मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 598, कुल 1023 में से
संदर्भ में पढ़ें[Header] खं. ५ अ. ३० | पान ६९
[Body] संयोगो ब्रह्माकारेण जायते ॥६४॥ अन्यद्योगरूपं वै निवृत्तेर्धारकं परम् । ब्रह्म मायाविहीनं तु व्यतिरेकप्रभावतः ॥६५॥ केषांचित्तत्र संयोगो ब्रह्मणं जगतां भवेत् । नैव केषु च तस्यापि ब्रह्मयोगं प्रकथ्यते ॥६६॥ स्वकीयभेदनाशेन लभ्यते नात्र संशयः । तदेव ब्रह्मभूतत्वं निरोधवृत्तिजं मतम् ॥६७॥ निरोधे चित्तके राजन् प्रकाशद्गणेश्वरम् । चिंतामणिं भजस्व त्वं परं तत् खेललालसम् ॥६८॥ पंचधा चित्तभूमिस्थं त्यक्त्वा योगपरो भवेत् । स्वयं चिंतामणिः साक्षाद्भवते चित्तनाशनात् ॥६९॥ शांत्या सर्वत्र राजेंद्र चित्तेषु नित्यमादरात् । चिंतामणिः प्रलभ्येत त्यक्त्वा सद्यश्च चिंतनम् ॥७०॥ एतत् ते कथितं पूर्णं चिंतामणिस্বরূপकम् । तं भजस्व विधानेन शांत्या योगपरायणः ॥७१॥ जनक उवाच । एतादृशो गणेशानः कथं देहधरोऽभवत् । तत्र श्रद्धादिकं नाथास्तादृशं जायते कथम् ॥७२॥ अंतरिक्ष उवाच । वामभागे राजसश्च दक्षिणे तामसः स्मृतः । मध्ये सत्त्वमयः प्रोक्तस्तेषां योगे तुरीयकः ॥७३॥ चतुर्विधमयो देहस्तत्राहंकारधारकः । देही च तन्मयः साक्षात् कंठाधो गणनायकः ॥७४॥ यस्मात् सर्वं समुत्पन्नं यत्र गच्छति भूमिप । समाधिना महोग्रेण प्रलये तद्गजः स्मृतः ॥७५॥ कदा न जायते भूप लयं गच्छति नो कदा । तदेव गजशब्दाख्यं ब्रह्म वेदैः प्रकथ्यते ॥७६॥ तदेव मस्तकं तस्य गणेशस्य महात्मनः । तयोर्योगे गणाध्यक्षः साकारो भवतीत्यहो ॥७७॥ संप्रज्ञातमयो देहः कंठाधस्तस्य कीर्तितः । असंप्रज्ञातरूपं च कंठादूर्ध्वं शिरः स्मृतम् ॥७८॥ तयोर्योगे स्वयं साक्षाद्भक्तानुग्रहकारणात् । देहधारी बभूवाऽपि गणेशो ब्रह्मनायकः ॥७९॥ न सर्वसमभावाख्यो देहस्तस्य महात्मनः । देहधारी गणाधीशो भक्तिभोगार्थमंजसा ॥८०॥ न भक्तेश्च समं तस्य प्रियं राजेंद्र वर्तते । तदर्थं सकलं हित्वा भक्ताधीनो भवेत् स्वयम् ॥८१॥ मायया भ्रांतचित्तानां देहधारी यथा नरः । तथाऽयं भवति प्राज्ञ साक्षाद्योगस्वरूपधृक् ॥८२॥ जनक उवाच । कीदृशी गणराजस्य माया भ्रांतिकरी मता । तां मे वदत योगींद्रा ब्रह्मभूयार्थमंजसा ॥८३॥ प्रबुद्ध उवाच । वामांगात् सिद्धिरुत्पन्ना वामभागप्रकाशिनी । दक्षिणांगात्तथा बुद्धिर्दक्षिणांगधरा बभौ ॥८४॥ सिद्धिपुत्रः स्वयं लक्षो बुद्धिपुत्रो महामते । लाभस्तयोश्च चित्तातौ संजातौ खेलकौ परौ ॥८५॥ मायामोहितचित्तानां भ्रामकौ नात्र संशयः । तयो रूपं प्रवक्ष्यामि शृणु लोकहिताय च ॥८६॥ पापेषु च नरा राजन् यदा लक्षं प्रकुर्वते । तदा नरकदो लाभो भवते पापकारिणाम् ॥८७॥ यदा पुण्येषु लक्षं वै कुर्वते मानवा नृप । तदा स्वर्गप्रदो लाभो जायते पुण्यकर्मणाम् ॥८८॥ यदा ब्रह्मणि लक्षं वै कुर्वते मानवा नृप । तदा