मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 604, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ३१ पान ७५ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया । किमर्थं पावनी सा तु दोषयुक्ता बभूव ह ॥१॥ तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् । येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥२॥ मुद्गल उवाच । धर्मध्वजो महीपालो बभूवे धर्मसंयुक्तः । दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥३॥ तस्य पुत्री बभूवाऽसौ रूपलावण्यसंयुता । न तया सदृशी कुत्र वर्तते कामिनी विधे ॥४॥ वृंदा नाम्नी च विख्याता प्रणम्य पितरं कदा । जगाद भावगंभीरा चतुरा सुवयोयुता ॥५॥ वृंदोवाच । तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् । वरं तदर्थमेवं मां देहि तस्मै महामते ॥६॥ धर्मध्वज उवाच । विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः । स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते ॥७॥ मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् । नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥८॥ एवं नानाविधैर्भावै- र्बोधिता न बुबोध सा । तदर्थं मंत्रराजं संगृह्य विष्णोर्वनं ययौ ॥९॥ ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा । तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥१०॥ तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद । तपस्तताप वृंदोग्रं नाना- मार्गपरायणा ॥११॥ शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा । भुक्त्वा संतोषयामास विष्णुं देववरं विधे ॥१२॥ वर्षाणि लक्षसंख्यानि गतानि तपसो बलात् । राजपुत्र्याश्च वृंदाया न तुतोष जनार्दनः ॥१३॥ अतीव तपसा तस्या अंतर्ज्ञानं बभूव ह । आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥१४॥ कदा विघ्नेश्वरं वृंदा ददर्श नियमे रतम् । संपूज्य गणनांथं वै हृदि ध्यानपरायणम् ॥१५॥ तं दृष्ट्वा कुंजरास्यं सा शिवपुत्रं नृपात्मजा । भागीरथीसंनिधिस्थं विस्मिताऽभूत् प्रजापते ॥१६॥ गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि । अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥१७॥ अस्य कलांशसंभूताः शिवविष्ण्वादयोऽपरे । पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥१८॥ शिवेन तपसोग्रेणा- राधितो गणनायकः । पुत्रोऽभूद्योगशांतिस्थो भक्तभक्तिपदप्रदः ॥१९॥ खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः । अयं विष्णुस्तथा शंभुः शक्तिः सूर्यो न संशयः ॥२०॥ पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् । अधुना तं समालोक्य बोधयुक्ता न संशयः ॥२१॥ तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् । व्यभिचारो न मे भावी विष्णुरूपोऽयमंजसा ॥२२॥ एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् । ध्यानभंगार्थमुद्युक्ता वृंदा तं प्रत्युवाच ह ॥२३॥ वृंदोवाच । त्वं साक्षाद् गणराजश्च तपसाऽऽराधितो भवान् । शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥२४॥ शिवविष्ण्वादयो देवास्त्वां