भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 589, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 589

निःसृता त्वं न संशयः। वृथा मां स्पर्धसे दुष्टे पतस्व तृणरूपिणी ॥२६॥ पृथिव्यां तृणरूपा च सा बभूव प्रजापते । तदादि सर्ववंद्येयं दूर्वा परमपावनी ॥२७॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । भो क्षमस्वापराधं मे मंत्रत्याग- कृतं प्रभो ॥२८॥ गत्वा वनांतरे दूर्वा तताप तप उत्तमम् । ध्यात्वा विघ्नेश्वरं देवं मंत्रजपपरायणा ॥२९॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः । तामाययौ वरं दातुं भक्तिस्थां भजनप्रियः ॥३०॥ आगतं गणराजं सा दृष्ट्वा ननाम भावतः । संहृष्टा पूज्य तुष्टाव कृत्वा करपुटं विधे ॥३१॥ दूर्वोवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः । भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयंकर ॥३२॥ अनंतायाप्रमेयाय नानालीलाधराय च । हेरंबाय महेशानां नमः पूज्याय ते नमः ॥३३॥ सर्व- पूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे । ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥३४॥ अनाकाराय साकारमूर्तये ब्रह्मरूपिणे । शांतिभ्यः शांतिदात्रे ते परेशाय नमो नमः ॥३५॥ लंबोदराय चौरेशवाहनाय परात्मने । चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥३६॥ ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने । महोदराय पूर्णाय पूर्णानंदाय ते नमः ॥३७॥ स्वानंदवासिने तुभ्यं सिद्धिवुद्धिमयाय च । सिद्धिवुद्धिपते नाथ भक्तेशाय नमो नमः ॥३८॥ किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥३९॥ एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह । जगाद गणराजस्तु दूर्वां तां हर्षसंयुक्तः ॥४०॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् । मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥४१॥ यं यं चिंतयते कामं तं तं दास्यामि सर्वदा । भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥४२॥ वरं वरय दास्यामि चित्तस्थं भक्तितोषितः । क्रोधयुक्तोऽपि देवि त्वां मंत्रत्यागकरीं पुनः ॥४३॥ श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् । दूर्वा लंबोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥४४॥ दूर्वोवाच । वरदोसि यदा नाथ तदा ते भक्तिमुत्तमाम् । दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥४५॥ अन्यच्च मदसंयुक्तां जगदंबां गजानन । स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥४६॥ तृणरूपा भविष्यामि पतिष्यामि धरातले । तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥४७॥ श्रीगजानन उवाच । मा कुरुष्व वृथा चिंतां दूर्वे मे शरणागते । सर्वं शुभं करिष्यामि भविष्यामि नियंत्रितः ॥४८॥ अंशेन तृणरूपा त्वं भविष्यसि महीतले । देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥४९॥ पृथिव्यां तृणरूपा त्वममृतरूपधारिका । शतमूला प्रकांडाद् वै प्ररोहा च शतांकुरा ॥५०॥ सर्वमान्या सर्वपूज्या देवादीनां सदा