भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ५ अ. ३० पान ७३ अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥६५॥ चित्तं पंचविधं त्यक्त्वा चित्तभ्रांतिं च पंचधा । स्वयं चिंतामणिः साक्षाद् ब्रह्मभूतो नरो भवेत् ॥६६॥ संयोगात्मा गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणाधीशः संयोगायोग- वर्जितः ॥६७॥ इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥६८॥ जनक उवाच । गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् । न भक्तिसमभावाख्यं मोहदं तस्य संभवेत् ॥६९॥ अतो वदत मे भक्तिस्वरूपं योगिसत्तमाः । तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥७०॥ करभाजन उवाच । भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी । कथयामि समासेन स्वरूपं रसदायकम् ॥७१॥ श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् । अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥७२॥ नवधा मानसी राजन् गतिः सर्वत्र वर्तते । भावेषु रससंयुक्ता दशमी नैव विद्यते ॥७३॥ यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते । तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥७४॥ यदा मुक्तौ तथा जंतो रसः पूर्णो जनाधिप । तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥७५॥ यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते । तदा नरस्य योगेषु चित्तं तन्नवधा भवेत् ॥७६॥ योगी भूत्वा नरो यस्तु भजते गणनायकम् । तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥७७॥ योगिनां हृदि विघ्नेशः पूर्णरूपधरो वसेत् । अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥७८॥ ततो गणेशरूपस्य भजनं पूर्णभावतः । भवत्यत्र न संदेहो रसयुक्तं विशेषतः ॥७९॥ गणेशगुणवादानां प्रीत्या संपूर्णभावतः । प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥८०॥ सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः । गणेशगुणवादेषु रसं पूर्ण स पश्यति ॥८१॥ एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप । समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥८२॥ तथा कीर्तनभावश्च उत्पद्येत नरा- धिप । गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥८३॥ गणेशार्थं च या किंचिद्विस्मृतिस्तत्र नो भवेत् । तदा स्मरणभक्तिः सा प्राप्ता संपूर्णभावतः ॥८४॥ गणेशपादपद्मं यो मत्वा शाश्वतकं परम् । तत्रैव सकलो यत्नो भवेत्तत् पादसेवनम् ॥८५॥ सांगं गाणेश्वरं सर्वं कुरुते नित्यमादरात् । अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥८६॥ गणेशात् परं श्रेष्ठं वेदशास्त्रविचारतः । न चलेत् क्वापि जानीहि तदा वंदनवान् भवेत् ॥८७॥ गाणपत्यानि चिह्नानि धृत्वा तत्परचेतसा । तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥८८॥ अंतर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः । अंतर्भयेन भक्त्यार्या सा प्रोक्ता सख्यरूपिणी ॥८९॥ पंचधा मोहयुक्तं स चित्तमुत्सृज्य योगतः । न भिन्नोऽहं गणेशाननान्

मत आत्मनिवेदकः ॥१९०॥ मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा । भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥१९१॥ रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः । यस्य तिष्ठति जंतुः स तद्भक्तः संमतो नृप ॥१९२॥ भोगेषु न रसोत्पत्तिर्मुक्तौ च ब्रह्मभूयके । गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥९३॥ आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् । ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥९४॥ तत्र विश्वासभावेन तादृगुत्पद्यते रसः । तदा भक्तो महाराज भवते योगिवंद्यकः ॥९५॥ नारदेनैव राजेंद्र बोधितस्त्वं न बुद्ध्यसे । तव भावपरीक्षार्थं भक्तिदानार्थमंजसा ॥९६॥ प्रेषितस्तेन विघ्नेशो वृद्धः कुष्ठयुतो द्विजः । समायातः सर्वभक्षी छलथामास साधुपम् ॥९७॥ नरदेहं समासाद्य गणेशं भजेत न यः । पशुतुल्यः स राजेंद्र तस्य धिक् जन्म निश्चितम् ॥९८॥ मुद्गल उवाच । एवमुक्त्वा विदेहं तं जनकं योगिनो नव । अनुज्ञाप्य ययुस्तस्मात् स्वेच्छया गणपे रताः ॥९९॥ जनकस्तानमस्कृत्य स्वगृहे गणनायके । योगी नवविधां भक्तिमकरोद्भाव- संयुतः ॥२००॥ अहर्निशं गणेशानमभजन्नान्यचेतसा । जनकः सर्वभावेन योगिवंद्यो बभूव ह ॥१॥ तिष्ठन् स्वपन् पिबन् वाऽदन् गच्छन् विघ्नेश्वरे रतः । अतो गणेशसंतुष्ट्या तद्वंशे जनका बभुः ॥२॥ सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः । गणेशभजने सक्ता बभूवुश्च प्रजापते ॥३॥ नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् । वृत्तांतं परिशुश्राव गणेश- गमनात्मकम् ॥४॥ स्वयं तस्य गृहं गत्वा ननाम मुनिपुंगवम् । दैवीसंवृद्धिसंयुक्तं योगपारंगतं परम् ॥५॥ तेन संबो- धितो राजा नित्यं दूर्वापरायणः । पुपूज गणनांथं तं सदा भक्तिसमन्वितः ॥६॥ दूर्वाहीनां न पूजां स चकार मरणावधि । अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥७॥ इदं जनकमाहात्म्यं कथितं ते प्रजापते । भुक्तिमुक्तिप्रदं नृभ्यः श्रवणात् पठनाद्भवेत् ॥२०८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥

खं. ५ अ. ३१ पान ७५ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया । किमर्थं पावनी सा तु दोषयुक्ता बभूव ह ॥१॥ तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् । येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥२॥ मुद्गल उवाच । धर्मध्वजो महीपालो बभूवे धर्मसंयुक्तः । दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥३॥ तस्य पुत्री बभूवाऽसौ रूपलावण्यसंयुता । न तया सदृशी कुत्र वर्तते कामिनी विधे ॥४॥ वृंदा नाम्नी च विख्याता प्रणम्य पितरं कदा । जगाद भावगंभीरा चतुरा सुवयोयुता ॥५॥ वृंदोवाच । तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् । वरं तदर्थमेवं मां देहि तस्मै महामते ॥६॥ धर्मध्वज उवाच । विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः । स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते ॥७॥ मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् । नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥८॥ एवं नानाविधैर्भावै- र्बोधिता न बुबोध सा । तदर्थं मंत्रराजं संगृह्य विष्णोर्वनं ययौ ॥९॥ ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा । तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥१०॥ तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद । तपस्तताप वृंदोग्रं नाना- मार्गपरायणा ॥११॥ शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा । भुक्त्वा संतोषयामास विष्णुं देववरं विधे ॥१२॥ वर्षाणि लक्षसंख्यानि गतानि तपसो बलात् । राजपुत्र्याश्च वृंदाया न तुतोष जनार्दनः ॥१३॥ अतीव तपसा तस्या अंतर्ज्ञानं बभूव ह । आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥१४॥ कदा विघ्नेश्वरं वृंदा ददर्श नियमे रतम् । संपूज्य गणनांथं वै हृदि ध्यानपरायणम् ॥१५॥ तं दृष्ट्वा कुंजरास्यं सा शिवपुत्रं नृपात्मजा । भागीरथीसंनिधिस्थं विस्मिताऽभूत् प्रजापते ॥१६॥ गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि । अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥१७॥ अस्य कलांशसंभूताः शिवविष्ण्वादयोऽपरे । पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥१८॥ शिवेन तपसोग्रेणा- राधितो गणनायकः । पुत्रोऽभूद्योगशांतिस्थो भक्तभक्तिपदप्रदः ॥१९॥ खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः । अयं विष्णुस्तथा शंभुः शक्तिः सूर्यो न संशयः ॥२०॥ पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् । अधुना तं समालोक्य बोधयुक्ता न संशयः ॥२१॥ तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् । व्यभिचारो न मे भावी विष्णुरूपोऽयमंजसा ॥२२॥ एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् । ध्यानभंगार्थमुद्युक्ता वृंदा तं प्रत्युवाच ह ॥२३॥ वृंदोवाच । त्वं साक्षाद् गणराजश्च तपसाऽऽराधितो भवान् । शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥२४॥ शिवविष्ण्वादयो देवास्त्वां

