मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 608, कुल 1023 में से
संदर्भ में पढ़ेंशीर्षक (Header): खं ५ अ. ३३ | पान ७९
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् । पूजनं गणनाथस्य कृतं तस्य फलं वद ॥१॥ श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः । अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥२॥ मुद्गल उवाच । अत्र ते कथयिष्यामि इतिहासं पुरा भवम् । श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥३॥ ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले । स तु नित्यं गणपतिं तुलस्याऽपूजयद्दृढात् ॥४॥ अन्ये तत्र द्विजास्तं वै वारयंतो विशेषतः । न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥५॥ गणेशः सर्वरूपश्चैत् कुतस्तत्र प्रवर्तते । विधिनिषेधकार्यं हि मा वदेत क्रियात्मकाः ॥६॥ ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः । परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥७॥ अहो गणेश्र्वरे देहे तुलसी मस्तकेऽथवा । दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥८॥ अन्यैरपि न संदेहो नो चेन्नरकगामिनः । उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥९॥ तत्र विलंबभावेन पापभागी नरो भवेत् । किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं कथ्यतां द्विजाः ॥१०॥ यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः । तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥११॥ ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा । बहिष्कृतो महापापी स्वगृहे तादृशो रतः ॥१२॥ ततः स्वल्पेन कालेन ममार काश्यपाधमः । नरकेषु च तं यामाः पातयामासुरंजसा ॥१३॥ एककल्पसमं कालं नरकेषु स्थितोऽभवत् । क्रमेण सकलान् भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥१४॥ सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः । अशक्तः सर्वकार्येषु वनेषु विचचार ह ॥१५॥ एकदा तत्र गार्ग्यश्च समायातो निजेच्छया । गणेशभक्तमुख्यः स महायोगी प्रजापते ॥१६॥ तं दृष्ट्वा राक्षसो दुष्टो भक्षितुं च समाययौ । गार्ग्यो गणेशमंत्रेण मंत्रितं जलमाक्षिपत् ॥१७॥ जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः । धर्मधृक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ १८ ॥ ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् । जगाद प्रांजलिं बद्ध्वा हाहाकाररवाऽऽकुलः ॥१९॥ धर्मधृगुवाच । रक्ष मां मुनिशार्दूल गाणपत्य महायशाः । त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवात् ॥२०॥ ततः स सर्ववृत्तांतं कथयामास राक्षसः । पूर्वजन्मभवं तस्मै गार्ग्याय भयसंकुलः ॥२१॥ त्वदीय- दर्शनेनैव मंत्रितेन जलेन च । जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥२२॥ श्रुत्वा शरणंगं वीक्ष्य दयायुक्तो महामुनिः । गणेशनाममंत्रं स ददौ तस्मै हितावहम् ॥२३॥ जगाद तं महायोगी जप त्वं नाममंत्रकम् । नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च ॥२४॥ एवमुक्त्वाऽंतर्दधेऽसौ गार्ग्यः परमपावनः । दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥२५॥