मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
निःसृता त्वं न संशयः। वृथा मां स्पर्धसे दुष्टे पतस्व तृणरूपिणी ॥२६॥ पृथिव्यां तृणरूपा च सा बभूव प्रजापते । तदादि सर्ववंद्येयं दूर्वा परमपावनी ॥२७॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । भो क्षमस्वापराधं मे मंत्रत्याग- कृतं प्रभो ॥२८॥ गत्वा वनांतरे दूर्वा तताप तप उत्तमम् । ध्यात्वा विघ्नेश्वरं देवं मंत्रजपपरायणा ॥२९॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः । तामाययौ वरं दातुं भक्तिस्थां भजनप्रियः ॥३०॥ आगतं गणराजं सा दृष्ट्वा ननाम भावतः । संहृष्टा पूज्य तुष्टाव कृत्वा करपुटं विधे ॥३१॥ दूर्वोवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः । भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयंकर ॥३२॥ अनंतायाप्रमेयाय नानालीलाधराय च । हेरंबाय महेशानां नमः पूज्याय ते नमः ॥३३॥ सर्व- पूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे । ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥३४॥ अनाकाराय साकारमूर्तये ब्रह्मरूपिणे । शांतिभ्यः शांतिदात्रे ते परेशाय नमो नमः ॥३५॥ लंबोदराय चौरेशवाहनाय परात्मने । चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥३६॥ ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने । महोदराय पूर्णाय पूर्णानंदाय ते नमः ॥३७॥ स्वानंदवासिने तुभ्यं सिद्धिवुद्धिमयाय च । सिद्धिवुद्धिपते नाथ भक्तेशाय नमो नमः ॥३८॥ किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥३९॥ एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह । जगाद गणराजस्तु दूर्वां तां हर्षसंयुक्तः ॥४०॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् । मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥४१॥ यं यं चिंतयते कामं तं तं दास्यामि सर्वदा । भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥४२॥ वरं वरय दास्यामि चित्तस्थं भक्तितोषितः । क्रोधयुक्तोऽपि देवि त्वां मंत्रत्यागकरीं पुनः ॥४३॥ श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् । दूर्वा लंबोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥४४॥ दूर्वोवाच । वरदोसि यदा नाथ तदा ते भक्तिमुत्तमाम् । दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥४५॥ अन्यच्च मदसंयुक्तां जगदंबां गजानन । स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥४६॥ तृणरूपा भविष्यामि पतिष्यामि धरातले । तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥४७॥ श्रीगजानन उवाच । मा कुरुष्व वृथा चिंतां दूर्वे मे शरणागते । सर्वं शुभं करिष्यामि भविष्यामि नियंत्रितः ॥४८॥ अंशेन तृणरूपा त्वं भविष्यसि महीतले । देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥४९॥ पृथिव्यां तृणरूपा त्वममृतरूपधारिका । शतमूला प्रकांडाद् वै प्ररोहा च शतांकुरा ॥५०॥ सर्वमान्या सर्वपूज्या देवादीनां सदा
खं. ५ अ. २७ पान ६१ प्रिया । भविष्यसि न संदेहो मदूरादन्ननायिके ॥५१॥ महामंगलदा प्रोक्ता मम प्रीतिविवर्धिनी । भविष्यसि तु लोकानां शुभमंगलदायिका ॥५२॥ त्वत्पत्रेण नरा भूमावर्चयिष्यंति देवपान् । न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥५३॥ शक्तेश्चावतारा ये लक्ष्मीललितिकादयः । तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥५४॥ शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा । अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥५५॥ मदीया भक्तिरत्यंतं दृढा ते प्रभविष्यति । मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥५६॥ मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः । करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥५७॥ दूर्वापत्रं विना देवि पूजयिष्यंति मां नराः । तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥५८॥ दूर्वासमं न मे किंचित् पूजायां सुप्रियं भवेत् । विना दूर्वां निराहारी भविष्यामि निरंतरम् ॥५९॥ त्यक्त्वा दूर्वादलं ये वै पूजयिष्यंति मानवाः । शत्रवस्ते मता नित्यं नरकेषु पचंतु ते ॥६०॥ येनार्पितं च पूजायां दूर्वापत्रं महामते । तेनापारमयं सर्वं दत्तं मह्यं विशेषतः॥६१॥ दूर्वापत्रेण संतुष्टो दास्यामि सकलं च मे । ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥६२॥ ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् । पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥६३॥ एवमुक्त्वा गणेशानोऽतर्दधे च प्रजापते । दूर्वा हर्षसमायुक्ता विघ्नेशं भजते परम् ॥६४॥ यथा लंबोदरेणैव कथितं तादृशं नराः । देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः ॥६५॥ सर्वमंगलरूपा सा बभूवे पापनाशिनी । गणेशवरदानेन गाणपत्या तथाऽभवत् ॥६६॥ एतत्ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम् । शृण्वते पठते तस्मै भुक्ति- मुक्तिप्रदं भवेत् ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । दूर्वाया महिमा यत्र ज्ञायते मानवैः परः ॥१॥ दंडकारण्यदेशस्थो बभूवांत्यजजः पुमान् । पिशुनो नाम दुर्बुद्धिः पापकर्मपरायणः ॥२॥ चौरकर्मा वने गत्वा जनान् जघान दारुणः । क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमग्रभत् खलः ॥३॥ शिश्नोदरपरो भूत्वा विचचार वनांतरे । ग्रामे च नगरे वाऽपि शस्त्रधारी दुरात्मवान् ॥४॥ ब्रह्महत्यादिकं पापमपारं स चकार ह । न वक्तुं शक्यते दक्ष मया तस्य चरित्रकम् ॥५॥ एकदा वनसंस्थोऽयं द्विजं दृष्ट्वा महाखलः । कोटरात् स विनिःसृत्याधावच्छस्त्रधरः स्वयम् ॥६॥ तमागतं समालोक्य कालं दंडधरं यथा । पपाल स द्विजस्तस्मात् हाहाकारकरो भृशम् ॥ ७ ॥ द्विजशब्दं समाकर्ण्य क्षत्रिया आगता वनात् । दैवयोगेन पंचैव समीपे मार्गयायिनः ॥ ८ ॥ तैः शस्त्रैः स हतः पापी ममार च पपात ह । ब्राह्मणो हर्षसंयुक्तः स्वाश्रमं चागतोऽभवत् ॥९॥ ततो यामाः प्रगृह्यैव पिशुनं तं महाखलम् । रौरवे ते विनिक्षिप्य नरके पाचयंस्तदा ॥१०॥ पंचमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै । नरकः शांतरूपश्च यातनावर्जितोऽभवत् ॥११॥ तं दृष्ट्वा परमाश्चर्यं यमदूता यमं ययुः । वृत्तांतं कथयामासुर्नर्रकस्य सुशांतिजम् ॥१२॥ तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्थो बभूव ह । ज्ञात्वा तान् कथयामास स्मृत्वा लंबोदरं प्रभुः ॥१३॥ धर्मराज उवाच । पिशुनोऽयं महापापी चांडालो नाऽत्र संशयः । न योग्यो नरके दूता अधुना पुण्यवान्भूत् ॥१४॥ यत्राऽयं तु मृतस्तत्र गाणपत्यः समागतः । तस्य मस्तकगा दूर्वा पपात पिशुनोपरि ॥