भजंति निरंतरम् । कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥२५॥ गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो । गणेश्वरो विशे- षेण स्वयं ध्यायसि तं प्रभो ॥२६॥ अहो चित्रं मया दृष्टं गणेशो गणनायकम् । भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात् ॥२७॥ न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा । कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥२८॥ तव स्मरण- मात्रेण ब्रह्मभूता भवंति ते । नरा देवेंद्रमुख्याश्च योगिनो वेदकादयः ॥२९॥ स्वयं शांतिप्रदाता त्वं किं ध्यायसि गणे- श्वरम् । गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥३०॥ कामबाणार्दिता सा तं वृंदा नानाप्रकारतः । बोधयामास विघ्नेशो ध्यानस्थो न बुबोध ताम् ॥३१॥ ततः सा जलबिंदुं वै चिक्षेप गणपोपरि । तथापि ध्यानसंस्थो नालोकयत्तां गजाननः ॥३२॥ जघान मोहसंयुक्ताऽंगुल्या तं सा ततोऽसकृत् । ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥३३॥ गणेशाय नम इति मंत्रमुच्चार्य विघ्नपः । जगाद तां सकामां स निष्कामो गणपे रतः ॥३४॥ श्रीमहागणपतिरुवाच । काऽसि त्वं वद मातर्मां चापल्यगुणसंयुते । ध्यानभंगो न कर्तव्यः साधुभिश्च कदाचन ॥३५॥ गणेशकर्मसंस्थं तं नरं यश्च नराधमः । पृच्छते बोधयति वा स वै नरकगो भवेत् ॥३६॥ ध्यानभंगस्य दोषस्ते माऽस्तु बाले सुलक्षणे । मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुता ॥३७॥ किमर्थमागता बाले वद मां काममोहिते । निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः ॥३८॥ वृंदोवाच । धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् । वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक ॥३९॥ सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः । तथापि मां भजस्व त्वं भजमानां गजानन ॥४०॥ तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः । उवाच कामबाणैस्तामर्दितां शांतिधारकः ॥४१॥ श्रीमहागणपतिरुवाच । नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुतां कदा । तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥४२॥ सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे । अहं गणेश्वरस्यैव दासो देवं भजामि तम् ॥४३॥ वृणोमि नैव निष्कामः सकामां देवि निश्चितम् । शांतिस्था मे भवेत् पत्नी गच्छातो यत्र ते समः ॥४४॥ तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह । अहं शांतिसमायुक्ता मां भजस्व दयानिधे ॥४५॥ तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि । तथाऽपि तं हठाद्देवी चालिलिंग सुविह्वला ॥४६॥ अंशुकं गणनाथस्या- कृष्य तं काममोहिता । नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥४७॥ दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः । असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥४८॥ मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता । अतो वृक्षस्वरूपा त्वं मूढयोनौ

खं. ५ अ. ३२ पान ७७ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ पतिष्यसि ॥४९॥ गणेशवचनं श्रुत्वा दारुणं भयसंयुता । त्यक्त्वा तं कंपमानांगी ननाम रुदती भृशम् ॥५०॥ उवाच तं गणाधीशं मां क्षमस्व महांगसाम् । न योग्याऽहं गणाधीश तव वामांगके कदा ॥५१॥ कंपंतीं रुदतीं वीक्ष्य दयायुक्तो गजाननः । जगाद तां प्रजानाथ परां ज्ञात्वा तपोधुताम् ॥५२॥ श्रीमद्गणपतिरुवाच । गच्छ देवि न ते दुःखं भविष्यति कदा- चन । असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥५३॥ तत्र त्वां केशवः कापि शंखचूडस्वरूपधृक् । यप्स्यते स तदा दैत्यः शंभुहस्तान् मरिष्यति ॥५४॥ ज्ञात्वा तं देहसंत्यागं करिष्यसि हुताशने । पुर्नवृक्षस्वरूपस्था भविष्यसि न संशयः ॥५५॥ त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् । तेन सार्धं सदा देवि रंस्यसे त्वं निरंतरम् ॥५६॥ पतिस्ते भविता विष्णुः सदा सुखप्रदायकः । मदीयकृपया देवि सर्वमान्या भविष्यसि ॥५७॥ देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यंतं भविष्यसि । त्वत्काष्ठसंभवां मालां धरिष्यंति गले जनाः ॥५८॥ त्वामन्यकाष्ठवत् सर्वे मानयिष्यंति निश्चितम् । त्रिलोकस्था जना नैव मा चिंतां कुरु भामिनि ॥५९॥ देवानां त्वं प्रिया भूया विष्णोरत्यंतभावतः । पत्रैः पुष्पैश्च वृंदे त्वां पूजयिष्यंति मानवाः ॥ ६० ॥ मम वर्ज्या सदा देवि भविष्यसि न संशयः । गच्छ त्वं यत्र भावस्ते चिंतां त्यक्त्वा विशेषतः ॥६१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यथा गजाननः प्राह तथा जातं प्रजापते । वृंदा तं प्रणिपत्यैव तपसे वनमाययौ ॥१॥ चिंताक्रान्ता स्वयं देवी गणेशे भावलालसा । गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥२॥ नाममंत्रं जजापैव पूजयामास सादरम् । एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥३॥ ततस्तां गणराजस्तु वरदः सहसाऽऽययौ । प्रणम्य तं प्रपूज्यैव वृंदा तुष्टाव हर्षिता ॥४॥ वृंदोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥५॥ परेशांय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥६॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥७॥ अमेयायाप्रतर्क्याय सदा स्वानंदवासिने । ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥८॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुंडाय सर्वेषामादिपूज्याय ते नमः ॥९॥ विनायकाय वीराय शूर्पकर्णाय ढुंढये । गजाननाय चिंतामणये हेरंब ते नमः ॥१०॥ अनंतगुणधाराय नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥११॥ पूर्णानंदाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥१२॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥१३॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लंघनभावजम् ॥ १४ ॥ अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किंचिदल्पेन भावेन वरदायक ॥१५॥ काऽहं ते समतां नाथ संप्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षंतुं त्वमर्हसि ॥१६॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृंदा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥१७॥ श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या महाभागे भविष्यसि सदा सुते ॥१८॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यंति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥१९॥ एकविंशतिपत्राणि ह्यर्पयिष्यंति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥२०॥ उल्लंघनसमं पापं न भूतं न भविष्यति । स्वल्पोलंघनमात्रेण त्वं त्यक्ता च मया सदा ॥२१॥ ये मामुलंघयिष्यंति तांस्त्यजामि निरंतरम् । तत्रापि तपसा बद्धो वृंदे त्वां मानयाम्यहम् ॥२२॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । ब्रह्मभूयप्रदं पूर्णं पठते शृण्वते सदा ॥२३॥ तुलसीं ये नरा मह्यमर्पयंति कदा सुते । तत्पापहरं स्तोत्रं भविष्यति कृतं त्वया ॥२४॥ उल्लंघनाद्यहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥२५॥ एवमुक्त्वा गणाधीशोऽंतर्धानमगमत् स्वयम् । तुलसी हर्षसंयुक्ता बभूवे च प्रजापते ॥२६॥ तदादि सा महाभागा बभूव विगतज्वरा । क्रमेण तुलसी जाता विष्णुपत्नी सुपूजिता ॥२७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥

