भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 611, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 611

यहाँ पृष्ठ का मूल देवनागरी पाठ पंक्ति-दर-पंक्ति दिया गया है:

[शीर्षक] खं. ५ अ. ३४ | पान ८२ पूजितोऽभवत् । सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥३६॥ गणेशवरदानेन महेंद्रस्तेजसा युतः । योगयुक्तोऽपालयत त्रैलोक्यं सचराचरम् ॥३७॥ तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् । चिंतामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥३८॥ तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् । कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥३९॥ तत्र तीर्थप्रभावेण कुष्ठरोगविवर्जिताः । भवंति स्वानंदगास्तु नृप नास्त्यत्र संशयः ॥४०॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूव ह ॥४१॥ ततः प्रातः समायाता सेना तस्य महात्मनः । तया सार्द्धं जगामाऽसौ विदर्भे तीर्थसेवकः ॥४२॥ चिंतामणिभवं तीर्थं दृष्ट्वा राजा प्रजापते । कुष्ठहीनो बभूवाऽथ सर्वैः संहर्षितोऽभवत् ॥४३॥ ततः स्नात्वा ससैन्येन यथाविधियुतः स्वयम् । पूजयामास हर्षेण चिंतामणिं नृपात्मजः ॥४४॥ पूजयित्वा यथान्यायं दत्त्वा दानानि कृत्स्नशः । संस्थितो मंडपे राजा गणेशे भक्तिसंयुतः ॥४५॥ तत्राकस्माद्विमानं तु समायातं सुखप्रदम् । तत्र दूता गणेशस्य जगुस्तं नृपसत्तमम् ॥४६॥ गाणपत्या ऊचुः । इदं विमानमारुह्य ससैन्यो नृपसत्तम । चल स्वानंदलोके त्वं तीर्थस्नानप्रभावतः ॥४७॥ ततोऽतिहर्षसंयुक्तस्तान् प्रणम्य महायशाः । पूज्योवाच विचारज्ञो गाणपत्यो नृपात्मजः ॥४८॥ रुक्मांगद उवाच । भीमं मे गाणपत्यास्तु पितरं चारुहासिनीम् । मातरं त्यज्य विघ्नेशं कथं यामि त्वरान्वितः ॥४९॥ गाणेशानौ विशेषेण तथा तं ते समब्रुवन् । तयोः स्नानं नृपाध्यक्ष कुरु तीर्थेऽधुना किल ॥५०॥ ततस्तावपि नेष्यामो मा चिंतां कुरु सत्तम । स्नानमात्रेण स्वानंददायकं तीर्थमुच्यते ॥५१॥ ततोऽतिहर्षितो राजा कुशान् गृह्य तयोः पुनः । नाम्ना ग्रंथिं समाबध्य चक्रे स्नानं यथाविधि ॥५२॥ ततोऽतिहर्षिता लोका नगरस्थास्तथा पुनः । स्नानं चक्रुर्जनानां ते आबालं श्वपचावधि ॥५३॥ ततस्ते यानमारुह्य कौंडिन्यनगरं ययुः । पुण्यं दत्वा च तान् सर्वान् गृह्य स्वानंदमाययुः ॥५४॥ एवं तीर्थप्रभावेण नगरस्थजना नृप । गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे ॥५५॥ धर्मयुक्तो गणेशस्य भक्तो रुक्मांगदः स्वयम् । स्वल्पकालेन निर्विग्नो बभूव छलतोऽपि सः ॥५६॥ गणेशभक्तमत्युग्रं ये छलंति नराधमाः । तेषां तु निष्कृतिर्नास्ति दुःखं भुंजंति दारुणम् ॥५७॥ रुक्मांगदं मुकुंदा सा छलयित्वा विशेषतः । या गतिश्च तया प्राप्ता तां शृणुष्व महीपते ॥५८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते रुक्मांगदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