मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 606, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ३२ पान ७७ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ पतिष्यसि ॥४९॥ गणेशवचनं श्रुत्वा दारुणं भयसंयुता । त्यक्त्वा तं कंपमानांगी ननाम रुदती भृशम् ॥५०॥ उवाच तं गणाधीशं मां क्षमस्व महांगसाम् । न योग्याऽहं गणाधीश तव वामांगके कदा ॥५१॥ कंपंतीं रुदतीं वीक्ष्य दयायुक्तो गजाननः । जगाद तां प्रजानाथ परां ज्ञात्वा तपोधुताम् ॥५२॥ श्रीमद्गणपतिरुवाच । गच्छ देवि न ते दुःखं भविष्यति कदा- चन । असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥५३॥ तत्र त्वां केशवः कापि शंखचूडस्वरूपधृक् । यप्स्यते स तदा दैत्यः शंभुहस्तान् मरिष्यति ॥५४॥ ज्ञात्वा तं देहसंत्यागं करिष्यसि हुताशने । पुर्नवृक्षस्वरूपस्था भविष्यसि न संशयः ॥५५॥ त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् । तेन सार्धं सदा देवि रंस्यसे त्वं निरंतरम् ॥५६॥ पतिस्ते भविता विष्णुः सदा सुखप्रदायकः । मदीयकृपया देवि सर्वमान्या भविष्यसि ॥५७॥ देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यंतं भविष्यसि । त्वत्काष्ठसंभवां मालां धरिष्यंति गले जनाः ॥५८॥ त्वामन्यकाष्ठवत् सर्वे मानयिष्यंति निश्चितम् । त्रिलोकस्था जना नैव मा चिंतां कुरु भामिनि ॥५९॥ देवानां त्वं प्रिया भूया विष्णोरत्यंतभावतः । पत्रैः पुष्पैश्च वृंदे त्वां पूजयिष्यंति मानवाः ॥ ६० ॥ मम वर्ज्या सदा देवि भविष्यसि न संशयः । गच्छ त्वं यत्र भावस्ते चिंतां त्यक्त्वा विशेषतः ॥६१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यथा गजाननः प्राह तथा जातं प्रजापते । वृंदा तं प्रणिपत्यैव तपसे वनमाययौ ॥१॥ चिंताक्रान्ता स्वयं देवी गणेशे भावलालसा । गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥२॥ नाममंत्रं जजापैव पूजयामास सादरम् । एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥३॥ ततस्तां गणराजस्तु वरदः सहसाऽऽययौ । प्रणम्य तं प्रपूज्यैव वृंदा तुष्टाव हर्षिता ॥४॥ वृंदोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥५॥ परेशांय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥६॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥७॥ अमेयायाप्रतर्क्याय सदा स्वानंदवासिने । ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