शीर्षक (Header): खं ५ अ. ३३ | पान ७९


॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् । पूजनं गणनाथस्य कृतं तस्य फलं वद ॥१॥ श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः । अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥२॥ मुद्गल उवाच । अत्र ते कथयिष्यामि इतिहासं पुरा भवम् । श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥३॥ ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले । स तु नित्यं गणपतिं तुलस्याऽपूजयद्दृढात् ॥४॥ अन्ये तत्र द्विजास्तं वै वारयंतो विशेषतः । न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥५॥ गणेशः सर्वरूपश्चैत् कुतस्तत्र प्रवर्तते । विधिनिषेधकार्यं हि मा वदेत क्रियात्मकाः ॥६॥ ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः । परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥७॥ अहो गणेश्र्वरे देहे तुलसी मस्तकेऽथवा । दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥८॥ अन्यैरपि न संदेहो नो चेन्नरकगामिनः । उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥९॥ तत्र विलंबभावेन पापभागी नरो भवेत् । किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं कथ्यतां द्विजाः ॥१०॥ यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः । तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥११॥ ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा । बहिष्कृतो महापापी स्वगृहे तादृशो रतः ॥१२॥ ततः स्वल्पेन कालेन ममार काश्यपाधमः । नरकेषु च तं यामाः पातयामासुरंजसा ॥१३॥ एककल्पसमं कालं नरकेषु स्थितोऽभवत् । क्रमेण सकलान् भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥१४॥ सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः । अशक्तः सर्वकार्येषु वनेषु विचचार ह ॥१५॥ एकदा तत्र गार्ग्यश्च समायातो निजेच्छया । गणेशभक्तमुख्यः स महायोगी प्रजापते ॥१६॥ तं दृष्ट्वा राक्षसो दुष्टो भक्षितुं च समाययौ । गार्ग्यो गणेशमंत्रेण मंत्रितं जलमाक्षिपत् ॥१७॥ जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः । धर्मधृक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ १८ ॥ ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् । जगाद प्रांजलिं बद्ध्वा हाहाकाररवाऽऽकुलः ॥१९॥ धर्मधृगुवाच । रक्ष मां मुनिशार्दूल गाणपत्य महायशाः । त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवात् ॥२०॥ ततः स सर्ववृत्तांतं कथयामास राक्षसः । पूर्वजन्मभवं तस्मै गार्ग्याय भयसंकुलः ॥२१॥ त्वदीय- दर्शनेनैव मंत्रितेन जलेन च । जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥२२॥ श्रुत्वा शरणंगं वीक्ष्य दयायुक्तो महामुनिः । गणेशनाममंत्रं स ददौ तस्मै हितावहम् ॥२३॥ जगाद तं महायोगी जप त्वं नाममंत्रकम् । नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च ॥२४॥ एवमुक्त्वाऽंतर्दधेऽसौ गार्ग्यः परमपावनः । दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥२५॥

Here is the precise Devanagari transcription of the text from the image, line by line:

पान ८० ततः क्षुधा सुशांता वै बभूवे तस्य दुर्मतेः। रोगहीनः सशक्तश्च गाणपत्यप्रियोऽभवत् ॥२६॥ अंते गणेश्वरं सोऽपि जगाम दुःखवर्जितः। तत्र योगस्वभावेनाऽभजद्विघ्नेश्वरं विधे ॥२७॥ एतत्ते कथितं सर्वं संक्षेपेण चरित्रकम्। तुलसी- वर्जने भूतं सर्वसंशयनाशनम् ॥२८॥ तुलसीं गणनाधाय समर्पयति यो नरः। स चांडालो न संदेहो नारकीभूमि- संस्थितः ॥२९॥ वंशहानिर्भवेत्तस्य लक्ष्मीनारास्तथा विधे। रोगाद्यैः पीडितोऽत्यंतमंते नरकगो भवेत् ॥३०॥ तस्य स्पर्शं न कुर्यात् कः कृत्वा स्नानं समाचरेत्। सचैलस्नानहीनश्चेत् ज्ञात्वा पापी सदा भवेत् ॥३१॥ नाम तस्य प्रजानाथ न ग्राह्यं पापदायकम्। बहुनाऽत्र किमुक्तेन पापरूपः स वै स्मृतः ॥३२॥ इदं ते कथितं सर्वं पृच्छते च यथातथम्। श्रोतुमिच्छसि किं भूयश्चरित्रं वद सांप्रतम् ॥३३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। वद पूजां विधियुतां गणेशस्य सविस्तराम्। मानसीं बाह्यरूपं च सर्वसिद्धिप्रदा- यिनीम् ॥१॥ गणेशलोकगं सर्वं माहात्म्यं कथयस्व मे। कीदृशोऽयं निजो लोको मुने केनैव लभ्यते ॥२॥ मुद्गल उवाच। अत्र ते कथयिष्यामि पुरातनभवं शुभम्। इतिहास महाभाग सर्वसिद्धिप्रदायकम् ॥३॥ पुरा ते कथितं स्थानं गणेशस्य महात्मनः। कार्तिकेयवराजातं लक्षवैनायकात्मकम् ॥४॥ तत्र राजा बभूवाऽपि सर्वशास्त्रविशारदः। ऐलः शस्त्रास्त्र- तत्त्वज्ञो धर्मशीलश्च सत्यवाक् ॥५॥ सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा। सार्वभौमः सुविख्यातो गाणपत्यप्रियो- ऽभवत् ॥६॥ तत्राऽऽजगाम गाणेशो गार्ग्यः सर्वार्थकोविदः। तं प्रणम्य प्रपूज्यैव पप्रच्छैलो महायशाः ॥७॥ ऐल उवाच। स्वामिंस्त्वं गणराजस्य भक्तस्तादृशयोगधृक्। साक्षाद्गणपतिः किं वा त्वमेवात्र न संशयः ॥८॥ मयूरेशावतारे त्वं मयूरेशसमन्वितः। स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः ॥९॥ धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकम्। मित्रं कृत्वा सुहर्षेणाऽहो तिष्ठसि विशेषतः ॥१०॥ मयूरेशस्य विप्रेज्ञाज्ञया योगविदांवर। भाष्यं कृतं गणेशस्य गीतायाः

