मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 583, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २५ | पान ५४ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ श्रुत्वैवं शोकसंयुक्ता और्वशौनकमुख्यकाः । तयोः शोधनकामास्ते निसस्रुस्त्वरितास्ततः ॥२६॥ तत्र मार्गे जनान् सर्वान् ग्रामस्थान् वनसंस्थितान् । पप्रच्छुस्ते समूचुस्तान् मासमात्राद् गतौ किल ॥२७॥ एवं विचार्य ते याता भृशुंड्या- श्रममुत्तमम् । तत्र विश्रांतिकृत् स्थाने जनानां ददृशुस्तरू ॥२८॥ अनुपेतौ ततो ज्ञात्वा शौनको ध्यानमाश्रितः । ज्ञात्वा भृशुंडिना शप्तौ वृत्तांतं तानवेदयत् ॥२९॥ ततः सर्वान् महायोगी विसृज्य तपसि स्थितौ । शौनकौर्वौ महादुःखाद् गणेशाराधने रतौ ॥३०॥ अवायुभक्षभावेन ध्यानेन गणनायकम् । तोषयामासतुः प्रीत्या तयोरघविमुक्तये ॥३१॥ एवं द्वादशवर्षेषु गतेषु द्विरदाननः । आययौ तौ वरं दातुं भृशं तत् क्लेशतापितः ॥३२॥ दृष्ट्वा विघ्नेश्वरं तौ तु प्रणम्या- पूज्य हर्षतः । गणाध्यक्षं तुष्टुवतुः प्रणम्य करसंपुटैः ॥३३॥ शौनकौर्वौ ऊचतुः । नमस्ते गजवक्त्राय विघ्नेशाय परात्मने । अपाराय महेशाय हेरंबाय नमो नमः ॥३४॥ संसारार्णवताराय मायामोहहराय ते । ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥३५॥ ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये । आदिपूज्याय देवाय चांतःस्थाय नमो नमः ॥३६॥ अनादये च सर्वेषां मात्रे पित्रे परात्मने । स्वानंदवासिने तुभ्यं गणेशाय नमो नमः ॥३७॥ शूर्पकर्णाय शूराय लंबोदराय ढुंढये । विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥३८॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च । योगेशाय सुशांताय शांतिदाय नमो नमः ॥३९॥ गुणांतं न ययुर्यस्य शिवविष्ण्वादयोऽमराः । योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥४०॥ नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन । धौम्यपुत्रं च मंदारं शिष्यं मे तारयाऽधुना ॥४१॥ तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप । वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥४२॥ भक्तिं ते देहि हेरंब यया भ्रांतिर्बिनश्यति । दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥४३॥ तयोर्वचनमाकर्ण्य जगाद गणनायकः । तौ भक्तौ तपसा युक्तौ भक्तिबद्ध- स्वभावतः ॥४४॥ श्रीगजानन उवाच । भृशुंडिना च विप्रर्षी शप्तौ तौ दंपती पुरा । ज्ञात्वा मदीयतुंडस्यापमानान्नात्र संशयः ॥४५॥ भृशुंडिनोऽतिभक्तस्य मम मिथ्यावचः कदा । न करोमि महाभागौ देहादधिक एव सः ॥४६॥ भृशुंडिनो- ऽपमानश्च क्रियते विविधैर्जनैः । न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥४७॥ मदीयपमानं स सहते न कदाचन । अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥४८॥ भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् । शृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥४९॥ मंदारस्य च शम्याश्च मूले स्थास्यामि निश्चलः । मद्रूपौ वृक्षजातीनां सर्ववंद्यौ भविष्यतः ॥५०॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