१५॥ यस्य स्पर्शो भवेद् दूता अस्थिकस्य शवस्य वा । तस्य पापं लयं सर्वं गमिष्यति न संशयः ॥१६॥ पुण्यराशिर्भवेत् सोऽपि सर्वमान्यो विशेषतः । अत एनं तु निष्कास्यानयंत्तु मम संनिधौ ॥१७॥ यमस्य वचनं श्रुत्वा विस्मितास्ते समाययुः । निष्कासितुं समुद्युक्तास्तावच्चित्रं बभूव ह ॥१८॥ गणेशदूतसंयुक्तं विमानं नेतुमाययौ । तं गृह्य गाणपत्यास्ते ययुः स्वानंदकं पुरम् ॥१९॥ पिशुनं ब्रह्मभूतं ते चकुर्हर्षसमन्विताः । पूर्वदेहस्य दूर्वायाः स्पर्शं भक्तिपरायणाः ॥२०॥ धर्मोऽति- विस्मितो भूत्वा तान् जगाद स्वसेवकान् । अहो पश्यत दूतेशा दूर्वामाहात्म्यमुत्कटम् ॥२१॥ धन्योऽयं पिशुनो पापी यस्य देहे समागता । दूर्वा यया विशेषेण योगिनां पदगोऽभवत् ॥२२॥ महिमानं तु दूर्वायाः को जानाति समग्रकम् । शवस्पर्शन दूतेशा ब्रह्मभूतपदप्रदम् ॥२३॥ तानुक्त्वा साश्रुनेत्रः स बभूव रविनंदनः । गणेशं मन्यते नित्यं भजते भक्तिसंयुक्तः ॥२४॥ इदं दूर्वाभवं चित्रं माहात्म्यं यः शृणोति चेत् । पठति तस्य विघ्नेशो वाञ्छितं ददते सदा ॥२५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यत्त्वं शृणु माहात्म्यं दूर्वायाः स्वसुखप्रदम् । यया तृप्तिसमायुक्तो बभूव द्विरदाननः ॥१॥ एकदा नारदो योगी जगाम जनकालयम् । पूजितो जनकं सोऽपि जगाद हर्षसंयुतः ॥२॥ नारद उवाच । धन्यस्त्वं गणनांथस्य भक्तः परमभाविकः । मनेप्सितं गणाध्यक्षो ददते ते नियंत्रितः ॥३॥ नारदस्य वचः श्रुत्वा तं प्रहस्य महामुनिम् । जगाद जनको वाक्यं योगयुक्तं स योगवित् ॥४॥ जनक उवाच । याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः । पूर्णशांतिप्रदो विप्र गाणेशो नात्र संशयः ॥५॥ एकाक्षरं गणेशस्य ददौ मंत्रं सुसिद्धिदम् । मह्यं स कृपया योगिन् साधनं प्रजगाम ह ॥६॥ तथा मया महायोगिन् साधितं ज्ञानमुत्तमम् । गणेशकृपयाऽहं तु योगी जातो गुरुर्यथा ॥७॥ अतोऽहं गणनांथश्च न भिन्नौ मुनिसत्तम । गणेशस्य कृपा कुत्र वर्तते भेददायिनी ॥८॥ मया यच्चिंतितं तत्तत् कथं ददाति विघ्नपः । अयोगिनामिदं सर्वं भ्रांतिदं भवतीत्यहो ॥९॥ पंचधा चित्तवृत्तिश्च तासां प्रकाशकारकः । चिंतामणिः स्वयं साक्षात् खेलति हृदि संस्थितः ॥१०॥ जनकः कुत्र योगींद्र वर्तते वद सांप्रतम् । तस्योपरि गणेशस्य कृपादिकमिदं मुने ॥११॥ अहं हर्ता अहं कर्ताऽहं पाता च मदात्मनाम् । भ्रांतवद्भाषणं योग्यं नैव ते योगिसत्तम ॥१२॥ जनकस्य वचः श्रुत्वा नारदः क्रोधसंयुतः । उवाच तं महाभागं निर्भर्त्स्य जनकं पुनः ॥१३॥ नारद उवाच । ज्ञानमत्तोऽसि राजेंद्र नश्वरस्त्वं कथं भवेः । गणेशाकाररूपश्च देहवान् भ्रमधारकः ॥१४॥ ब्रह्मणस्पतिनामा वै गणेशो वेदवादतः । शरीरे तस्य सा सत्ता वर्तते पूर्णभावतः ॥१५॥ योगिदेहेन सा सत्ता कदापि नृप वर्तते । समाधिना च योगींद्रो गणेशः कथितो बुधैः ॥१६॥ प्रारब्धदेहधारित्वान्नरो योगी न संशयः । नरतुल्या शरीरेस्य भवेत् सत्ता हि सर्वदा ॥१७॥ गर्विष्ठो योगमाहात्म्या- ज्जनक त्वां विशेषतः । भविता गर्वभंगस्ते गजाननप्रसादतः ॥१८॥ एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ । तं प्रणम्य विनीतः स वृत्तांतं प्रजगाद ह ॥१९॥ पुनः प्रणम्य विघ्नेशं ययौ स्वेच्छाचरो मुनिः । नारदो गणनांथस्य गाना- सक्तो महामतिः ॥२०॥ ततो गजाननो भूपं वृद्धब्राह्मणरूपधृक् । आययौ जनकं कुष्ठी कृमिभाराकुलः पतन् ॥२१॥ कंपेन संयुतः सोऽपि दुर्गंधेन समावृतः । पूयशोणितघर्मौघैर्व्याप्तश्च मक्षिकावृतः ॥२२॥ द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः । ययाचे तं नृपं विप्रो भोजनं तोषकारकम् ॥२३॥ राज्ञा संपूजितो विप्रो बुभुजेऽन्नं समागतम् । अन्नं पुनर्ययाचे तं पुष्कलं प्रददौ नृपः ॥२४॥ तदेव तेन संभुक्तं पुना राजा भयाकुलः । अयुतानां समं तस्मै ददावन्नं
सुतुष्टिदम् ॥२५॥ भक्षयित्वा तदपि स ययाचेऽन्नं महामुनिः । ततोऽपक्वं ददौ तस्मै तद् बभक्ष द्विजोत्तमः ॥२६॥ ततो राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः । अन्नं बभक्ष तत् सोऽपि ययाचे तं धरापतिम् ॥२७॥ पुरप्रांते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् । अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ॥२८॥ ययाचे स नृपं विप्रो देह्यन्नं राजसत्तम । राज्ञा लज्जासमायुक्तो न किंचित्तमुवाच ह ॥२९॥ राजानं मुनिवर्यश्च जगाद प्रहसन्निव । त्वं गणेशो न संदेहः कथं सत्ताविवर्जितः ॥३०॥ अकर्तुं कर्तुमथैवान्यथा कर्तुं गजाननः । समर्थस्त्वं कथं राजंस्तूष्णीं तिष्ठसि तद् वद ॥३१॥ भ्रांतो योगमदेनासि राजेंद्रोत्र न संशयः । प्रत्यक्षं नरतुल्योऽसि न गणेशो मतः कदा ॥३२॥ एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपधृक् । बहिर्निःसृत्य लोकान् स ययाचेऽन्नं क्षुधातुरः ॥३३॥ लोकाः सर्वे समृचुस्तं सर्वेषां गृहगं मुने । राज्ञा समाहृतं चान्नं त्वया सर्वं प्रभक्षितम् ॥३४॥ नास्मद्गेहेऽधुना किंचिदन्नं त्वं गच्छ वाडव । सर्वभक्षः कुतो यातः कोऽसि न ज्ञायते जनैः ॥३५॥ श्रुत्वा सोऽपि हसन् विप्रो बभ्राम यत्र तत्र तु । पुरप्रांते गतो दैवाद् ददर्शेदं वाडवालयम् ॥३६॥ त्रिशिरा मुनिवर्यश्चायाचिता वृत्तिधारकः । गाणपत्याग्रणीः पत्न्या स विरोचनया युतः ॥३७॥ तं ददर्श गणेशानः प्रविवेश तदाश्रमम् । सर्वापकारसंयुक्तं धातुधान्यादिवर्जितम् ॥३८॥ ययाचे तं महाभागमन्नं तृप्तिकरं मुने । दीयतां मे क्षुधार्ताय गाणपत्यस्वरूपधृक् ॥३९॥ जगाद त्रिशिरास्तत्र ब्राह्मणं वाक्य- मुत्तमम् । मद्गृहे नैव विप्रेंद्र धान्यं किंचित् प्रवर्तते ॥४०॥ दरिद्राणां महाराजोऽहमेको नात्र संशयः । मत्समो मानवो युक्तो दारिद्र्येण न तिष्ठति ॥४१॥ दूर्वांकुराः समानीता गणेशपूजनाय च । तेष्वेको विद्यते विप्र नान्यत् किंचिद् विचारय ॥४२॥ तस्य तद् वचनं श्रुत्वा जगाद क्षुधितो द्विजः । भक्त्या देहि महाभाग दूर्वांकुरं क्षुधापहम् ॥४३॥ ततो विरोचना विप्रं ददौ नत्वा गजाननम् । ध्यात्वा दूर्वांकुरं तस्मै नानान्नं कल्प्य तत्र सा ॥४४॥ भक्त्या दत्तं तया विप्रो बभक्ष प्रीतिसंयुतः । तेन दूर्वांकुरेणैव संतृप्तोऽभून् महामते ॥४५॥ भक्त्या तुष्टो ददौ विप्रं दर्शनं गणनायकः । गजवक्त्रादिचिह्नैश्च युतं रूपं परात्परम् ॥४६॥ दृष्ट्वा लंबोदरं तौ तु प्रणेमतुः पुनः पुनः । तं साश्रुनयनौ पूज्य तुष्टुवतुः कृतांजली ॥४७॥ विरोचनात्रिशिरसावूचतुः । गणेशाय नमस्तुभ्यं नमः सर्वप्रियंकर । ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥४८॥ हेरंबाय परेशाय मूषकध्वजिने नमः । आत्मनेऽनात्मने तुभ्यं नमो लंबोदराय वै ॥४९॥ अनामय ह्यनाधार