खं. ५ अ. ३४ पान ८१

शांतिदं परम् ॥११॥ त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः । बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥१२॥ यादृशं गणनाथेन कथितं तादृशं प्रभो । त्वया ज्ञातं न संदेहो गणेशस्त्वमतो मतः ॥१३॥ गणेशगीताहार्दं यद्गणेशश्च वरेण्यकः । त्वं त्रयः संमताः शास्त्रे जानते पूर्णयोगतः ॥१४॥ धन्येन येन भाग्येन दृष्टं ते पादपंकजम् । विद्याव्रत- तपोदानं पितरौ कुलमेव मे ॥१५॥ यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् । न ह्यल्पपुण्ययोगेन दर्शनं योगिनां भवेत् ॥१६॥ अधुना वद मे ब्रह्मन् गणेशस्य यथाविधि । पूजां बाह्यां तथाऽऽन्तर्यां गाणपत्यप्रकारतः ॥१७॥ एवं पृष्टो महायोगी गार्ग्यः सर्वार्थकोविदः । तं जगाद सुहर्षेण गाणपत्यो महायशाः ॥१८॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । गृत्समदस्य विप्रस्य चरित्रसंयुतं नृप ॥१९॥ वाचक्रविस्तपोनिष्ठो बभूव परमार्थवित् । तस्य पत्नी मुकुंदा वै रूपयौवनशालिनी ॥२०॥ वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागतः । रुक्मांगदो नृपो भूप मृगयासक्त- चेतसा ॥२१॥ क्षुधातृषायुतो राजा भ्रष्टसार्थो द्विजाश्रमम् । प्रविश्य तं प्रणम्यैव सस्त्रीकं संस्थितोऽभवत् ॥२२॥ तस्मिन् काले द्विजः सोऽपि मध्याह्ने कर्मकारणात् । निर्जगामाश्रमाद्वाचक्रविस्तस्मान् महायशाः ॥२३॥ गते मुनौ नृपस्तत्र जगाद देहि मे जलम् । मातर्मुकुंदे श्रांताय चाकुलाय क्षुधातृषा ॥२४॥ तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला । दृष्ट्वा नृपवरं तं च कामबाणार्दिताऽवदत् ॥२५॥ मुकुंदोवाच । त्वत्समं पुरुषं कापि न पश्यामि नृपात्मज । त्रैलोक्येऽतो महाभाग मां भजस्व सुविह्वलाम् ॥२६॥ नो चेत् प्राणा गमिष्यंति कामबाणैर्हता मम । इत्युक्त्वा तं नृपं सा तु चुचुंबे हठतत्परा ॥२७॥ ततोऽतिक्षोभितो राजा धृत्वा दूरे समाक्षिपत् । जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः ॥२८॥ रुक्मांगद उवाच । सर्वेषां गुरवो देवि ब्राह्मणा नात्र संशयः । पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि ॥२९॥ तत्र विघ्नेश्वरे सक्ता न चलंति कदाचन । परस्त्रियं समालोक्य मातृबुद्धिकरा मताः ॥३०॥ एवं निर्भर्त्स्य तां राजा निःसृतः शोकसंकुलः । आश्रमात् सा शशापैव तं नृपं काममोहिता ॥३१॥ कुष्ठी भव महादुष्ट सकामां त्यजसि श्रियम् । मोहितां पापकर्मा त्वं कठिनोऽसि सुदुर्मते ॥३२॥ तस्याः शापस्य योगेन श्वेतकुष्ठी बभूव ह । रुक्मांगदो वने गत्वा सस्मार द्विरदाननम् ॥३३॥ ततो रात्रौ महायोगी नारदस्तत्र चागतः । तं दृष्ट्वा प्रणनामादौ पप्रच्छ विनयान्वितः ॥३४॥ रुक्मांगद उवाच । कुष्ठनाशनकरं तीर्थं क्षेत्रमौषधमेव च । वद मे सर्वधर्मज्ञ गाणपत्यप्रिय प्रभो ॥३५॥ नारद उवाच । इंद्रेण तपसा देवो गणेशः

यहाँ पृष्ठ का मूल देवनागरी पाठ पंक्ति-दर-पंक्ति दिया गया है:

