मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 602, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ३० पान ७३ अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥६५॥ चित्तं पंचविधं त्यक्त्वा चित्तभ्रांतिं च पंचधा । स्वयं चिंतामणिः साक्षाद् ब्रह्मभूतो नरो भवेत् ॥६६॥ संयोगात्मा गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणाधीशः संयोगायोग- वर्जितः ॥६७॥ इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥६८॥ जनक उवाच । गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् । न भक्तिसमभावाख्यं मोहदं तस्य संभवेत् ॥६९॥ अतो वदत मे भक्तिस्वरूपं योगिसत्तमाः । तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥७०॥ करभाजन उवाच । भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी । कथयामि समासेन स्वरूपं रसदायकम् ॥७१॥ श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् । अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥७२॥ नवधा मानसी राजन् गतिः सर्वत्र वर्तते । भावेषु रससंयुक्ता दशमी नैव विद्यते ॥७३॥ यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते । तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥७४॥ यदा मुक्तौ तथा जंतो रसः पूर्णो जनाधिप । तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥७५॥ यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते । तदा नरस्य योगेषु चित्तं तन्नवधा भवेत् ॥७६॥ योगी भूत्वा नरो यस्तु भजते गणनायकम् । तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥७७॥ योगिनां हृदि विघ्नेशः पूर्णरूपधरो वसेत् । अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥७८॥ ततो गणेशरूपस्य भजनं पूर्णभावतः । भवत्यत्र न संदेहो रसयुक्तं विशेषतः ॥७९॥ गणेशगुणवादानां प्रीत्या संपूर्णभावतः । प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥८०॥ सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः । गणेशगुणवादेषु रसं पूर्ण स पश्यति ॥८१॥ एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप । समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥८२॥ तथा कीर्तनभावश्च उत्पद्येत नरा- धिप । गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥८३॥ गणेशार्थं च या किंचिद्विस्मृतिस्तत्र नो भवेत् । तदा स्मरणभक्तिः सा प्राप्ता संपूर्णभावतः ॥८४॥ गणेशपादपद्मं यो मत्वा शाश्वतकं परम् । तत्रैव सकलो यत्नो भवेत्तत् पादसेवनम् ॥८५॥ सांगं गाणेश्वरं सर्वं कुरुते नित्यमादरात् । अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥८६॥ गणेशात् परं श्रेष्ठं वेदशास्त्रविचारतः । न चलेत् क्वापि जानीहि तदा वंदनवान् भवेत् ॥८७॥ गाणपत्यानि चिह्नानि धृत्वा तत्परचेतसा । तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥८८॥ अंतर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः । अंतर्भयेन भक्त्यार्या सा प्रोक्ता सख्यरूपिणी ॥८९॥ पंचधा मोहयुक्तं स चित्तमुत्सृज्य योगतः । न भिन्नोऽहं गणेशाननान्