मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 605, कुल 1023 में से
संदर्भ में पढ़ेंभजंति निरंतरम् । कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥२५॥ गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो । गणेश्वरो विशे- षेण स्वयं ध्यायसि तं प्रभो ॥२६॥ अहो चित्रं मया दृष्टं गणेशो गणनायकम् । भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात् ॥२७॥ न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा । कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥२८॥ तव स्मरण- मात्रेण ब्रह्मभूता भवंति ते । नरा देवेंद्रमुख्याश्च योगिनो वेदकादयः ॥२९॥ स्वयं शांतिप्रदाता त्वं किं ध्यायसि गणे- श्वरम् । गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥३०॥ कामबाणार्दिता सा तं वृंदा नानाप्रकारतः । बोधयामास विघ्नेशो ध्यानस्थो न बुबोध ताम् ॥३१॥ ततः सा जलबिंदुं वै चिक्षेप गणपोपरि । तथापि ध्यानसंस्थो नालोकयत्तां गजाननः ॥३२॥ जघान मोहसंयुक्ताऽंगुल्या तं सा ततोऽसकृत् । ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥३३॥ गणेशाय नम इति मंत्रमुच्चार्य विघ्नपः । जगाद तां सकामां स निष्कामो गणपे रतः ॥३४॥ श्रीमहागणपतिरुवाच । काऽसि त्वं वद मातर्मां चापल्यगुणसंयुते । ध्यानभंगो न कर्तव्यः साधुभिश्च कदाचन ॥३५॥ गणेशकर्मसंस्थं तं नरं यश्च नराधमः । पृच्छते बोधयति वा स वै नरकगो भवेत् ॥३६॥ ध्यानभंगस्य दोषस्ते माऽस्तु बाले सुलक्षणे । मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुता ॥३७॥ किमर्थमागता बाले वद मां काममोहिते । निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः ॥३८॥ वृंदोवाच । धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् । वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक ॥३९॥ सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः । तथापि मां भजस्व त्वं भजमानां गजानन ॥४०॥ तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः । उवाच कामबाणैस्तामर्दितां शांतिधारकः ॥४१॥ श्रीमहागणपतिरुवाच । नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुतां कदा । तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥४२॥ सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे । अहं गणेश्वरस्यैव दासो देवं भजामि तम् ॥४३॥ वृणोमि नैव निष्कामः सकामां देवि निश्चितम् । शांतिस्था मे भवेत् पत्नी गच्छातो यत्र ते समः ॥४४॥ तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह । अहं शांतिसमायुक्ता मां भजस्व दयानिधे ॥४५॥ तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि । तथाऽपि तं हठाद्देवी चालिलिंग सुविह्वला ॥४६॥ अंशुकं गणनाथस्या- कृष्य तं काममोहिता । नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥४७॥ दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः । असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥४८॥ मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता । अतो वृक्षस्वरूपा त्वं मूढयोनौ