मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 599, कुल 1023 में से
संदर्भ में पढ़ेंयोगमयो लाभः सदा भवति योगिनाम् ॥८९॥ हृदि लक्षः स्थितो नित्यं सर्वत्र लक्षदायकः । पदार्थेषु स्थितो लाभो मतो नाना फलप्रदः ॥९०॥ ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् । बंधहीनः खेलति च स्वेच्छाचारिस्वरूपधृक् ॥९१॥ तत्र भ्रांतिकरी प्रोक्ता सिद्धिः सर्वत्र वर्तते । सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय ॥९२॥ धर्मसिद्धिस्तथार्थस्य सिद्धिः कामप्रदायिनी । मोक्षसिद्धिस्तथा राजन् ब्रह्मभूयकरी मता ॥९३॥ अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते । भुक्तिमुक्ति- ब्रह्मभूयं सिद्धिः सुभ्रांतिदा मता ॥९४॥ भ्रांतिधारकरूपा सा बुद्धिः सर्वत्र वर्तते । बुद्ध्या बुद्ध्वा तु राजेंद्र पश्चान्न मोहो निवर्तते ॥९५॥ पंचचित्तमयी बुद्धिः स्वयं विश्वात्मिका मता । ब्रह्माकारा तथा भिन्नं पदमिच्छति दुःखदम् ॥९६॥ सकामा चैव निष्कामा ब्रह्मभूयपरायणा । बुद्धिर्भवति सा भ्रांत्या भ्रांतिधारकतां गता ॥९७॥ नानाभ्रांतियुतं सर्वं चकार सिद्धिमंजसा । नानामोहयुतं तद्वद् बुद्धिश्चकार खेलया ॥९८॥ ताभ्यां संमोहितं सर्वं लक्षलाभयुतं भवेत् । नानालक्ष- समायुकतं नानालाभफलैर्युतम् ॥९९॥ अतो मायायुतः सोऽपि गणेशो ब्रह्मनायकः । बिंबे खेलति बिंबीव जानीहि नृपसत्तम ॥१००॥ एतन् मायास्वरूपं ते कथितं मोहकारकम् । यज्ज्ञात्वा योगिवंद्यश्च जायते मानवः क्षणात् ॥१॥ जनक उवाच । भक्तिप्रियो गणेशश्चेत् कथं मोहयुतान् जनान् । स्वभक्तान्न स योगींद्राः करोति वदत प्रियाः ॥२॥ न पराधीनता तस्य स्वप्रियं गणनायकः । पराधीन समानं न न करोति महाद्भुतम् ॥३॥ पिप्पलायन उवाच । गणेशेन महाराज क्रीडार्थं रचितं जगत् । मायामयं विशेषेण नानाखेलयुतं तथा ॥४॥ तत्रादौ द्विविधं तेन तदर्थं रचितं पुरा । तच्छृणुष्व विधानेन सर्वसंशयहारकम् ॥५॥ स्वस्वस्वार्थयुतं पूर्णं मायासुरवकरं मतम् । तदर्थं सर्वलोकाश्च ब्रह्माणि संभ्रमंति वै ॥६॥ योगमार्गस्तथा राजन् गाणेशः शांतिदः परः । रचितो मोहनाशार्थं मायानाशकरो मतः ॥७॥ योगेन गणपं ज्ञात्वा नरः पूर्णं ततो नृप । भजतेऽनन्यभावेन तन्निष्ठस्तत्परायणः ॥८॥ यस्य भावो भवेद्यत्र याहशस्तादृशं चरेत् । तत्र विघ्नेश्वरः साक्षादाग्रहं न करोति च ॥९॥ यदा गणेश्वरो विश्वं भक्तियुक्तं निरंतरम् । करोति चेद्गणेशस्य तदा खेलः कुतो भवेत् ॥१०॥ न पराधीनता तस्य क्रीडार्थं गणनायकः । विश्वं तु द्विविधं कृत्वा परां पश्यति भावनाम् ॥११॥ एतत्ते कथितं राजन् श्रोतुमिच्छसि किं परम् । स्वाधीनं तु पराधीनं मायया दृश्यते सदा ॥१२॥ जनक उवाच । किं कर्म किमकर्मापि विकर्मापि कथं भवेत् । कर्मयोगश्च विप्रेन्द्राः कीदृशो वदत प्रियाः ॥१३॥ आविर्होत्र उवाच । स्वस्वधर्मयुतं कर्म विधियुक्तं