भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 597, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 597

परित्यजेत् ॥३८॥ असंप्रज्ञातयोगस्थः भवेद्यदि स मानवः । तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् ॥३९॥ गणेशध्यान- संयुक्तो योगभूमिं नृपात्मज । स च स्वल्पेन कालेनोल्लंघयेद्विघ्नहानतः ॥४०॥ ततो योगी भवेन्नूनं शांतियोगपरायणः । चित्ते चिंतामणौ सोऽपि तदाकारः सुसाधनात् ॥४१॥ न गणेशसमं किंचिज्जगत्सु ब्रह्मदं भवेत् । सर्वेभ्यो योगदानार्थं बभूवे देहधारकः ॥४२॥ एतत्ते कथितं भूप योगप्राप्तौ सुसिद्धिदम् । भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकम् ॥४३॥ जनक उवाच । कथं चिंतामणिः प्रोक्तो गणेशानो वदंतु मे । तस्य रूपं कथं ज्ञेयं नरैश्चित्ते विशेषतः ॥४४॥ हरिरुवाच । चित्तं पंचविधं प्रोक्तं तत्र चिंतामणिः स्थितः । चित्तप्रकाशकत्वाद्वै विघ्नेशानः प्रकथ्यते ॥४५॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पंचधा चित्तमेवं तु भवते शृणु भूमिप ॥४६॥ यत्र क्षिप्तं मनः सर्वैस्तत्र ज्ञानयुतं भवेत् । तदेव कर्तुमुद्युक्तं समर्थं संभवेत् कथम् ॥४७॥ क्षिप्तं चित्तं विजानीहि स्मृतस्तत्र प्रकाशकः । चिंतामणिर्गणाधीशस्तं भजस्व महामते ॥४८॥ यत्र क्षिप्तं नरेणैव चित्तं तत्र न गच्छति । ज्ञानहीनतया तस्य मूढवन् मूढसंज्ञितम् ॥४९॥ अन्यच्च आंतियुक्तानां पिशाचवत् स्थितं सदा । चित्तं तदेव मूढं च ज्ञातव्यं जनवत्सल ॥५०॥ तत्र प्रकाशकर्ता स नानाखेलपरायणः । चिंतामणिर्गणाध्यक्षः स तिष्ठति भजस्व तम् ॥५१॥ सत्वभावसमायुक्तो मानवो मोक्षकामुकः । ब्रह्मार्पणतया सर्वं कुरुते कर्म नित्यदा ॥५२॥ ब्रह्मानुभवहीनो न जगत्सु सुखलालसः । ब्रह्मार्थं तस्य चित्तं वै विक्षिप्तं कथितं बुधैः ॥५३॥ संसारे क्षिप्तभावश्च तस्माद्विगतक्षेपणम् । कर्तुं समुद्यतः सोऽपि सदा साधनतत्परः ॥५४॥ अनेन विधिना राजन् विक्षिप्तं चित्तमुच्यते । तत्र प्रकाशकर्तारं चिंतामणिं भजस्व तम् ॥५५॥ ज्ञानदृष्टिः समुत्पन्ना हृदि सर्वत्र भूमिप । साक्षाद्भावस्यैककरावयवादिक- वर्जिता ॥५६॥ तया सोऽपि नरस्तत्र यत्र पश्यति योगवित् । आकाररहितं भाति विश्वं सर्वं न संशयः ॥५७॥ अष्टधा सा समाख्याता संप्रज्ञातस्वरूपिका । एकभावकरा वृत्तिरेकाग्रा कथिता बुधैः ॥५८॥ तत्र चिंतामणिः साक्षात् प्रकाशकारकः स्मृतः । तं भजस्व विधानेन सर्वसिद्धिप्रदायकम् ॥५९॥ जगद्वयवयैर्युक्तं चतुर्देहमयं नृप । बिंदुस्तस्य परा काष्ठा ब्रह्मकायाप्रधारकम् ॥६०॥ देही भेदविहीनश्च देहचालक उच्यते । सोऽहं मात्रात्मकः सोऽपि कथितो वेदवादिभिः ॥६१॥ तयोर्योगे निरोधश्च सदा भवति चेतसः । तस्य भेदौ समाख्यातौ संयोगायोगरूपिणौ ॥६२॥ स्वत उत्थानयुक्तं परत उत्थानधारकम् । स्वतः परत उत्थानवर्जितं ब्रह्म उच्यते ॥६३॥ एतत् संयोगकं प्रोक्तं समाधेर्धारकं परम् । सर्वेषां तत्र