मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 600, कुल 1023 में से
संदर्भ में पढ़ें[Header] खं. ५ अ. ३० | पान ७१
महामते। देहसौख्यप्रदं प्रोक्तं जन्ममृत्युप्रदं भवेत् ॥१४॥ स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः। विकर्म विद्धि राजेंद्र तदेवं पापरूपकम् ॥१५॥ पापाचरणमात्रेण नरो दुर्गतिमाप्नुयात् । देहदुःखकरं प्रोक्तं परिणामे न संशयः ॥१६॥ सत्कर्म मुक्तिकामार्थं कुरुते नित्यमादरात्। ब्रह्मार्पणस्वभावेनाकर्म विद्धि महामते ॥१७॥ शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति शाश्वतीम्। अकर्मणः प्रभावेण स निष्कामपरो मतः ॥१८॥ कर्मयोगमयं विश्वं सर्वं जानीहि पार्थिव । क्रियायां यत् स्थितं ब्रह्म स एव कर्मयोगकः ॥१९॥ क्रियमाणं च यत्प्रोक्तं तदेव कर्म उच्यते। तस्य भेदान् प्रवक्ष्यामि समाहितमनाः शृणु ॥२०॥ मौनं यदि धृतं तेन तदा जातं नृपात्मज । अतः कर्ममयं विद्धि धारणान्नात्र संशयः ॥२१॥ वायुबंधन- योगेन प्राणो नीतः स्वमस्तके। तदेव कर्मरूपं वै वायुचालनतः परम् ॥२२॥ ध्यानं करोति चेच्चित्ते दमयित्वा मनः स्वयम्। तदेवं कर्मरूपं तु मनोनिग्रहकारणात् ॥२३॥ जागृतिर्जागरं कर्म स्वप्नः सुप्तिमयं भवेत्। अज्ञानं विद्धि सौषुप्तं कर्मरूपं न संशयः ॥२४॥ इत्याद्या बह्वो भेदा मया वक्तुं न शक्यते। नामरूपधरः कोऽपि कर्महीनो न वर्तते ॥२५॥ उत्पत्तिश्च स्थिती राजन् संहारस्त्रिविधं परम् । सर्वं कर्ममयं विद्धि कर्मयोगेन जायते ॥२६॥ असङ्गरूञ्च यत् प्रोक्तं वेदे तन्मायया बभौ। कर्मरूपं न संदेहो नामरूपप्रधारणात् ॥२७॥ नामरूपपरित्यागे ह्यसत् स्वानंदगं भवेत् । मानवो ब्रह्मरूपः स कर्मयोगी प्रकथ्यते ॥२८॥ एतत् कर्मस्वरूपं ते कथितं ब्रह्मवाचकम् । कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा ॥२९॥ जनक उवाच । ज्ञानं च कीदृशं प्रोक्तं तन्मे वदत योगिनः। येन योगी भवेज्जंतुर्ज्ञानयोगपरायणः ॥३०॥ द्रुमिल उवाच । हृदि स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा। स्फूर्तिदातृस्वरूपेण ब्रह्म तत्र स्थितं भवेत् ॥३१॥ नामरूपविहीनं यत् सदाऽमृतमयं भवेत्। आद्यंतभावहीनं वै तद्विद्धि ज्ञानमुत्तमम् ॥३२॥ ज्ञानचक्षुः स्वभावेन ब्रह्मानुभवकारकम् । नानाज्ञानलयं कृत्वा ज्ञानयोगी भवेत्ततः ॥३३॥ सत्यस्वानंदरूपं त्वं जानीहि ज्ञानमूलकम् । ज्ञानानां योगभावेन लभ्यते योगसेवया ॥३४॥ जनक उवाच । आनंदः कीदृशः प्रोक्तः सहजं कीदृशं मतम्। ब्रह्मभूयं च योगींद्राः कीदृशं कथयंतु मे ॥३५॥ चमस उवाच । बाह्यांतर- विभेदेनानंदः सर्वत्र वर्तते। उभयात्मकभावस्थः समरूपधरो मतः ॥३६॥ नानाद्वंद्रेषु राजेंद्र स्थितमानंदरूपकम्। समं विद्धि च सर्वत्र जगत्सु ब्रह्मसु परम् ॥३७॥ सत्यासत्यमयं तद्धि समस्वानंदगं परम् । ब्रह्म राजन् सदानंदरूपं तदेव संमतम् ॥३८॥ द्वंद्रेषु त्वासमंताद्यच्चंदनात्तन् महीपते । आनंदः परमानंदो ब्रह्मानंदः प्रकथ्यते ॥३९॥ समभावस्थितानां च योगेन ब्रह्म