भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 609, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 609

Here is the precise Devanagari transcription of the text from the image, line by line:

पान ८० ततः क्षुधा सुशांता वै बभूवे तस्य दुर्मतेः। रोगहीनः सशक्तश्च गाणपत्यप्रियोऽभवत् ॥२६॥ अंते गणेश्वरं सोऽपि जगाम दुःखवर्जितः। तत्र योगस्वभावेनाऽभजद्विघ्नेश्वरं विधे ॥२७॥ एतत्ते कथितं सर्वं संक्षेपेण चरित्रकम्। तुलसी- वर्जने भूतं सर्वसंशयनाशनम् ॥२८॥ तुलसीं गणनाधाय समर्पयति यो नरः। स चांडालो न संदेहो नारकीभूमि- संस्थितः ॥२९॥ वंशहानिर्भवेत्तस्य लक्ष्मीनारास्तथा विधे। रोगाद्यैः पीडितोऽत्यंतमंते नरकगो भवेत् ॥३०॥ तस्य स्पर्शं न कुर्यात् कः कृत्वा स्नानं समाचरेत्। सचैलस्नानहीनश्चेत् ज्ञात्वा पापी सदा भवेत् ॥३१॥ नाम तस्य प्रजानाथ न ग्राह्यं पापदायकम्। बहुनाऽत्र किमुक्तेन पापरूपः स वै स्मृतः ॥३२॥ इदं ते कथितं सर्वं पृच्छते च यथातथम्। श्रोतुमिच्छसि किं भूयश्चरित्रं वद सांप्रतम् ॥३३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। वद पूजां विधियुतां गणेशस्य सविस्तराम्। मानसीं बाह्यरूपं च सर्वसिद्धिप्रदा- यिनीम् ॥१॥ गणेशलोकगं सर्वं माहात्म्यं कथयस्व मे। कीदृशोऽयं निजो लोको मुने केनैव लभ्यते ॥२॥ मुद्गल उवाच। अत्र ते कथयिष्यामि पुरातनभवं शुभम्। इतिहास महाभाग सर्वसिद्धिप्रदायकम् ॥३॥ पुरा ते कथितं स्थानं गणेशस्य महात्मनः। कार्तिकेयवराजातं लक्षवैनायकात्मकम् ॥४॥ तत्र राजा बभूवाऽपि सर्वशास्त्रविशारदः। ऐलः शस्त्रास्त्र- तत्त्वज्ञो धर्मशीलश्च सत्यवाक् ॥५॥ सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा। सार्वभौमः सुविख्यातो गाणपत्यप्रियो- ऽभवत् ॥६॥ तत्राऽऽजगाम गाणेशो गार्ग्यः सर्वार्थकोविदः। तं प्रणम्य प्रपूज्यैव पप्रच्छैलो महायशाः ॥७॥ ऐल उवाच। स्वामिंस्त्वं गणराजस्य भक्तस्तादृशयोगधृक्। साक्षाद्गणपतिः किं वा त्वमेवात्र न संशयः ॥८॥ मयूरेशावतारे त्वं मयूरेशसमन्वितः। स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः ॥९॥ धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकम्। मित्रं कृत्वा सुहर्षेणाऽहो तिष्ठसि विशेषतः ॥१०॥ मयूरेशस्य विप्रेज्ञाज्ञया योगविदांवर। भाष्यं कृतं गणेशस्य गीतायाः