खं. ५ अ. २९ पान ६५ सर्वाधार सुमूर्तये । वक्रतुडाय सर्वेषां नमः पूज्याय ते नमः ॥५०॥ आदिमध्यांतहीनाय तदाकाराय ढुंढये । ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥५१॥ सर्वांदिशूर्पकर्णाय पूर्णाय धरणीधर । शेषनाभिविभूषाय नमश्चिंतामणे नमः ॥५२॥ सिद्धिबुद्धिप्रदात्रे ते स्वानंदे वासकारिणे । भक्तेभ्यः शांतिदात्रे वै शांतिस्थाय नमो नमः ॥५३॥ सिद्धिबुद्धिवरायैव नमो मूषकवाहन । गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने ॥५४॥ धन्यौ माता पिता नाथ कुलशीलादिकं च मे । येन दृष्टो गणाधीशो वेदांतागोचरो विभुः ॥५५॥ वेदा विदुर्नों न च योगिनोऽयं ब्रह्मादयो वेदविदः शिवादयः । शांत्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न संशयः ॥५६॥ परात्परस्त्वं परमप्रमेयः कथं महात्मन् सदने गतो मम । न मत्समो ह्मांडकटाहमध्ये गणेश ते पादसमीपगादहो ॥५७॥ एवं संस्तुवतस्तस्य सस्त्रीकस्य महामुने। अत्यंतभक्तिमाहात्म्यात् कंठरोधः समाभवत् ॥५८॥ ननर्त परमानंदयुक्तस्तत्र प्रजापते । सरोमांचो न सस्मार यथा भ्रांतश्च साश्रुकः ॥५९॥ ततस्तं गणनाथो वै जगाद वचनं हितम् ॥ स्वयं साश्रुः सरोमांचो भक्तिं दृष्ट्वा महामुने ॥६०॥ श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं बहु । भविष्यति जनानां वै मुने मद्भक्तिवर्धनम् ॥६१॥ यः पठिष्यति यो मर्त्यः श्रोष्यते सर्वमालभेत् । भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेत् ॥६२॥ वरान् वृणु महायोगिंस्त्रिशिरो मनसीप्सितान् । सर्वं दास्यामि भक्त्या ते तोषितोऽहं न संशयः ॥६३॥ गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः । उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः ॥६४॥ त्रिशिरा उवाच । मां मोहयसि किं नाथ न वृणोमि गजानन । सर्वं भ्रांतिप्रदं मत्वा भक्तिं याचे त्वयि स्थिराम् ॥६५॥ श्रुत्वा जगाद तं विघ्नराजोऽसौ विस्मितोऽभवत् । अहो यः सुदृढां भक्तिमेकां वृणोति वाडवः ॥६६॥ श्रीगणेश उवाच । पूर्णां भक्तिं महायोगिन् लभसे नात्र संशयः । मदीयां ते वशे नित्यं भविष्यामि तया किल ॥६७॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । सस्त्रीकस्त्रिशिरास्तत्र खेदयुक्तो बभूव ह ॥६८॥ गणेशकृपया तत्र गृहं तस्य महामुनेः । शुशुभे रत्नसंयुक्तं सुवर्णभित्तिराजितम् ॥६९॥ द्वारि नाना जनास्तत्र सुवर्णयष्टिधारकाः । स्थितास्तथा स्त्रियो दासाः सेवां कर्तुं सुलालसाः ॥७०॥ नानासंपत्तिसंयुक्तं दृष्ट्वाऽसौ विस्मितोऽभवत् । तावद्दासाश्च तं गृह्य सेवां चक्रुः स्वभाविकाः ॥७१॥ तद् दृष्ट्वा परमाश्चर्यं मुनिः पत्नीं समब्रवीत् । माया भक्तिप्रणाशार्थं दत्ता विघ्नेश्वरेण च ॥७२॥ अतो यत्नसमायुक्ता भुंक्ष्व भोगान् महासति । एवं मदविहीनौ तौ परं बुभुजतुः सुखम् ॥७३॥
पान ६६
दानमार्गेण स ददौ द्रव्यं नानाविधं विधे । तथापि तादृशं तत्र रेजे सोऽपि सुविस्मितः ॥७४॥ एतत्ते कथितं किंचित् दूर्वामाहात्म्यमुत्कटम् । गणेशतोषकं पूर्णं सर्वसिद्धिप्रदायकम् ॥७५॥ गणेशरोमकूपेषु ब्रह्मांडानि ह्यनेकशः । ब्रह्म नानाविधं देहे स्थितं तस्य प्रजापते ॥७६॥ तत्सर्वं तृप्तिमायाति तृप्ते विघ्नेश्वरे परे । फलं तस्य च लोके को वर्णयेद्बद मानद ॥७७॥ त्रैलोक्यादिकमेतस्मान्न तुल्यं दूर्वया भवेत् । अपारपुण्यदा प्रोक्ता गणेशे तोषकारिणी ॥७८॥ दूर्वाया महिमा दक्ष कथितो ब्रह्मदायकः । भुक्तिमुक्तिप्रदः पूर्णः पठते शृण्वते भवेत् ॥७९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । श्रुतं दूर्वार्पणस्याऽपि माहात्म्यं सर्वसिद्धिदम् । न दूर्वया समं किंचिद् दृश्यते भुवनेषु वै ॥१॥ तथापि तृप्तिं नो यामि योगामृतपरायणः । अतो मे वद योगींद्र जनकस्य कथानकम् ॥२॥ गणेशेन महायोगी जनकश्छलितोऽभवत् । किं चकार ततः सोऽपि गते विघ्नेश्वरे वद ॥३॥ मुद्गल उवाच । शृणु प्रजापते चित्रं चरित्रं जनकस्य च । गते गणेश्वरे सोऽपि दुःखयुक्तो बभूव ह ॥४॥ शुशोच हृदि संक्षुब्धो जगाद स्वस्य चेतसि । अहो नारदविप्रेण कथितं सत्यमेव तत् ॥५॥ देहो भक्तिकरः प्रोक्तो न भजेद्यस्तमाप्य सः । गजाननं नरो नित्यं वंचितो मायया परम् ॥६॥ कर्मनिष्ठैर्गणेशानः सेव्यः स्वहितकारणात् । तपःफलप्रदः सेव्यः तपोनिष्ठैस्तथाऽपि सः ॥७॥ ज्ञाननिष्ठैः सदा सेव्यो ज्ञानसिद्धिप्रदायकः । योगिभिर्योगदाता स सेव्यो ब्रह्ममयः प्रभुः ॥८॥ अहो देहधरः साक्षाद्ब्रह्मणस्पतिवाचकः । वेदेषु कथितश्चायं गणेशो नात्र संशयः ॥९॥ संत्यज्य मूर्खवद्भ्रांतोऽहं गणेशं प्रभावतः । योगस्य चावदं मिथ्या नरतुल्यस्वभाववान् ॥१०॥ गणेशभजनं मुख्यं धृतं येन महात्मना । स योगींद्रगुरुः साक्षात्तत्समं नैव विद्यते ॥११॥ एवं क्षोभसमायुक्तो जनकः स्वगृहे स्थितः । समायुयुश्च योगींद्रास्तं नवर्षभनंदनाः ॥१२॥ नग्नाः सर्वत्र पूज्याश्च सदा यौवनधारकाः । अव्याहतास्त्रिलोकेषु भ्रमंतः स्वेच्छयाचराः ॥१३॥ सर्ववंद्याः सदा दक्ष ब्रह्मभूयपरायणाः ।
[खं. ५ अ. ३०] [पान ६७]
विधिनिषेधहीनाश्च योगरूपधरा इव ॥१४॥ गणेशस्य चरित्राणि कथयंतः परस्परम् । तद्रूपास्तस्य नामानि वदंतो हर्षसंयुताः ॥१५॥ स्वपरभ्रांतिशून्याश्च समलोष्टाश्मकांचनाः । भेदाभेदविहीना वै वर्णाश्रमविवर्जिताः ॥१६॥ स्वेच्छया कर्म कर्तारः स्वेच्छया ज्ञानधारकाः । स्वेच्छया समशीला वै स्वेच्छया सहजप्रियाः ॥१७॥ स्वेच्छया स्वस्वरूपस्था स्वेच्छया योगतत्पराः । स्वेच्छया पूर्णयोगस्था वर्णवंतश्च स्वेच्छया ॥१८॥ स्वेच्छयाऽऽश्रमसंयुक्ताः स्वेच्छया विधिधारकाः । निषेधे स्वेच्छया युक्ताः स्वाधीनास्ते च योगिनः ॥१९॥ विधिनिषेधहीनाश्च स्वेच्छया वै विनायकाः । दंडादिभिर्विहीनास्ते गणेशगानतत्पराः ॥२०॥ तान् दृष्ट्वा जनको राजा संभ्रमाकुलचेतसा । समुत्थाय ननामाऽदौ दंडवत् पृथिवीतले ॥२१॥ उत्थाय तान् प्रपूज्याऽथ भोजयामास चांधसा । पादसंवाहने संस्थो जगाद वचनं हितम् ॥२२॥ जनक उवाच । धन्यौ मे पितरौ विद्या तपःस्वाध्यायकादयः । ब्रह्मणस्पतिरूपाणां भवतां दर्शनात् किल ॥२३॥ निःस्पृहाः सर्वभावेषु भवंतो नात्र संशयः । तथापि भवदाज्ञां वै कर्तुमीहे च योगिनः ॥२४॥ भवतां किंचिदाज्ञायां संस्थितो यदि मानवः । सकृत्तस्य पुनर्जन्म विद्यते नैव भक्तिभाक् ॥२५॥ अवमानेन सद्यो वै नारकी जायते नरः । साक्षाद्योगस्वरूपाश्च भवंतः कृपयाऽऽगताः ॥२६॥ न मत्समस्त्रिलोकेषु भवतां दर्शनाद्भवेत् । अधुना कृतकृत्योऽस्मि जातोऽहं भाग्यगौरवात् ॥२७॥ मुद्गल उवाच । जनकस्य वचः श्रुत्वा साधु तं ते प्रजापते । जगुः प्रहृष्टभावेन राजानं शांतिदायकाः ॥२८॥ नवयोगिन ऊचुः । धन्यस्त्वं मानवो राजा विदेहोऽसि न संशयः । साधुत्वे देहसंस्थोऽपि त्वयि चित्रं न संभवेत् ॥२९॥ साधुदर्शनकामाश्च वयं ते गृहमागताः । दृष्ट्वा त्वां योगिनं पूर्णं तृप्ताः स्मः श्रुतकीर्तयः ॥३०॥ गच्छामो राजशार्दूल नेच्छामः किंचिदप्यहो । पूजां त्वया कृतां दृष्ट्वा संतुष्टाः स्मो महामते ॥३१॥ तेषां तद्वचनं श्रुत्वा तान् जगाद नृपः पुनः । प्रणम्य भक्तिसंयुक्तो हितं सर्वजनप्रियः ॥३२॥ जनक उवाच । वदेत योगसंसिद्ध्यै किं कर्तव्यं जनैः सदा । येन योगींद्र वंद्यास्ते भवंति मानवा बुधाः ॥३३॥ कविरुवाच । स्वधर्मपालको नित्यं भवेद्योगपरायणः । रजस्तमस्तिरस्कृत्य सत्त्वयुक्तो मुमुक्षुकः ॥३४॥ गणेशार्पणबुद्ध्या वै कर्माणि सततं नरः । कुर्याच्छ्रौतानि स्मार्तानि व्रतादीनि विशेषतः ॥३५॥ आंतराणि महाराज वायुसाधनकानि वै । स्मृतानि तानि सर्वाणि कुर्यात् ध्यानपरायणः ॥३६॥ गणेशस्य सदा ध्यानं कुर्यात् स्वहृदि भूमिप । एकाक्षरादिमंत्राश्च तेष्वैकजपकारकः ॥३७॥ संप्रज्ञातसमाधिस्थः संभवेद्यदि मानवः । तथापि गणराजस्य ध्यानं नैव
