मलालसम् । हर्षयुक्तोऽभवत्तत्र मेने जामातरं हृदि ॥७॥ विचार्य शौनकेनैव स्वगृहं प्रत्यपद्यत । सुदिने तं समानाय्य ददौ कन्यां महात्मने ॥८॥ तेन युक्ता शमी तत्र शुशुभे रूपसंयुता । रत्नकांचनयोर्योगस्तथा जातः प्रजापते ॥९॥ पुनर्गते कियत्काले यौवनस्थां विभाव्य ताम् । शमीकां स समानेतुं मंदारः प्रययौ स्वयम् ॥१०॥ तं प्रपूज्य ददौ कन्यामौर्वो हर्षसमन्वितः । मंदारः श्वशुरं नत्वा मार्गसंस्थो बभूव ह ॥११॥ कदा भृशुंडिनामा यो गाणेशश्च महायशाः । विश्रांतिमाश्रमे तस्य चक्रतुर्दंपती परे ॥१२॥ स्वकाश्रमविहारार्थं भृशुंडी संगतोऽभवत् । तं दृष्ट्वा शुंडया युक्तं जहसतुश्च मूर्खवत् ॥१३॥ शुंडाया अपमानेन पापं प्राप्तं महाद्भुतम् । तेन संप्रेरितो योगी चुकोप रक्तलोचनः ॥१४॥ उवाच तौ महायोगी भृशुंडी च द्विजाधमौ । दृष्ट्वा जहसथुः शुंडां पादपौ भवतं रुषा ॥१५॥ शुंडाया अपमानं यः करिष्यति नराधमः । स मे शत्रुनं संदेहो गजास्यस्यावमानतः ॥१६॥ तौ तं भृशुंडिनं विप्रौ प्रणेमतुः सुदुःखितौ । अज्ञानेन कृतं हास्यं क्षंतुमर्हसि योगिप ॥१७॥ उच्छापं वद विप्रेश दासौ ते नात्र संशयः । अत्यंतं गणराजस्य प्रियौ कुरु च मानद ॥१८॥ ततोऽतिकरुणाविष्टो जगाद मुनिसत्तमः । शुंडाया अपमानेन मया शप्तौ न संशयः ॥१९॥ अतः शुंडाधरो देवः प्रसन्नश्च भविष्यति । तदा सर्वं शुभं पूर्णं युवयोर्वाञ्छितं भवेत् ॥२०॥ ममाधीनं न किंचिद्वै शापदाता गजाननः । क्रोधहीनस्य मे क्रोधः प्रेरितस्य समाययौ ॥२१॥ एवमुक्त्वा महायोगी स्वासनस्थो बभूव ह । तौ सद्यो वृक्षयोनिस्थौ बभूवतुः प्रजापते ॥२२॥ अथ मासे गते विप्रः शौनकश्चिंतयान्वितः । शिष्यान् गृह्य ययौ विप्रमौर्वं दुःखान् महामुनिः ॥२३॥ तं पप्रच्छ शनैः सोऽपि मंदारः कुत्र वर्तते । शमीकाया आनयने प्रेषितोऽद्यं मया सुतः ॥२४॥ ततस्तं शोकसंयुक्तमौर्वो जगाद विस्मितः । दत्वा कन्यां मया सद्यः प्रेषितश्च त्वदंतिके ॥२५॥