[शीर्षक] खं. ५ अ. ३४ | पान ८२ पूजितोऽभवत् । सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥३६॥ गणेशवरदानेन महेंद्रस्तेजसा युतः । योगयुक्तोऽपालयत त्रैलोक्यं सचराचरम् ॥३७॥ तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् । चिंतामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥३८॥ तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् । कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥३९॥ तत्र तीर्थप्रभावेण कुष्ठरोगविवर्जिताः । भवंति स्वानंदगास्तु नृप नास्त्यत्र संशयः ॥४०॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूव ह ॥४१॥ ततः प्रातः समायाता सेना तस्य महात्मनः । तया सार्द्धं जगामाऽसौ विदर्भे तीर्थसेवकः ॥४२॥ चिंतामणिभवं तीर्थं दृष्ट्वा राजा प्रजापते । कुष्ठहीनो बभूवाऽथ सर्वैः संहर्षितोऽभवत् ॥४३॥ ततः स्नात्वा ससैन्येन यथाविधियुतः स्वयम् । पूजयामास हर्षेण चिंतामणिं नृपात्मजः ॥४४॥ पूजयित्वा यथान्यायं दत्त्वा दानानि कृत्स्नशः । संस्थितो मंडपे राजा गणेशे भक्तिसंयुतः ॥४५॥ तत्राकस्माद्विमानं तु समायातं सुखप्रदम् । तत्र दूता गणेशस्य जगुस्तं नृपसत्तमम् ॥४६॥ गाणपत्या ऊचुः । इदं विमानमारुह्य ससैन्यो नृपसत्तम । चल स्वानंदलोके त्वं तीर्थस्नानप्रभावतः ॥४७॥ ततोऽतिहर्षसंयुक्तस्तान् प्रणम्य महायशाः । पूज्योवाच विचारज्ञो गाणपत्यो नृपात्मजः ॥४८॥ रुक्मांगद उवाच । भीमं मे गाणपत्यास्तु पितरं चारुहासिनीम् । मातरं त्यज्य विघ्नेशं कथं यामि त्वरान्वितः ॥४९॥ गाणेशानौ विशेषेण तथा तं ते समब्रुवन् । तयोः स्नानं नृपाध्यक्ष कुरु तीर्थेऽधुना किल ॥५०॥ ततस्तावपि नेष्यामो मा चिंतां कुरु सत्तम । स्नानमात्रेण स्वानंददायकं तीर्थमुच्यते ॥५१॥ ततोऽतिहर्षितो राजा कुशान् गृह्य तयोः पुनः । नाम्ना ग्रंथिं समाबध्य चक्रे स्नानं यथाविधि ॥५२॥ ततोऽतिहर्षिता लोका नगरस्थास्तथा पुनः । स्नानं चक्रुर्जनानां ते आबालं श्वपचावधि ॥५३॥ ततस्ते यानमारुह्य कौंडिन्यनगरं ययुः । पुण्यं दत्वा च तान् सर्वान् गृह्य स्वानंदमाययुः ॥५४॥ एवं तीर्थप्रभावेण नगरस्थजना नृप । गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे ॥५५॥ धर्मयुक्तो गणेशस्य भक्तो रुक्मांगदः स्वयम् । स्वल्पकालेन निर्विग्नो बभूव छलतोऽपि सः ॥५६॥ गणेशभक्तमत्युग्रं ये छलंति नराधमाः । तेषां तु निष्कृतिर्नास्ति दुःखं भुंजंति दारुणम् ॥५७॥ रुक्मांगदं मुकुंदा सा छलयित्वा विशेषतः । या गतिश्च तया प्राप्ता तां शृणुष्व महीपते ॥५८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते रुक्मांगदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ गार्ग्य उवाच। मुकुन्दा कामदग्धा सा पपात धरणीतले। न किंचित् सुखदं तस्या बभूव पृथिवीतले ॥१॥ ततोऽतिशोकसंयुक्ता तमेवाचिंत्य संस्थिता। निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥२॥ तस्याः शान्तिप्रदानार्थं स्वयं तत्राजगाम ह। रुक्मांगदस्वरूपी स बुभुजे तां सुराधिपः ॥३॥ सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता। इंद्रः स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥४॥ वाचक्रविः समायातः कृत्वा नित्यक्रियां मुनिः। न बुबोध मुकुंदायाश्चरितं स तपोरतः ॥५॥ ततः पूर्णे च गर्भे सा सुषुवे पुत्रमुत्तमम्। जातकर्मादिकं सर्वं चकार मुनिसत्तमः ॥६॥ गृत्समदेति पुत्रस्य नाम चक्रे सुखप्रदम्। चकार व्रतबंधं तु पंचमे हर्षसंयुतः ॥७॥ वेदानध्यापयामास श्रवणग्राहकाय वै। स्वयं तस्मै ददौ मंत्रं गणानां त्वेति ऋग्भवम् ॥८॥ तेन मंत्रेण विघ्नेशं ध्यात्वा गृत्समदो मुनिः। तोषयामास भावेन नित्यं जपपरायणः ॥९॥ कदाचित्तत्र राजा स मगधस्तं जुहाव च। पितुः श्राद्धे सुदांतं वै तपोयुक्तं यशस्विनम् ॥१०॥ तत्र वसिष्ठमुख्याश्च मुनयो योगपारगाः। समागताः सभायां ते विविशुः पूजिता नृप ॥११॥ तत्र शास्त्रप्रसंगे स गृत्समद उवाच ह। योगमयोगिभावस्थः श्रुत्वाऽत्रिसंतं वचोऽब्रवीत् ॥१२॥ अयोगी योगिनां मध्ये रुक्मांगदसुतस्तथा। वदसि त्वं न योग्योऽसि पंक्तौ गच्छ निजाश्रमम् ॥१३॥ ततोऽतिकोपसंयुक्तः स्वं गृत्समद आश्रमम्। जगाम सोऽपि जननी- मपृच्छद्रक्तलोचनः ॥१४॥ वद तातं मदीयं त्वं कामुके निरपत्रपे। कथं रुक्मांगदाज्जातोऽहं नोचेत्त्वां शपामि तु ॥१५॥ जगाद शापभीता तं ततः सा कंपसंयुता। वृत्तांतं पूर्वसंभूतं रुक्मांगदविहारजम् ॥१६॥ तच्छ्रुत्वा कोपसंयुक्तः शशाप जननीं सुतः। कंटकी भव मातस्त्वं दुष्टकर्मपरायणा ॥१७॥ अतितिक्तफलां तत्र भक्षिष्यंति नरा न ताम्। अरण्ये निंदिता नित्यं भुंक्ष्व पापं पुरा कृतम् ॥१८॥ ततः सापि स्वपुत्रं तं शशाप क्रोधपूरिता। त्वत्तः पुत्रो महादैत्यो भविष्यति सुदारुणः ॥१९॥ ततो देहं समुत्सृज्य मुकुंदा साऽभवन्नृप। कंटकी श्यामसज्ञा सा पापकर्मपरायणा ॥२०॥ गणेशभक्त- विक्षेपादतृत्वोदघमुत्तमम्। तया प्राप्तं चिरं पूर्णं तेन शापयुताऽभवत् ॥२१॥ कल्पे कल्पे च शापात् सा सदा वृक्षत्व- मागता। पश्य विघ्नस्वरूपं त्वं महाभयंकरं नृप ॥२२॥ ततो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः। तत आकाशवाणी तं जगाद प्रेमसंयुता ॥२३॥ इंद्रो रुक्मांगदीभूतस्तस्माज्जातोऽसि मानद। भज लंबोदरं नित्यं ततः सौख्यमवाप्स्यसि ॥२४॥ श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमम्। निराहारेण संस्थश्च गणेशमभजत् सदा ॥२५॥ ब्रह्मणस्पतिसूक्तैश्चा-

पान ८४ भिषिंचन् मंडले स्थितम् । जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥२६॥ ऐल उवाच । ब्रह्मणस्पतिसूक्तानां मंडलं कीदृशं स्मृतम् । फलं च कीदृशं तत्र लभते मानवः प्रभो ॥२७॥ कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे । येन विघ्नेश्वरः प्रीतो भवेत् सर्वार्थदायकः ॥२८॥ गार्ग्य उवाच । ब्रह्मणस्पतिसूक्तानां विधिं शृणु महामते । यथा गृत्समदः सिद्धो बभूवे तस्य सेवनात् ॥२९॥ गणानां त्वेति मंत्रेण षोडशांगेषु भूमिप । न्यासं कुर्यात्तथा पूज्याऽभिषेकं तु समाचरेत् ॥३०॥ एक- विंशतिभिर्भूपा वृत्तिभिरेकविंशतिः । समाख्याता च सूक्तानामभिषेके तथा जपे ॥३१॥ एतादृशाश्च राजेंद्र भवन्त्येकाधिका- स्ततः । विंशत्यो मंडलं ह्येकं ज्ञातव्यं विबुधैः परम् ॥३२॥ मंडलानि महाभाग एकविंशन्मितानि च । भवंति चेत् समाख्यातं महामंडलकं बुधैः ॥३३॥ अभिषेके समाख्यातं जपे वा राजसत्तम । सर्वसिद्धिप्रदं पूर्णं महामंडलकं सुरैः ॥३४॥ धर्मार्थकाममोक्षेषु प्रशस्तं कर्म सिद्धिदम् । गणेशप्रीतये भक्त्या ब्रह्मभूतकरं भवेत् ॥३५॥ ब्राह्मणत्वस्य कार्यार्थ कृतं तेन महात्मना । गृत्समदेन सूक्तानां महामंडलकं नृप ॥३६॥ एतत्ते कथितं भूपाधुना शृणु कथानकम् । विघ्नेशप्रापकं गृत्समदस्य दुरितापहम् ॥३७॥ स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथाविधि । गणानां त्वेति मंत्रेण पुपूज विघ्ननायकम् ॥३८॥ एकविंशतिमेकां स नित्यं चकार भूमिप । अभिषेकार्थमेवं तु ततो जपपरोऽभवत् ॥३९॥ गणानां त्वेति मंत्रस्य जपं चकार नित्यदा । शतानि ध्याननिष्ठः स सैकविंशतिकानि तु ॥४०॥ नासाग्रन्यस्तदृष्टिश्च सदा यत्नपरायणः । महोग्रतपसा देवं तोषयामास विघ्नपम् ॥४१॥ एवं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ । मुनिं तं भक्तवात्सल्यादुवाच ध्यानसंस्थितम् ॥४२॥ श्रीगणेश उवाच । पश्य मां मुनिशार्दूल ब्रह्मणस्पतिमागतम् । वरयस्व वरान् मत्तो दास्यामि तुभ्यमादरात् ॥४३॥ गणेश- वचनं श्रुत्वा गृत्समदः सुहर्षितः । उन्मील्य लोचने ढुंढिमपश्यन्निकटे स्थितम् ॥४४॥ ततोऽतिहर्षसंयुक्तः प्रणनाम विनायकम् । भक्त्या संपूज्य तुष्टाव साश्रुनेत्रो नराधिप ॥४५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गृत्समदगणेशसमागमो नाम पंचत्रिंशत्तमोऽध्यायः ॥

