भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 601, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 601

खं. ५ अ. ३० पान ७२

लभ्यते । आनंदाख्यं प्रजानाथ योगसाधनतः परम् ॥४०॥ एतत्ते कथितं पूर्णमानंदस्य स्वरूपकम् । आनंदानां समायोगे समस्वानंदगो भवेत् ॥४१॥ द्विविधा तस्य माया तु द्वंद्वभावधरा मता । तयोः संयोगभावे स उभयात्मक उच्यते ॥४२॥ तदेव द्विविधेष्वेव मोहयुक्तं नराधिप । समं सर्वत्र जानीहि द्वंद्वमोहादिदायकम् ॥४३॥ त्रिषु मोहविहीनं यत् सदा नेति स्वरूपकम् । स्वाधीनं सहजं विद्धि चतुर्थं राजसत्तम ॥४४॥ स्वेच्छया सत् समायुक्तं स्वेच्छया सत् परायणम् । स्वेच्छयाऽऽनंदसंयुक्तं त्रिभिर्हीनं निजेच्छया ॥४५॥ आज्ञया त्रिविधं ब्रह्म वर्तते नात्र संशयः । सर्वेषां नाशकं तुर्यं सहजं नेति भावतः ॥४६॥ न तस्य नेति कर्ता वै विद्यते योगभावतः । तेन नेतिमयं स्वच्छंदगं प्रोक्तं सनातनम् ॥४७॥ स्वेच्छया बंधयुक्तश्च स्वेच्छया बंधवर्जितः । स्वेच्छया समभावस्थो भवते सहजाख्यकः ॥४८॥ अव्यक्तेन त्रिभावेषु तेन योगेन लभ्यते । सहजं ब्रह्म वेदेषु यत् प्रोक्तं वेदवादिभिः ॥४९॥ स्वाधीनानां समायोगे व्यक्तः स्वानंद उच्यते । अव्यक्तयोगभावत्वान्निराकर्तुं न शक्यते ॥५०॥ एतत्ते कथितं भूप सहजं मोहवर्जितम् । अधुना शृणु योगं त्वं ब्रह्मभूय- प्रकाशकम् ॥५१॥ स्वानंदः सर्वसंयोगे भवति ब्रह्मधारकः । चतुर्णां तत्र संयोगः कर्तव्यः स्वसमाधिना ॥५२॥ त्रिविधं मोहयुक्तं च मोहहीनं चतुर्थकम् । नैव ब्रह्मणि राजेंद्र मोहयुक्तविहीन ते ॥५३॥ स्वाधीनं न भवेत्तत्तु पराधीनं न वर्तते । ब्रह्मणां जगतां तत्र संयोगो जायते परः ॥५४॥ स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः । तत्र किं भिन्नभावाख्यं वर्तते योगनाशकम् ॥५५॥ संयोगे नाशभूते तु ब्रह्मयोगः प्रकीर्तितः । न तत्र जगतां भूप संयोगो ब्रह्मणां भवेत् ॥५६॥ अयोगस्य न संयोगः केषु ब्रह्मसु कीर्तितः । योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्वि- चारय ॥५७॥ संयोगे मायया युक्तो भवते गणनायकः । मायाधीनस्वरूपेण सदाऽयोगः प्रवर्तते ॥५८॥ मायया सर्वभावस्थो भवति द्विरदाननः । संयोगाभेदभावेन निजमायामयः स्मृतः ॥५९॥ स्वानंदे गणनाथस्य दर्शनं योगिनां भवेत् । संयोगाभेदकं तेन विदुः स्वानंदवासिनम् ॥६०॥ अयोगे माययाहीनो गणेशः सर्वदा मतः । यादृशस्तादृशः सोऽपि नागतो न गतो भवेत् ॥६१॥ वृथा भ्रांतिमयं सर्वं भासते मायया किल । भ्रांतानां तेन सर्वत्र निवृत्तिर्जायते परा ॥६२॥ स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकतः । धृत्वा ह्ययोगयोगस्थः स्वयं भवति मानवः ॥६३॥ अयोगे मायया हीनः संयोगे मायया युतः । नरो भवति राजेंद्र पंचपंचस्वरूपया ॥६४॥ ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते ।

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 601, कुल 1023 में से · BharatKosha