मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 612, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः॥ गार्ग्य उवाच। मुकुन्दा कामदग्धा सा पपात धरणीतले। न किंचित् सुखदं तस्या बभूव पृथिवीतले ॥१॥ ततोऽतिशोकसंयुक्ता तमेवाचिंत्य संस्थिता। निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥२॥ तस्याः शान्तिप्रदानार्थं स्वयं तत्राजगाम ह। रुक्मांगदस्वरूपी स बुभुजे तां सुराधिपः ॥३॥ सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता। इंद्रः स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥४॥ वाचक्रविः समायातः कृत्वा नित्यक्रियां मुनिः। न बुबोध मुकुंदायाश्चरितं स तपोरतः ॥५॥ ततः पूर्णे च गर्भे सा सुषुवे पुत्रमुत्तमम्। जातकर्मादिकं सर्वं चकार मुनिसत्तमः ॥६॥ गृत्समदेति पुत्रस्य नाम चक्रे सुखप्रदम्। चकार व्रतबंधं तु पंचमे हर्षसंयुतः ॥७॥ वेदानध्यापयामास श्रवणग्राहकाय वै। स्वयं तस्मै ददौ मंत्रं गणानां त्वेति ऋग्भवम् ॥८॥ तेन मंत्रेण विघ्नेशं ध्यात्वा गृत्समदो मुनिः। तोषयामास भावेन नित्यं जपपरायणः ॥९॥ कदाचित्तत्र राजा स मगधस्तं जुहाव च। पितुः श्राद्धे सुदांतं वै तपोयुक्तं यशस्विनम् ॥१०॥ तत्र वसिष्ठमुख्याश्च मुनयो योगपारगाः। समागताः सभायां ते विविशुः पूजिता नृप ॥११॥ तत्र शास्त्रप्रसंगे स गृत्समद उवाच ह। योगमयोगिभावस्थः श्रुत्वाऽत्रिसंतं वचोऽब्रवीत् ॥१२॥ अयोगी योगिनां मध्ये रुक्मांगदसुतस्तथा। वदसि त्वं न योग्योऽसि पंक्तौ गच्छ निजाश्रमम् ॥१३॥ ततोऽतिकोपसंयुक्तः स्वं गृत्समद आश्रमम्। जगाम सोऽपि जननी- मपृच्छद्रक्तलोचनः ॥१४॥ वद तातं मदीयं त्वं कामुके निरपत्रपे। कथं रुक्मांगदाज्जातोऽहं नोचेत्त्वां शपामि तु ॥१५॥ जगाद शापभीता तं ततः सा कंपसंयुता। वृत्तांतं पूर्वसंभूतं रुक्मांगदविहारजम् ॥१६॥ तच्छ्रुत्वा कोपसंयुक्तः शशाप जननीं सुतः। कंटकी भव मातस्त्वं दुष्टकर्मपरायणा ॥१७॥ अतितिक्तफलां तत्र भक्षिष्यंति नरा न ताम्। अरण्ये निंदिता नित्यं भुंक्ष्व पापं पुरा कृतम् ॥१८॥ ततः सापि स्वपुत्रं तं शशाप क्रोधपूरिता। त्वत्तः पुत्रो महादैत्यो भविष्यति सुदारुणः ॥१९॥ ततो देहं समुत्सृज्य मुकुंदा साऽभवन्नृप। कंटकी श्यामसज्ञा सा पापकर्मपरायणा ॥२०॥ गणेशभक्त- विक्षेपादतृत्वोदघमुत्तमम्। तया प्राप्तं चिरं पूर्णं तेन शापयुताऽभवत् ॥२१॥ कल्पे कल्पे च शापात् सा सदा वृक्षत्व- मागता। पश्य विघ्नस्वरूपं त्वं महाभयंकरं नृप ॥२२॥ ततो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः। तत आकाशवाणी तं जगाद प्रेमसंयुता ॥२३॥ इंद्रो रुक्मांगदीभूतस्तस्माज्जातोऽसि मानद। भज लंबोदरं नित्यं ततः सौख्यमवाप्स्यसि ॥२४॥ श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमम्। निराहारेण संस्थश्च गणेशमभजत् सदा ॥२५॥ ब्रह्मणस्पतिसूक्तैश्चा-