परित्यजेत् ॥३८॥ असंप्रज्ञातयोगस्थः भवेद्यदि स मानवः । तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् ॥३९॥ गणेशध्यान- संयुक्तो योगभूमिं नृपात्मज । स च स्वल्पेन कालेनोल्लंघयेद्विघ्नहानतः ॥४०॥ ततो योगी भवेन्नूनं शांतियोगपरायणः । चित्ते चिंतामणौ सोऽपि तदाकारः सुसाधनात् ॥४१॥ न गणेशसमं किंचिज्जगत्सु ब्रह्मदं भवेत् । सर्वेभ्यो योगदानार्थं बभूवे देहधारकः ॥४२॥ एतत्ते कथितं भूप योगप्राप्तौ सुसिद्धिदम् । भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकम् ॥४३॥ जनक उवाच । कथं चिंतामणिः प्रोक्तो गणेशानो वदंतु मे । तस्य रूपं कथं ज्ञेयं नरैश्चित्ते विशेषतः ॥४४॥ हरिरुवाच । चित्तं पंचविधं प्रोक्तं तत्र चिंतामणिः स्थितः । चित्तप्रकाशकत्वाद्वै विघ्नेशानः प्रकथ्यते ॥४५॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पंचधा चित्तमेवं तु भवते शृणु भूमिप ॥४६॥ यत्र क्षिप्तं मनः सर्वैस्तत्र ज्ञानयुतं भवेत् । तदेव कर्तुमुद्युक्तं समर्थं संभवेत् कथम् ॥४७॥ क्षिप्तं चित्तं विजानीहि स्मृतस्तत्र प्रकाशकः । चिंतामणिर्गणाधीशस्तं भजस्व महामते ॥४८॥ यत्र क्षिप्तं नरेणैव चित्तं तत्र न गच्छति । ज्ञानहीनतया तस्य मूढवन् मूढसंज्ञितम् ॥४९॥ अन्यच्च आंतियुक्तानां पिशाचवत् स्थितं सदा । चित्तं तदेव मूढं च ज्ञातव्यं जनवत्सल ॥५०॥ तत्र प्रकाशकर्ता स नानाखेलपरायणः । चिंतामणिर्गणाध्यक्षः स तिष्ठति भजस्व तम् ॥५१॥ सत्वभावसमायुक्तो मानवो मोक्षकामुकः । ब्रह्मार्पणतया सर्वं कुरुते कर्म नित्यदा ॥५२॥ ब्रह्मानुभवहीनो न जगत्सु सुखलालसः । ब्रह्मार्थं तस्य चित्तं वै विक्षिप्तं कथितं बुधैः ॥५३॥ संसारे क्षिप्तभावश्च तस्माद्विगतक्षेपणम् । कर्तुं समुद्यतः सोऽपि सदा साधनतत्परः ॥५४॥ अनेन विधिना राजन् विक्षिप्तं चित्तमुच्यते । तत्र प्रकाशकर्तारं चिंतामणिं भजस्व तम् ॥५५॥ ज्ञानदृष्टिः समुत्पन्ना हृदि सर्वत्र भूमिप । साक्षाद्भावस्यैककरावयवादिक- वर्जिता ॥५६॥ तया सोऽपि नरस्तत्र यत्र पश्यति योगवित् । आकाररहितं भाति विश्वं सर्वं न संशयः ॥५७॥ अष्टधा सा समाख्याता संप्रज्ञातस्वरूपिका । एकभावकरा वृत्तिरेकाग्रा कथिता बुधैः ॥५८॥ तत्र चिंतामणिः साक्षात् प्रकाशकारकः स्मृतः । तं भजस्व विधानेन सर्वसिद्धिप्रदायकम् ॥५९॥ जगद्वयवयैर्युक्तं चतुर्देहमयं नृप । बिंदुस्तस्य परा काष्ठा ब्रह्मकायाप्रधारकम् ॥६०॥ देही भेदविहीनश्च देहचालक उच्यते । सोऽहं मात्रात्मकः सोऽपि कथितो वेदवादिभिः ॥६१॥ तयोर्योगे निरोधश्च सदा भवति चेतसः । तस्य भेदौ समाख्यातौ संयोगायोगरूपिणौ ॥६२॥ स्वत उत्थानयुक्तं परत उत्थानधारकम् । स्वतः परत उत्थानवर्जितं ब्रह्म उच्यते ॥६३॥ एतत् संयोगकं प्रोक्तं समाधेर्धारकं परम् । सर्वेषां तत्र
[Header] खं. ५ अ. ३० | पान ६९
[Body] संयोगो ब्रह्माकारेण जायते ॥६४॥ अन्यद्योगरूपं वै निवृत्तेर्धारकं परम् । ब्रह्म मायाविहीनं तु व्यतिरेकप्रभावतः ॥६५॥ केषांचित्तत्र संयोगो ब्रह्मणं जगतां भवेत् । नैव केषु च तस्यापि ब्रह्मयोगं प्रकथ्यते ॥६६॥ स्वकीयभेदनाशेन लभ्यते नात्र संशयः । तदेव ब्रह्मभूतत्वं निरोधवृत्तिजं मतम् ॥६७॥ निरोधे चित्तके राजन् प्रकाशद्गणेश्वरम् । चिंतामणिं भजस्व त्वं परं तत् खेललालसम् ॥६८॥ पंचधा चित्तभूमिस्थं त्यक्त्वा योगपरो भवेत् । स्वयं चिंतामणिः साक्षाद्भवते चित्तनाशनात् ॥६९॥ शांत्या सर्वत्र राजेंद्र चित्तेषु नित्यमादरात् । चिंतामणिः प्रलभ्येत त्यक्त्वा सद्यश्च चिंतनम् ॥७०॥ एतत् ते कथितं पूर्णं चिंतामणिस্বরূপकम् । तं भजस्व विधानेन शांत्या योगपरायणः ॥७१॥ जनक उवाच । एतादृशो गणेशानः कथं देहधरोऽभवत् । तत्र श्रद्धादिकं नाथास्तादृशं जायते कथम् ॥७२॥ अंतरिक्ष उवाच । वामभागे राजसश्च दक्षिणे तामसः स्मृतः । मध्ये सत्त्वमयः प्रोक्तस्तेषां योगे तुरीयकः ॥७३॥ चतुर्विधमयो देहस्तत्राहंकारधारकः । देही च तन्मयः साक्षात् कंठाधो गणनायकः ॥७४॥ यस्मात् सर्वं समुत्पन्नं यत्र गच्छति भूमिप । समाधिना महोग्रेण प्रलये तद्गजः स्मृतः ॥७५॥ कदा न जायते भूप लयं गच्छति नो कदा । तदेव गजशब्दाख्यं ब्रह्म वेदैः प्रकथ्यते ॥७६॥ तदेव मस्तकं तस्य गणेशस्य महात्मनः । तयोर्योगे गणाध्यक्षः साकारो भवतीत्यहो ॥७७॥ संप्रज्ञातमयो देहः कंठाधस्तस्य कीर्तितः । असंप्रज्ञातरूपं च कंठादूर्ध्वं शिरः स्मृतम् ॥७८॥ तयोर्योगे स्वयं साक्षाद्भक्तानुग्रहकारणात् । देहधारी बभूवाऽपि गणेशो ब्रह्मनायकः ॥७९॥ न सर्वसमभावाख्यो देहस्तस्य महात्मनः । देहधारी गणाधीशो भक्तिभोगार्थमंजसा ॥८०॥ न भक्तेश्च समं तस्य प्रियं राजेंद्र वर्तते । तदर्थं सकलं हित्वा भक्ताधीनो भवेत् स्वयम् ॥८१॥ मायया भ्रांतचित्तानां देहधारी यथा नरः । तथाऽयं भवति प्राज्ञ साक्षाद्योगस्वरूपधृक् ॥८२॥ जनक उवाच । कीदृशी गणराजस्य माया भ्रांतिकरी मता । तां मे वदत योगींद्रा ब्रह्मभूयार्थमंजसा ॥८३॥ प्रबुद्ध उवाच । वामांगात् सिद्धिरुत्पन्ना वामभागप्रकाशिनी । दक्षिणांगात्तथा बुद्धिर्दक्षिणांगधरा बभौ ॥८४॥ सिद्धिपुत्रः स्वयं लक्षो बुद्धिपुत्रो महामते । लाभस्तयोश्च चित्तातौ संजातौ खेलकौ परौ ॥८५॥ मायामोहितचित्तानां भ्रामकौ नात्र संशयः । तयो रूपं प्रवक्ष्यामि शृणु लोकहिताय च ॥८६॥ पापेषु च नरा राजन् यदा लक्षं प्रकुर्वते । तदा नरकदो लाभो भवते पापकारिणाम् ॥८७॥ यदा पुण्येषु लक्षं वै कुर्वते मानवा नृप । तदा स्वर्गप्रदो लाभो जायते पुण्यकर्मणाम् ॥८८॥ यदा ब्रह्मणि लक्षं वै कुर्वते मानवा नृप । तदा
