मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 607, कुल 1023 में से
संदर्भ में पढ़ेंशिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥८॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुंडाय सर्वेषामादिपूज्याय ते नमः ॥९॥ विनायकाय वीराय शूर्पकर्णाय ढुंढये । गजाननाय चिंतामणये हेरंब ते नमः ॥१०॥ अनंतगुणधाराय नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥११॥ पूर्णानंदाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥१२॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥१३॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लंघनभावजम् ॥ १४ ॥ अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किंचिदल्पेन भावेन वरदायक ॥१५॥ काऽहं ते समतां नाथ संप्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षंतुं त्वमर्हसि ॥१६॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृंदा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥१७॥ श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या महाभागे भविष्यसि सदा सुते ॥१८॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यंति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥१९॥ एकविंशतिपत्राणि ह्यर्पयिष्यंति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥२०॥ उल्लंघनसमं पापं न भूतं न भविष्यति । स्वल्पोलंघनमात्रेण त्वं त्यक्ता च मया सदा ॥२१॥ ये मामुलंघयिष्यंति तांस्त्यजामि निरंतरम् । तत्रापि तपसा बद्धो वृंदे त्वां मानयाम्यहम् ॥२२॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । ब्रह्मभूयप्रदं पूर्णं पठते शृण्वते सदा ॥२३॥ तुलसीं ये नरा मह्यमर्पयंति कदा सुते । तत्पापहरं स्तोत्रं भविष्यति कृतं त्वया ॥२४॥ उल्लंघनाद्यहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥२५॥ एवमुक्त्वा गणाधीशोऽंतर्धानमगमत् स्वयम् । तुलसी हर्षसंयुक्ता बभूवे च प्रजापते ॥२६॥ तदादि सा महाभागा बभूव विगतज्वरा । क्रमेण तुलसी जाता विष्णुपत्नी सुपूजिता ॥२७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