खं. ५ अ ३६ पान ८५

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥१॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥२॥ कर्तॄणां कर्तृरूपाय कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥३॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्न- प्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥४॥ सदा मोहयुतायैव मोहमोहकराय ते । जीवाय बृहतां नाथाय बृहस्पतये नमः ॥५॥ सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे । गुहाहिताय सांख्याय बृहस्पतिसखाय ते ॥६॥ स्वसंवेद्यमयायैव स्वानंदे योगधारिणे । जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥७॥ सत्यायायोगरूपाय मनोवाणीविवर्जित । भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥८॥ सर्वेषां पोषकायैव सोमायामृतरूपिणे । सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥९॥ उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च । त्रयीमयाय तुर्याय तुर्यातीताय ते नमः ॥१०॥ इंद्रादिदेवतानां वै सहायाय नमो नमः । धर्मपालकभावाय धर्माधीशाय ते नमः ॥११॥ सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः । अराज्याय परेशाय संसारार्णवतारिणे ॥१२॥ योगेभ्यो योगदात्रे च योगयोगाय ते नमः । शांतिदाय सदा शांतिस्थाय तत्पतये नमः ॥१३॥ इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः । तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥१४॥ किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् । भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥१५॥ एवं गृत्समदः स्तुत्वा गणेशानं महीपते । हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥१६॥ दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः । वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥१७॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न संदेहो मम भक्तिविवर्धनम् ॥१८॥ सदा शांतिमयो भूत्वा मां भजिष्यसि मानद । त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥१९॥ पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् । प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥२०॥ तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह । नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥२१॥ उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् । गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥२२॥ गृत्समद उवाच । धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः । विद्या व्रतादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥२३॥ अहो साक्षाद्गणेशानो ब्रह्मेंद्रो दृष्टिमागतः । मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥२४॥ एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् । तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥२५॥ ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः

अतो मां ब्राह्मणं नाथ कुरु योगींद्र वंद्यकम् ॥२६॥ यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् । नाथो भवामि विघ्नेश योगींद्राणां गुरोर्गुरुः ॥२७॥ त्वदीयपादपद्मे वै भक्तिं देहि गजानन । सुदृढां गाणपत्येषु संगं देहि सदा च मे ॥२८॥ गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः । गृत्समदंसमो नास्ति गाणपत्यस्वभावधृक् ॥२९॥ एवमुक्त्वा गणेशानं प्रण- नाम महामुनिः । तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥३०॥ श्रीगणेश उवाच । गणानां त्वेति मंत्रस्य जपः खलु कृतस्त्वया । सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥३१॥ ऋषिर्भव महाभाग गणानां त्वास्य मंत्रतः । सूक्तस्यापि विशेषेण ब्राह्मणेंद्रो भवापि तु ॥३२॥ आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति । पश्चान्म मे देवतायाश्च मुख्यो भव मदीयके ॥३३॥ न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने । मानयिष्यंति विप्रास्त्वामत्रिमुख्या न संशयः ॥३४॥ त्वदीयस्मरणं नास्ति मंत्रे वैदिकगे च मे । गणानां त्वा जपिष्यंति फलहीना भवंतु ते ॥३५॥ शिवविष्ण्वा- दयो देवा ब्रह्माद्या ब्राह्मणा नराः। शेषाद्याश्चासुराद्याश्च त्वां नमस्यंति नित्यदा ॥३६॥ त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् । त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥३७॥ त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् । भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥३८॥ भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद । तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥३९॥ यद्यच्चिंतयसि प्राज्ञ तत्तत्ते सफलं भवेत् । स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥४०॥ एवमुक्त्वाऽंतर्दधेऽसौ ब्रह्मणस्पतिरंजसा । स्वयं गृत्समदः खिन्नोऽभवत्तत्रैव संस्थितः ॥४१॥ ततः स ब्राह्मणैः सार्धं स्थापयामास विघ्नपम् । ब्रह्मणस्पतिनामानं चकार क्षेत्रसंस्थितम् ॥४२॥ ततो गृत्समदो योगी सर्वमान्यो बभूव ह । ब्रह्मणस्पतिभक्तश्च ब्राह्मणैः पूजितोऽभवत् ॥४३॥ यथा गजाननः प्राह तथा सर्वं बभूव ह । मुनिस्तत्र महीपालाऽभजतं स विनायकम् ॥४४॥ नित्यं च मानसीं पूजां बाह्यां चकार विप्रपः । गणेशस्याऽतिभक्तो गृत्समदः सर्वतो बभौ ॥४५॥ इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदम् । सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः ॥