योगमयो लाभः सदा भवति योगिनाम् ॥८९॥ हृदि लक्षः स्थितो नित्यं सर्वत्र लक्षदायकः । पदार्थेषु स्थितो लाभो मतो नाना फलप्रदः ॥९०॥ ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् । बंधहीनः खेलति च स्वेच्छाचारिस्वरूपधृक् ॥९१॥ तत्र भ्रांतिकरी प्रोक्ता सिद्धिः सर्वत्र वर्तते । सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय ॥९२॥ धर्मसिद्धिस्तथार्थस्य सिद्धिः कामप्रदायिनी । मोक्षसिद्धिस्तथा राजन् ब्रह्मभूयकरी मता ॥९३॥ अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते । भुक्तिमुक्ति- ब्रह्मभूयं सिद्धिः सुभ्रांतिदा मता ॥९४॥ भ्रांतिधारकरूपा सा बुद्धिः सर्वत्र वर्तते । बुद्ध्या बुद्ध्वा तु राजेंद्र पश्चान्न मोहो निवर्तते ॥९५॥ पंचचित्तमयी बुद्धिः स्वयं विश्वात्मिका मता । ब्रह्माकारा तथा भिन्नं पदमिच्छति दुःखदम् ॥९६॥ सकामा चैव निष्कामा ब्रह्मभूयपरायणा । बुद्धिर्भवति सा भ्रांत्या भ्रांतिधारकतां गता ॥९७॥ नानाभ्रांतियुतं सर्वं चकार सिद्धिमंजसा । नानामोहयुतं तद्वद् बुद्धिश्चकार खेलया ॥९८॥ ताभ्यां संमोहितं सर्वं लक्षलाभयुतं भवेत् । नानालक्ष- समायुकतं नानालाभफलैर्युतम् ॥९९॥ अतो मायायुतः सोऽपि गणेशो ब्रह्मनायकः । बिंबे खेलति बिंबीव जानीहि नृपसत्तम ॥१००॥ एतन् मायास्वरूपं ते कथितं मोहकारकम् । यज्ज्ञात्वा योगिवंद्यश्च जायते मानवः क्षणात् ॥१॥ जनक उवाच । भक्तिप्रियो गणेशश्चेत् कथं मोहयुतान् जनान् । स्वभक्तान्न स योगींद्राः करोति वदत प्रियाः ॥२॥ न पराधीनता तस्य स्वप्रियं गणनायकः । पराधीन समानं न न करोति महाद्भुतम् ॥३॥ पिप्पलायन उवाच । गणेशेन महाराज क्रीडार्थं रचितं जगत् । मायामयं विशेषेण नानाखेलयुतं तथा ॥४॥ तत्रादौ द्विविधं तेन तदर्थं रचितं पुरा । तच्छृणुष्व विधानेन सर्वसंशयहारकम् ॥५॥ स्वस्वस्वार्थयुतं पूर्णं मायासुरवकरं मतम् । तदर्थं सर्वलोकाश्च ब्रह्माणि संभ्रमंति वै ॥६॥ योगमार्गस्तथा राजन् गाणेशः शांतिदः परः । रचितो मोहनाशार्थं मायानाशकरो मतः ॥७॥ योगेन गणपं ज्ञात्वा नरः पूर्णं ततो नृप । भजतेऽनन्यभावेन तन्निष्ठस्तत्परायणः ॥८॥ यस्य भावो भवेद्यत्र याहशस्तादृशं चरेत् । तत्र विघ्नेश्वरः साक्षादाग्रहं न करोति च ॥९॥ यदा गणेश्वरो विश्वं भक्तियुक्तं निरंतरम् । करोति चेद्गणेशस्य तदा खेलः कुतो भवेत् ॥१०॥ न पराधीनता तस्य क्रीडार्थं गणनायकः । विश्वं तु द्विविधं कृत्वा परां पश्यति भावनाम् ॥११॥ एतत्ते कथितं राजन् श्रोतुमिच्छसि किं परम् । स्वाधीनं तु पराधीनं मायया दृश्यते सदा ॥१२॥ जनक उवाच । किं कर्म किमकर्मापि विकर्मापि कथं भवेत् । कर्मयोगश्च विप्रेन्द्राः कीदृशो वदत प्रियाः ॥१३॥ आविर्होत्र उवाच । स्वस्वधर्मयुतं कर्म विधियुक्तं
[Header] खं. ५ अ. ३० | पान ७१
महामते। देहसौख्यप्रदं प्रोक्तं जन्ममृत्युप्रदं भवेत् ॥१४॥ स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः। विकर्म विद्धि राजेंद्र तदेवं पापरूपकम् ॥१५॥ पापाचरणमात्रेण नरो दुर्गतिमाप्नुयात् । देहदुःखकरं प्रोक्तं परिणामे न संशयः ॥१६॥ सत्कर्म मुक्तिकामार्थं कुरुते नित्यमादरात्। ब्रह्मार्पणस्वभावेनाकर्म विद्धि महामते ॥१७॥ शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति शाश्वतीम्। अकर्मणः प्रभावेण स निष्कामपरो मतः ॥१८॥ कर्मयोगमयं विश्वं सर्वं जानीहि पार्थिव । क्रियायां यत् स्थितं ब्रह्म स एव कर्मयोगकः ॥१९॥ क्रियमाणं च यत्प्रोक्तं तदेव कर्म उच्यते। तस्य भेदान् प्रवक्ष्यामि समाहितमनाः शृणु ॥२०॥ मौनं यदि धृतं तेन तदा जातं नृपात्मज । अतः कर्ममयं विद्धि धारणान्नात्र संशयः ॥२१॥ वायुबंधन- योगेन प्राणो नीतः स्वमस्तके। तदेव कर्मरूपं वै वायुचालनतः परम् ॥२२॥ ध्यानं करोति चेच्चित्ते दमयित्वा मनः स्वयम्। तदेवं कर्मरूपं तु मनोनिग्रहकारणात् ॥२३॥ जागृतिर्जागरं कर्म स्वप्नः सुप्तिमयं भवेत्। अज्ञानं विद्धि सौषुप्तं कर्मरूपं न संशयः ॥२४॥ इत्याद्या बह्वो भेदा मया वक्तुं न शक्यते। नामरूपधरः कोऽपि कर्महीनो न वर्तते ॥२५॥ उत्पत्तिश्च स्थिती राजन् संहारस्त्रिविधं परम् । सर्वं कर्ममयं विद्धि कर्मयोगेन जायते ॥२६॥ असङ्गरूञ्च यत् प्रोक्तं वेदे तन्मायया बभौ। कर्मरूपं न संदेहो नामरूपप्रधारणात् ॥२७॥ नामरूपपरित्यागे ह्यसत् स्वानंदगं भवेत् । मानवो ब्रह्मरूपः स कर्मयोगी प्रकथ्यते ॥२८॥ एतत् कर्मस्वरूपं ते कथितं ब्रह्मवाचकम् । कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा ॥२९॥ जनक उवाच । ज्ञानं च कीदृशं प्रोक्तं तन्मे वदत योगिनः। येन योगी भवेज्जंतुर्ज्ञानयोगपरायणः ॥३०॥ द्रुमिल उवाच । हृदि स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा। स्फूर्तिदातृस्वरूपेण ब्रह्म तत्र स्थितं भवेत् ॥३१॥ नामरूपविहीनं यत् सदाऽमृतमयं भवेत्। आद्यंतभावहीनं वै तद्विद्धि ज्ञानमुत्तमम् ॥३२॥ ज्ञानचक्षुः स्वभावेन ब्रह्मानुभवकारकम् । नानाज्ञानलयं कृत्वा ज्ञानयोगी भवेत्ततः ॥३३॥ सत्यस्वानंदरूपं त्वं जानीहि ज्ञानमूलकम् । ज्ञानानां योगभावेन लभ्यते योगसेवया ॥३४॥ जनक उवाच । आनंदः कीदृशः प्रोक्तः सहजं कीदृशं मतम्। ब्रह्मभूयं च योगींद्राः कीदृशं कथयंतु मे ॥३५॥ चमस उवाच । बाह्यांतर- विभेदेनानंदः सर्वत्र वर्तते। उभयात्मकभावस्थः समरूपधरो मतः ॥३६॥ नानाद्वंद्रेषु राजेंद्र स्थितमानंदरूपकम्। समं विद्धि च सर्वत्र जगत्सु ब्रह्मसु परम् ॥३७॥ सत्यासत्यमयं तद्धि समस्वानंदगं परम् । ब्रह्म राजन् सदानंदरूपं तदेव संमतम् ॥३८॥ द्वंद्रेषु त्वासमंताद्यच्चंदनात्तन् महीपते । आनंदः परमानंदो ब्रह्मानंदः प्रकथ्यते ॥३९॥ समभावस्थितानां च योगेन ब्रह्म
खं. ५ अ. ३० पान ७२
लभ्यते । आनंदाख्यं प्रजानाथ योगसाधनतः परम् ॥४०॥ एतत्ते कथितं पूर्णमानंदस्य स्वरूपकम् । आनंदानां समायोगे समस्वानंदगो भवेत् ॥४१॥ द्विविधा तस्य माया तु द्वंद्वभावधरा मता । तयोः संयोगभावे स उभयात्मक उच्यते ॥४२॥ तदेव द्विविधेष्वेव मोहयुक्तं नराधिप । समं सर्वत्र जानीहि द्वंद्वमोहादिदायकम् ॥४३॥ त्रिषु मोहविहीनं यत् सदा नेति स्वरूपकम् । स्वाधीनं सहजं विद्धि चतुर्थं राजसत्तम ॥४४॥ स्वेच्छया सत् समायुक्तं स्वेच्छया सत् परायणम् । स्वेच्छयाऽऽनंदसंयुक्तं त्रिभिर्हीनं निजेच्छया ॥४५॥ आज्ञया त्रिविधं ब्रह्म वर्तते नात्र संशयः । सर्वेषां नाशकं तुर्यं सहजं नेति भावतः ॥४६॥ न तस्य नेति कर्ता वै विद्यते योगभावतः । तेन नेतिमयं स्वच्छंदगं प्रोक्तं सनातनम् ॥४७॥ स्वेच्छया बंधयुक्तश्च स्वेच्छया बंधवर्जितः । स्वेच्छया समभावस्थो भवते सहजाख्यकः ॥४८॥ अव्यक्तेन त्रिभावेषु तेन योगेन लभ्यते । सहजं ब्रह्म वेदेषु यत् प्रोक्तं वेदवादिभिः ॥४९॥ स्वाधीनानां समायोगे व्यक्तः स्वानंद उच्यते । अव्यक्तयोगभावत्वान्निराकर्तुं न शक्यते ॥५०॥ एतत्ते कथितं भूप सहजं मोहवर्जितम् । अधुना शृणु योगं त्वं ब्रह्मभूय- प्रकाशकम् ॥५१॥ स्वानंदः सर्वसंयोगे भवति ब्रह्मधारकः । चतुर्णां तत्र संयोगः कर्तव्यः स्वसमाधिना ॥५२॥ त्रिविधं मोहयुक्तं च मोहहीनं चतुर्थकम् । नैव ब्रह्मणि राजेंद्र मोहयुक्तविहीन ते ॥५३॥ स्वाधीनं न भवेत्तत्तु पराधीनं न वर्तते । ब्रह्मणां जगतां तत्र संयोगो जायते परः ॥५४॥ स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः । तत्र किं भिन्नभावाख्यं वर्तते योगनाशकम् ॥५५॥ संयोगे नाशभूते तु ब्रह्मयोगः प्रकीर्तितः । न तत्र जगतां भूप संयोगो ब्रह्मणां भवेत् ॥५६॥ अयोगस्य न संयोगः केषु ब्रह्मसु कीर्तितः । योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्वि- चारय ॥५७॥ संयोगे मायया युक्तो भवते गणनायकः । मायाधीनस्वरूपेण सदाऽयोगः प्रवर्तते ॥५८॥ मायया सर्वभावस्थो भवति द्विरदाननः । संयोगाभेदभावेन निजमायामयः स्मृतः ॥५९॥ स्वानंदे गणनाथस्य दर्शनं योगिनां भवेत् । संयोगाभेदकं तेन विदुः स्वानंदवासिनम् ॥६०॥ अयोगे माययाहीनो गणेशः सर्वदा मतः । यादृशस्तादृशः सोऽपि नागतो न गतो भवेत् ॥६१॥ वृथा भ्रांतिमयं सर्वं भासते मायया किल । भ्रांतानां तेन सर्वत्र निवृत्तिर्जायते परा ॥६२॥ स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकतः । धृत्वा ह्ययोगयोगस्थः स्वयं भवति मानवः ॥६३॥ अयोगे मायया हीनः संयोगे मायया युतः । नरो भवति राजेंद्र पंचपंचस्वरूपया ॥६४॥ ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते ।
खं. ५ अ. ३० पान ७३ अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥६५॥ चित्तं पंचविधं त्यक्त्वा चित्तभ्रांतिं च पंचधा । स्वयं चिंतामणिः साक्षाद् ब्रह्मभूतो नरो भवेत् ॥६६॥ संयोगात्मा गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणाधीशः संयोगायोग- वर्जितः ॥६७॥ इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥६८॥ जनक उवाच । गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् । न भक्तिसमभावाख्यं मोहदं तस्य संभवेत् ॥६९॥ अतो वदत मे भक्तिस्वरूपं योगिसत्तमाः । तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥७०॥ करभाजन उवाच । भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी । कथयामि समासेन स्वरूपं रसदायकम् ॥७१॥ श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् । अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥७२॥ नवधा मानसी राजन् गतिः सर्वत्र वर्तते । भावेषु रससंयुक्ता दशमी नैव विद्यते ॥७३॥ यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते । तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥७४॥ यदा मुक्तौ तथा जंतो रसः पूर्णो जनाधिप । तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥७५॥ यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते । तदा नरस्य योगेषु चित्तं तन्नवधा भवेत् ॥७६॥ योगी भूत्वा नरो यस्तु भजते गणनायकम् । तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥७७॥ योगिनां हृदि विघ्नेशः पूर्णरूपधरो वसेत् । अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥७८॥ ततो गणेशरूपस्य भजनं पूर्णभावतः । भवत्यत्र न संदेहो रसयुक्तं विशेषतः ॥७९॥ गणेशगुणवादानां प्रीत्या संपूर्णभावतः । प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥८०॥ सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः । गणेशगुणवादेषु रसं पूर्ण स पश्यति ॥८१॥ एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप । समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥८२॥ तथा कीर्तनभावश्च उत्पद्येत नरा- धिप । गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥८३॥ गणेशार्थं च या किंचिद्विस्मृतिस्तत्र नो भवेत् । तदा स्मरणभक्तिः सा प्राप्ता संपूर्णभावतः ॥८४॥ गणेशपादपद्मं यो मत्वा शाश्वतकं परम् । तत्रैव सकलो यत्नो भवेत्तत् पादसेवनम् ॥८५॥ सांगं गाणेश्वरं सर्वं कुरुते नित्यमादरात् । अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥८६॥ गणेशात् परं श्रेष्ठं वेदशास्त्रविचारतः । न चलेत् क्वापि जानीहि तदा वंदनवान् भवेत् ॥८७॥ गाणपत्यानि चिह्नानि धृत्वा तत्परचेतसा । तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥८८॥ अंतर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः । अंतर्भयेन भक्त्यार्या सा प्रोक्ता सख्यरूपिणी ॥८९॥ पंचधा मोहयुक्तं स चित्तमुत्सृज्य योगतः । न भिन्नोऽहं गणेशाननान्
मत आत्मनिवेदकः ॥१९०॥ मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा । भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥१९१॥ रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः । यस्य तिष्ठति जंतुः स तद्भक्तः संमतो नृप ॥१९२॥ भोगेषु न रसोत्पत्तिर्मुक्तौ च ब्रह्मभूयके । गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥९३॥ आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् । ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥९४॥ तत्र विश्वासभावेन तादृगुत्पद्यते रसः । तदा भक्तो महाराज भवते योगिवंद्यकः ॥९५॥ नारदेनैव राजेंद्र बोधितस्त्वं न बुद्ध्यसे । तव भावपरीक्षार्थं भक्तिदानार्थमंजसा ॥९६॥ प्रेषितस्तेन विघ्नेशो वृद्धः कुष्ठयुतो द्विजः । समायातः सर्वभक्षी छलथामास साधुपम् ॥९७॥ नरदेहं समासाद्य गणेशं भजेत न यः । पशुतुल्यः स राजेंद्र तस्य धिक् जन्म निश्चितम् ॥९८॥ मुद्गल उवाच । एवमुक्त्वा विदेहं तं जनकं योगिनो नव । अनुज्ञाप्य ययुस्तस्मात् स्वेच्छया गणपे रताः ॥९९॥ जनकस्तानमस्कृत्य स्वगृहे गणनायके । योगी नवविधां भक्तिमकरोद्भाव- संयुतः ॥२००॥ अहर्निशं गणेशानमभजन्नान्यचेतसा । जनकः सर्वभावेन योगिवंद्यो बभूव ह ॥१॥ तिष्ठन् स्वपन् पिबन् वाऽदन् गच्छन् विघ्नेश्वरे रतः । अतो गणेशसंतुष्ट्या तद्वंशे जनका बभुः ॥२॥ सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः । गणेशभजने सक्ता बभूवुश्च प्रजापते ॥३॥ नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् । वृत्तांतं परिशुश्राव गणेश- गमनात्मकम् ॥४॥ स्वयं तस्य गृहं गत्वा ननाम मुनिपुंगवम् । दैवीसंवृद्धिसंयुक्तं योगपारंगतं परम् ॥५॥ तेन संबो- धितो राजा नित्यं दूर्वापरायणः । पुपूज गणनांथं तं सदा भक्तिसमन्वितः ॥६॥ दूर्वाहीनां न पूजां स चकार मरणावधि । अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥७॥ इदं जनकमाहात्म्यं कथितं ते प्रजापते । भुक्तिमुक्तिप्रदं नृभ्यः श्रवणात् पठनाद्भवेत् ॥२०८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥
खं. ५ अ. ३१ पान ७५ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया । किमर्थं पावनी सा तु दोषयुक्ता बभूव ह ॥१॥ तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् । येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥२॥ मुद्गल उवाच । धर्मध्वजो महीपालो बभूवे धर्मसंयुक्तः । दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥३॥ तस्य पुत्री बभूवाऽसौ रूपलावण्यसंयुता । न तया सदृशी कुत्र वर्तते कामिनी विधे ॥४॥ वृंदा नाम्नी च विख्याता प्रणम्य पितरं कदा । जगाद भावगंभीरा चतुरा सुवयोयुता ॥५॥ वृंदोवाच । तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् । वरं तदर्थमेवं मां देहि तस्मै महामते ॥६॥ धर्मध्वज उवाच । विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः । स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते ॥७॥ मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् । नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥८॥ एवं नानाविधैर्भावै- र्बोधिता न बुबोध सा । तदर्थं मंत्रराजं संगृह्य विष्णोर्वनं ययौ ॥९॥ ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा । तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥१०॥ तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद । तपस्तताप वृंदोग्रं नाना- मार्गपरायणा ॥११॥ शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा । भुक्त्वा संतोषयामास विष्णुं देववरं विधे ॥१२॥ वर्षाणि लक्षसंख्यानि गतानि तपसो बलात् । राजपुत्र्याश्च वृंदाया न तुतोष जनार्दनः ॥१३॥ अतीव तपसा तस्या अंतर्ज्ञानं बभूव ह । आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥१४॥ कदा विघ्नेश्वरं वृंदा ददर्श नियमे रतम् । संपूज्य गणनांथं वै हृदि ध्यानपरायणम् ॥१५॥ तं दृष्ट्वा कुंजरास्यं सा शिवपुत्रं नृपात्मजा । भागीरथीसंनिधिस्थं विस्मिताऽभूत् प्रजापते ॥१६॥ गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि । अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥१७॥ अस्य कलांशसंभूताः शिवविष्ण्वादयोऽपरे । पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥१८॥ शिवेन तपसोग्रेणा- राधितो गणनायकः । पुत्रोऽभूद्योगशांतिस्थो भक्तभक्तिपदप्रदः ॥१९॥ खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः । अयं विष्णुस्तथा शंभुः शक्तिः सूर्यो न संशयः ॥२०॥ पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् । अधुना तं समालोक्य बोधयुक्ता न संशयः ॥२१॥ तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् । व्यभिचारो न मे भावी विष्णुरूपोऽयमंजसा ॥२२॥ एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् । ध्यानभंगार्थमुद्युक्ता वृंदा तं प्रत्युवाच ह ॥२३॥ वृंदोवाच । त्वं साक्षाद् गणराजश्च तपसाऽऽराधितो भवान् । शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥२४॥ शिवविष्ण्वादयो देवास्त्वां
भजंति निरंतरम् । कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥२५॥ गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो । गणेश्वरो विशे- षेण स्वयं ध्यायसि तं प्रभो ॥२६॥ अहो चित्रं मया दृष्टं गणेशो गणनायकम् । भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात् ॥२७॥ न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा । कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥२८॥ तव स्मरण- मात्रेण ब्रह्मभूता भवंति ते । नरा देवेंद्रमुख्याश्च योगिनो वेदकादयः ॥२९॥ स्वयं शांतिप्रदाता त्वं किं ध्यायसि गणे- श्वरम् । गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥३०॥ कामबाणार्दिता सा तं वृंदा नानाप्रकारतः । बोधयामास विघ्नेशो ध्यानस्थो न बुबोध ताम् ॥३१॥ ततः सा जलबिंदुं वै चिक्षेप गणपोपरि । तथापि ध्यानसंस्थो नालोकयत्तां गजाननः ॥३२॥ जघान मोहसंयुक्ताऽंगुल्या तं सा ततोऽसकृत् । ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥३३॥ गणेशाय नम इति मंत्रमुच्चार्य विघ्नपः । जगाद तां सकामां स निष्कामो गणपे रतः ॥३४॥ श्रीमहागणपतिरुवाच । काऽसि त्वं वद मातर्मां चापल्यगुणसंयुते । ध्यानभंगो न कर्तव्यः साधुभिश्च कदाचन ॥३५॥ गणेशकर्मसंस्थं तं नरं यश्च नराधमः । पृच्छते बोधयति वा स वै नरकगो भवेत् ॥३६॥ ध्यानभंगस्य दोषस्ते माऽस्तु बाले सुलक्षणे । मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुता ॥३७॥ किमर्थमागता बाले वद मां काममोहिते । निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः ॥३८॥ वृंदोवाच । धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् । वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक ॥३९॥ सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः । तथापि मां भजस्व त्वं भजमानां गजानन ॥४०॥ तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः । उवाच कामबाणैस्तामर्दितां शांतिधारकः ॥४१॥ श्रीमहागणपतिरुवाच । नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुतां कदा । तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥४२॥ सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे । अहं गणेश्वरस्यैव दासो देवं भजामि तम् ॥४३॥ वृणोमि नैव निष्कामः सकामां देवि निश्चितम् । शांतिस्था मे भवेत् पत्नी गच्छातो यत्र ते समः ॥४४॥ तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह । अहं शांतिसमायुक्ता मां भजस्व दयानिधे ॥४५॥ तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि । तथाऽपि तं हठाद्देवी चालिलिंग सुविह्वला ॥४६॥ अंशुकं गणनाथस्या- कृष्य तं काममोहिता । नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥४७॥ दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः । असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥४८॥ मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता । अतो वृक्षस्वरूपा त्वं मूढयोनौ
