मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 610, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ३४ पान ८१
शांतिदं परम् ॥११॥ त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः । बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥१२॥ यादृशं गणनाथेन कथितं तादृशं प्रभो । त्वया ज्ञातं न संदेहो गणेशस्त्वमतो मतः ॥१३॥ गणेशगीताहार्दं यद्गणेशश्च वरेण्यकः । त्वं त्रयः संमताः शास्त्रे जानते पूर्णयोगतः ॥१४॥ धन्येन येन भाग्येन दृष्टं ते पादपंकजम् । विद्याव्रत- तपोदानं पितरौ कुलमेव मे ॥१५॥ यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् । न ह्यल्पपुण्ययोगेन दर्शनं योगिनां भवेत् ॥१६॥ अधुना वद मे ब्रह्मन् गणेशस्य यथाविधि । पूजां बाह्यां तथाऽऽन्तर्यां गाणपत्यप्रकारतः ॥१७॥ एवं पृष्टो महायोगी गार्ग्यः सर्वार्थकोविदः । तं जगाद सुहर्षेण गाणपत्यो महायशाः ॥१८॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । गृत्समदस्य विप्रस्य चरित्रसंयुतं नृप ॥१९॥ वाचक्रविस्तपोनिष्ठो बभूव परमार्थवित् । तस्य पत्नी मुकुंदा वै रूपयौवनशालिनी ॥२०॥ वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागतः । रुक्मांगदो नृपो भूप मृगयासक्त- चेतसा ॥२१॥ क्षुधातृषायुतो राजा भ्रष्टसार्थो द्विजाश्रमम् । प्रविश्य तं प्रणम्यैव सस्त्रीकं संस्थितोऽभवत् ॥२२॥ तस्मिन् काले द्विजः सोऽपि मध्याह्ने कर्मकारणात् । निर्जगामाश्रमाद्वाचक्रविस्तस्मान् महायशाः ॥२३॥ गते मुनौ नृपस्तत्र जगाद देहि मे जलम् । मातर्मुकुंदे श्रांताय चाकुलाय क्षुधातृषा ॥२४॥ तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला । दृष्ट्वा नृपवरं तं च कामबाणार्दिताऽवदत् ॥२५॥ मुकुंदोवाच । त्वत्समं पुरुषं कापि न पश्यामि नृपात्मज । त्रैलोक्येऽतो महाभाग मां भजस्व सुविह्वलाम् ॥२६॥ नो चेत् प्राणा गमिष्यंति कामबाणैर्हता मम । इत्युक्त्वा तं नृपं सा तु चुचुंबे हठतत्परा ॥२७॥ ततोऽतिक्षोभितो राजा धृत्वा दूरे समाक्षिपत् । जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः ॥२८॥ रुक्मांगद उवाच । सर्वेषां गुरवो देवि ब्राह्मणा नात्र संशयः । पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि ॥२९॥ तत्र विघ्नेश्वरे सक्ता न चलंति कदाचन । परस्त्रियं समालोक्य मातृबुद्धिकरा मताः ॥३०॥ एवं निर्भर्त्स्य तां राजा निःसृतः शोकसंकुलः । आश्रमात् सा शशापैव तं नृपं काममोहिता ॥३१॥ कुष्ठी भव महादुष्ट सकामां त्यजसि श्रियम् । मोहितां पापकर्मा त्वं कठिनोऽसि सुदुर्मते ॥३२॥ तस्याः शापस्य योगेन श्वेतकुष्ठी बभूव ह । रुक्मांगदो वने गत्वा सस्मार द्विरदाननम् ॥३३॥ ततो रात्रौ महायोगी नारदस्तत्र चागतः । तं दृष्ट्वा प्रणनामादौ पप्रच्छ विनयान्वितः ॥३४॥ रुक्मांगद उवाच । कुष्ठनाशनकरं तीर्थं क्षेत्रमौषधमेव च । वद मे सर्वधर्मज्ञ गाणपत्यप्रिय प्रभो ॥३५॥ नारद उवाच । इंद्रेण तपसा देवो गणेशः