खं. ५ अ. ३७ पान ८७

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । कथं नित्यं महायोगी गाणपत्याग्र्य एव च । महापूजां गृत्समदो द्विविधां प्रचकार ह ॥१॥ तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै । गणेशेन कृतो विप्रो ऋषिः स्वसूक्तकस्य च ॥२॥ गार्ग्य उवाच । शृणु तस्य मुनींद्रस्य चरित्रं भक्तिसंश्रितम् । यथा गजाननं सोऽप्यभजत्तं नित्यमादरात् ॥३॥ प्रातः काले समुत्थाय गुरुं नत्वा स्वमस्तके । मानस्या पूजया पूज्य तथा हृदि गणेश्वरम् ॥४॥ गाणेशांश्च तथा स्मृत्वा विभूतिरूपधारकान् । क्षमाप्य धरणीं पश्चात् पादं चिक्षेप विप्रपः ॥५॥ शौचाचारमशेषं च चकार शास्त्रमार्गतः । दंतकाष्ठं ततो भक्ष्य स्नानं चक्रे यथाविधि ॥६॥ आदावाभ्यंतरं स्नानं चकार शृणु तन्नृप । वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनम् ॥७॥ सहस्रारे समासीनं गजानन- मनामयम् । अंगुष्ठपर्वमात्रं तं प्रभुं ध्यायेच्चतुर्भुजम् ॥८॥ पाशांकुशधरं पूर्णं दंताभयसमन्वितम् । त्रिनेत्रं भूषणैर्युक्तमनर्घ्य- वस्त्रराजितम् ॥९॥ पादांगुष्ठाग्रसंभूतां तस्य तीर्थमयीं पराम् । सरितं चिंतयेत् पूर्णामासमंतात् प्रसारिणीम् ॥१०॥ सर्वांतर्गतजं पूर्णमज्ञानं मलरूपकम् । तया संक्षालयेच्चित्ते नृप सर्वगया सुधीः ॥११॥ एवमांतरगं स्नानं यः करोति नरोत्तमः । स सर्वमलहीनश्च भुक्तिं मुक्तिं लभेत् पराम् ॥१२॥ बाह्यं ततः समाख्यातं वैदिकं तांत्रिकं द्विधा । स्वशाखोक्तविधानेनादौ वैदिकं समाचरेत् ॥१३॥ ततः स्वमूलमंत्रेण युक्तं तांत्रिकमाचरेत् । स शुद्धः सर्वकर्मार्हो भवते देवतासमः ॥१४॥ एवं गृत्समदः सर्वं चकार राजसत्तम । गणेशप्रीतिकामार्थ भक्तियुक्तो महामुनिः ॥१५॥ शुचिवस्त्रे तथा गृह्य संध्यां चकार वैदिकीम् । तत आगमसंभूतां गाणेशीं सर्वसिद्धिदाम् ॥१६॥ तत्राचमनकं प्रोक्तं त्रिविधं विबुधोत्तमैः । वैदिकं तांत्रिकं पौराणिकं चैव सुसिद्धिदम् ॥१७॥ व्याहृत्या वैदिकं प्रोक्तं मूलमंत्रेण तांत्रिकम् । पौराणिकं चतुर्थ्यंतं गणेशनामसंयुतम् ॥१८॥ तत्र पौराणिकं वक्ष्ये महत् शुचिकरं शृणु । यथा गृत्समदो विप्रेंद्रश्चकार महायशाः ॥१९॥ गणेशो ढुंढिराजश्च हेरंबो वक्रतुंडकः । शूर्पकर्णश्च विघ्नेशश्चिंतामणिर्गजाननः ॥२०॥ लंबोदरश्चैकदंतो ब्रह्मणस्पतिरेव च । विनायको ज्येष्ठराजो विकटः कपिलस्तथा ॥२१॥ धरणीधर आशापूरको महोदरस्तथा । धूम्रकेतुर्मयूरेशः स्वानंदवासकारकः ॥२२॥ त्रिभिराचम्य हस्तौ वै द्वाभ्यां संक्षालयेन्नरः । द्वाभ्यामोष्ठौ संपुटं चैकेन वै संस्पृशंस्ततः ॥२३॥ पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप । द्वाभ्यां दक्षिणवामे तु नासिके संस्पृशोत्ततः ॥२४॥ द्वाभ्यां नेत्रे तथा कर्णौ नाभिं चैकेन हृत्तथा । ललाटमेकनाम्ना तु बाहू चैकेन संस्पृशेत् ॥२५॥ जलयुक्तेन नाम्ना यो नरश्चैवं समाचरेत् । आचमनं

भवेत् साक्षाद्गणेशो भूमिमंडले ॥२६॥ ततो न्यासादिकं कुर्यात् कलाशस्थापनं चेरेत् । पीठपूजां ततः कृत्वा मंत्रन्यासं समाचरेत् ॥२७॥ आगमोक्तेन मार्गेण मुनिर्गृत्समदो महान् । चकार सकलं राजन् देवतुल्योऽपि नित्यशः ॥२८॥ ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीम् । स्थिरचित्तेन योगीशो गणेशस्य विधानवित् ॥२९॥ मानस्यां स्थिरचित्तत्वं कारणं परमं मतम् । न वर्णाश्रमभागश्च वर्तते नृपसत्तम ॥३०॥ वर्णाश्रमयुतानां चात्रावर्णाश्रमरूपिणाम् । अधिकारः सदा शास्त्रे वर्तते स्थिरचेतसाम् ॥३१॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद् उवाच । विघ्नेश वीर्याणि विचित्रकाणि सुमागधैर्बन्दिजनैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलं कुरुष्व ॥१॥ एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमंति देवाः शंभ्वादयो योगिमुखास्तथाऽहम् ॥२॥ शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोञ्छ्य मुखारविंदं देवं सभायां विनिवेशयामि ॥३॥ द्विजादिसर्वैरभिवंदितं च शुकादिभिर्मोदसुमोदकाद्यैः । संभाष्य चालोक्य समुत्थितं तं सुमंडपं कल्प्य निवेशयामि ॥४॥ रत्नैः सुदीप्तैः प्रतिबिंबितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं संकल्प्य देवं विनिवेशयामि ॥५॥ सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । तोयं सुवासै रचितं गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥६॥ शुद्धेन वस्त्रेण गणेश पादौ संप्रोञ्छ्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबंधो चित्तं विलीनं कुरु ते पदाब्जे ॥७॥ कर्पूरैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव । गजानन त्वं कृपाकटाक्षेण विलोकयाऽऽशु ॥८॥ प्रवालमुक्ताफलहारकाद्यैः सुसंस्कृतं ह्यंतरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुंढे ॥९॥ शुद्धं त्रियुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण । तोयेन चाचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥१०॥ द्रव्यैर्युतं चंपकजातिकाद्यैः तैलं मया कल्पितमेव ढुंढे । दत्तं गृहाणाऽऽशु विमर्दयामि

खं. ५ अ. ३८ पान ८९ सर्वांगमानंदद सेवनाय ॥११॥ देवं सुखोष्णेन जलेन चाऽहं सर्वाघतीर्थाहृतकेन ढुंढिम् । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥१२॥ ततः पयःस्नानमचिंत्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामय त्वं प्रकल्पितं नाथ जलस्य चाथ ॥१३॥ ततो घृतस्नानमपारवंच सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥१४॥ सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुंढे । ततो जलस्नानमघापहंतर्गणेश मायाभ्रमवारणाशु ॥१५॥ सुयक्षपंकस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । कमंडलौ संभवजं कुरुष्व स्नानं विशुद्धं परिकल्पितं ते ॥१६॥ दुग्धेन सूक्तैर्मनसा सुतीर्थैः संपूज्य दूर्वादिभिरल्पभावैः । संख्यातिगैर्मडलभूतब्राह्मणस्पत्यकैस्त्वामभिषेचयामि ॥१७॥ ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन चाचांतमेव ढुंढे कुरु विघ्नराज ॥१८॥ अग्नौ विशुद्धे प्रगृहाण वस्त्रे मौल्यातिगे ते मनसा मया वै। दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥१९॥ आचम्य विघ्नेश पुनस्त्वमेवं चित्तेन दत्तं सुखमुत्तरीयम् । भक्त्या गृहाण प्रतिपालयाऽऽशु नभो यथा तारकसंयुतं किम् ॥२०॥ यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्त्वं सौत्रं गृहाणोद्धतिकारणाय ॥२१॥ आचांतमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुंढे । भावेन कामंडलवेन पाहि विश्वं प्रभो खेलकृतं सदा ते ॥२२॥ उद्यदिनेशाभमथो गृहाण सिंदूरकं ते मनसा प्रदत्तम् । सर्वांगसंलेपनमादरात्त्वं हेरंब चित्तेन कुरुष्व पूर्णम् ॥२३॥ साहस्रशीर्ष मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनंतरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥२४॥ विचित्ररत्नैः कनकेन ढुंढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुंडलानि गृहाण शूर्पश्रुतिभूषणाय ॥२५॥ शुंडाविभूषार्थमनंतखेलिन् सुवर्णजं कंचुकमागृहाण । रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥२६॥ सुवर्णरत्नैश्च युतानि संप्रकल्प्यैकदंताभरणानि ढुंढे । गृहाण चूडाकृतिनी परेश समर्पिते ते रदशोभनार्थम् ॥२७॥ रत्नैः सुवर्णेन कृतानि यानि चत्वारिसंकल्प्य गृहाण तानि । संभूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥२८॥ विचित्ररत्नैः खचितं सुवर्णसंभूतकं गृह्य मया प्रदत्तम् । तथांगुलिष्वेव यदंगुलीयं गणेश संशोभय तत्परेश ॥२९॥ रत्नैर्विचित्रैः खचितानि ढुंढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥३०॥ प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाण कंठे । चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज ॥३१॥