खं. ५ अ. ३२ पान ७७ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ पतिष्यसि ॥४९॥ गणेशवचनं श्रुत्वा दारुणं भयसंयुता । त्यक्त्वा तं कंपमानांगी ननाम रुदती भृशम् ॥५०॥ उवाच तं गणाधीशं मां क्षमस्व महांगसाम् । न योग्याऽहं गणाधीश तव वामांगके कदा ॥५१॥ कंपंतीं रुदतीं वीक्ष्य दयायुक्तो गजाननः । जगाद तां प्रजानाथ परां ज्ञात्वा तपोधुताम् ॥५२॥ श्रीमद्गणपतिरुवाच । गच्छ देवि न ते दुःखं भविष्यति कदा- चन । असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥५३॥ तत्र त्वां केशवः कापि शंखचूडस्वरूपधृक् । यप्स्यते स तदा दैत्यः शंभुहस्तान् मरिष्यति ॥५४॥ ज्ञात्वा तं देहसंत्यागं करिष्यसि हुताशने । पुर्नवृक्षस्वरूपस्था भविष्यसि न संशयः ॥५५॥ त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् । तेन सार्धं सदा देवि रंस्यसे त्वं निरंतरम् ॥५६॥ पतिस्ते भविता विष्णुः सदा सुखप्रदायकः । मदीयकृपया देवि सर्वमान्या भविष्यसि ॥५७॥ देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यंतं भविष्यसि । त्वत्काष्ठसंभवां मालां धरिष्यंति गले जनाः ॥५८॥ त्वामन्यकाष्ठवत् सर्वे मानयिष्यंति निश्चितम् । त्रिलोकस्था जना नैव मा चिंतां कुरु भामिनि ॥५९॥ देवानां त्वं प्रिया भूया विष्णोरत्यंतभावतः । पत्रैः पुष्पैश्च वृंदे त्वां पूजयिष्यंति मानवाः ॥ ६० ॥ मम वर्ज्या सदा देवि भविष्यसि न संशयः । गच्छ त्वं यत्र भावस्ते चिंतां त्यक्त्वा विशेषतः ॥६१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यथा गजाननः प्राह तथा जातं प्रजापते । वृंदा तं प्रणिपत्यैव तपसे वनमाययौ ॥१॥ चिंताक्रान्ता स्वयं देवी गणेशे भावलालसा । गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥२॥ नाममंत्रं जजापैव पूजयामास सादरम् । एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥३॥ ततस्तां गणराजस्तु वरदः सहसाऽऽययौ । प्रणम्य तं प्रपूज्यैव वृंदा तुष्टाव हर्षिता ॥४॥ वृंदोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥५॥ परेशांय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥६॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥७॥ अमेयायाप्रतर्क्याय सदा स्वानंदवासिने । ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥८॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुंडाय सर्वेषामादिपूज्याय ते नमः ॥९॥ विनायकाय वीराय शूर्पकर्णाय ढुंढये । गजाननाय चिंतामणये हेरंब ते नमः ॥१०॥ अनंतगुणधाराय नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥११॥ पूर्णानंदाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥१२॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥१३॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लंघनभावजम् ॥ १४ ॥ अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किंचिदल्पेन भावेन वरदायक ॥१५॥ काऽहं ते समतां नाथ संप्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षंतुं त्वमर्हसि ॥१६॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृंदा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥१७॥ श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या महाभागे भविष्यसि सदा सुते ॥१८॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यंति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥१९॥ एकविंशतिपत्राणि ह्यर्पयिष्यंति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥२०॥ उल्लंघनसमं पापं न भूतं न भविष्यति । स्वल्पोलंघनमात्रेण त्वं त्यक्ता च मया सदा ॥२१॥ ये मामुलंघयिष्यंति तांस्त्यजामि निरंतरम् । तत्रापि तपसा बद्धो वृंदे त्वां मानयाम्यहम् ॥२२॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । ब्रह्मभूयप्रदं पूर्णं पठते शृण्वते सदा ॥२३॥ तुलसीं ये नरा मह्यमर्पयंति कदा सुते । तत्पापहरं स्तोत्रं भविष्यति कृतं त्वया ॥२४॥ उल्लंघनाद्यहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥२५॥ एवमुक्त्वा गणाधीशोऽंतर्धानमगमत् स्वयम् । तुलसी हर्षसंयुक्ता बभूवे च प्रजापते ॥२६॥ तदादि सा महाभागा बभूव विगतज्वरा । क्रमेण तुलसी जाता विष्णुपत्नी सुपूजिता ॥२७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥
शीर्षक (Header): खं ५ अ. ३३ | पान ७९
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् । पूजनं गणनाथस्य कृतं तस्य फलं वद ॥१॥ श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः । अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥२॥ मुद्गल उवाच । अत्र ते कथयिष्यामि इतिहासं पुरा भवम् । श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥३॥ ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले । स तु नित्यं गणपतिं तुलस्याऽपूजयद्दृढात् ॥४॥ अन्ये तत्र द्विजास्तं वै वारयंतो विशेषतः । न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥५॥ गणेशः सर्वरूपश्चैत् कुतस्तत्र प्रवर्तते । विधिनिषेधकार्यं हि मा वदेत क्रियात्मकाः ॥६॥ ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः । परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥७॥ अहो गणेश्र्वरे देहे तुलसी मस्तकेऽथवा । दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥८॥ अन्यैरपि न संदेहो नो चेन्नरकगामिनः । उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥९॥ तत्र विलंबभावेन पापभागी नरो भवेत् । किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं कथ्यतां द्विजाः ॥१०॥ यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः । तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥११॥ ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा । बहिष्कृतो महापापी स्वगृहे तादृशो रतः ॥१२॥ ततः स्वल्पेन कालेन ममार काश्यपाधमः । नरकेषु च तं यामाः पातयामासुरंजसा ॥१३॥ एककल्पसमं कालं नरकेषु स्थितोऽभवत् । क्रमेण सकलान् भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥१४॥ सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः । अशक्तः सर्वकार्येषु वनेषु विचचार ह ॥१५॥ एकदा तत्र गार्ग्यश्च समायातो निजेच्छया । गणेशभक्तमुख्यः स महायोगी प्रजापते ॥१६॥ तं दृष्ट्वा राक्षसो दुष्टो भक्षितुं च समाययौ । गार्ग्यो गणेशमंत्रेण मंत्रितं जलमाक्षिपत् ॥१७॥ जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः । धर्मधृक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ १८ ॥ ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् । जगाद प्रांजलिं बद्ध्वा हाहाकाररवाऽऽकुलः ॥१९॥ धर्मधृगुवाच । रक्ष मां मुनिशार्दूल गाणपत्य महायशाः । त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवात् ॥२०॥ ततः स सर्ववृत्तांतं कथयामास राक्षसः । पूर्वजन्मभवं तस्मै गार्ग्याय भयसंकुलः ॥२१॥ त्वदीय- दर्शनेनैव मंत्रितेन जलेन च । जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥२२॥ श्रुत्वा शरणंगं वीक्ष्य दयायुक्तो महामुनिः । गणेशनाममंत्रं स ददौ तस्मै हितावहम् ॥२३॥ जगाद तं महायोगी जप त्वं नाममंत्रकम् । नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च ॥२४॥ एवमुक्त्वाऽंतर्दधेऽसौ गार्ग्यः परमपावनः । दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥२५॥