चंद्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥३२॥ चिंतामणिं चिंतितदं परेश हृद्देशगं कांतिमयं कुरुष्व । मणिं सदानंदसुखप्रदं च विघ्नेश दीननाथ पालयस्व ॥३३॥ नाभौ फणीशं च सहस्रशीर्ष संवेष्टनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन दत्तं वरं तं सफलं परेश ॥३४॥ देशे कटौ रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपिनीं ते पाहि प्रभक्तं कुरु मां दयाब्धे ॥३५॥ गणेश ते रत्नसुवर्णयुक्ते मंजीरके नूपुरके तथैव । सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥३६॥ इत्यादि नानाविधभूषणानि भक्तेच्छया मानसकल्पितानि । सुभूषयाम्येव तवांगकेषु रत्नादिधातुप्रभवाणि ढुंढे ॥३७॥ सुचंदनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टसुगंधमुख्यैः । मया युतं कल्पितमेकदंत गृहाण ते त्वंगविलेपनार्थम् ॥३८॥ लिप्तेषु वैचित्रमथाष्टगंधैरंगेषु तेऽहं प्रकरोमि चित्रम् । मां पाहि चित्तेन विनायक त्वं रक्तं ततो वर्तुलमेव भाले ॥३९॥ आज्येन वै कुंकुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबंधो ॥४०॥ गृहाण भोश्चंपकमालतीस्थलपंकजान्यंबुजपंकजानि । मया प्रदत्तानि च मल्लिकाश्च गणेश पुष्पाणि च रक्तकानि ॥४१॥ पुष्पोपरि त्वं मनसा गृहाण हेरंब मंदारशमीदलानि । दत्तानि चित्तेन सुकल्पितानि संख्यातिगानि प्रणवाकृते ते ॥४२॥ दूर्वांकुरान् वै मनसा प्रदत्तान् पंचत्रिपत्रान्वितकार्द्रभूतान् । श्वेतांश्च विघ्नेश्वर संख्यया त्वं हीनांश्च सर्वोपरि संगृहाण ॥४३॥ दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज चाग्रौ । मां पाहि सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह संगृहाण ॥४४॥ दीपं सुवर्त्यायुतमादरात्ते दत्तं मया मानसं गृहाण । विघ्नेश कर्पूरभवं गृहाण तैलादिसंभूतममोघदृष्टे ॥४५॥ भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् । हेरंब नैवेद्यमथो गृहाण संकल्पितं पुष्टिपते ह्यपारम् ॥४६॥ सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । सदात्मतीर्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥४७॥ ततः करोद्वर्तनकं गृहाण सुगंधयुक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुंढे ॥४८॥ आचम्य सर्वेश सुवासितं च दत्तं मया तीर्थजलं पिबस्व । संकल्प्य विघ्नेश ततः परं ते संप्रोञ्छनं हस्तमुखे करोमि ॥४९॥ द्राक्षादिरंभा- फलचूतकानि खर्जूरकर्कन्धुकदाडिमानि । स्वादेन युक्तानि मया गृहाण संकल्प्य दत्तानि फलानि ढुंढे ॥५०॥ पुनर्जलेनैव करादिकं क्षालयामि तेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥५१॥ अष्टांगयुक्तं

खं. ५ अ. ३८ पान ९१


गणनाथ दत्तं तांबूलकं ते मनसा मया वै । सुकल्प्य विघ्नेश्वर संगृहाण नाथासकृत्तुंडविशोधनार्थम् ॥५२॥ ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । शमीशकार्पासकयुक्तवस्त्रैरनर्घ्यसंछादितके प्रसीद ॥५३॥ भक्त्या त्वदीयावरणं परेश संपूजयामि मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबंधो ॥५४॥ गृहाण लंबोदर दक्षिणां ताम- संख्यभूतां मनसा प्रदत्ताम् । सुवर्णरत्नादिकमुख्यभूतां प्रभो जगत्कृत्स्नमिदं सुपाहि ॥५५॥ राजोपचारान्विविधान् गृहाण छत्राश्वहस्त्यादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुंढे ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥५६॥ दानस्य नानाविधरूपकांस्ते दत्तान् मया वै मनसा गृहाण । गोभूमिकाद्यान् स्थिरजंगमांश्च हेरंब मां तारय मोहभावात् ॥५७॥ मंदारपुष्पाणि शमी- दलानि दूर्वांकुरांस्ते मनसा ददामि । हेरंब लंबोदर दीनपाल संगृह्य भक्तं कुरु मां पदस्ते ॥५८॥ ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मोश्वर शोभनार्थम् ॥५९॥ ततः शुकाद्याः शिवविष्णुमुख्या- मराधिपाः शेषमुखास्तथान्ये । मुनींद्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमंति ढुंढिम् ॥६०॥ वामांगके भक्तियुता गणेशं सिद्धिश्च नानाविधसिद्धिभिस्तम् । अत्यंतभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥६१॥ ब्रह्मोश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेश माया सुसांख्यप्रदचित्तरूपा ॥६२॥ प्रमोद्रमुख्याः प्रभुपृष्ठभागे गणेश्वरं भावयुता भजंते । भक्तेश्वरा मुद्गलशांभुमुख्याः शुकादयस्तं स्म पुरो भजंते ॥६३ ॥ गंधर्वमुख्या मधुरं जगुश्च विश्वेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥६४॥ इत्यादि नानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निराजनं वै करोमि नानाविधदीपयुक्तम् ॥६५॥ चतुर्भुजं पाशधरं गणेशं तथाऽण्ड्कुशं वै दधतं च दंतम् । त्रिनेत्रयुक्तं ह्यभयंधरं तं महोदरं चैकरदं गजास्यम् ॥६६॥ सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् । ध्याये गणेशं विविधप्रकारैः संपूजितं शक्तियुतं परेशम् ॥६७॥ ततो जपं वै मनसा करोमि स्वमूलमंत्रस्य विधानयुक्तम् । असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुंढे ॥६८॥ आरातिकं त्वेतदपारदीपं कर्पूरभूतं प्रकरोमि पूर्णम् । चित्तेन लंबोदर तत् गृहाण ह्यज्ञानध्वांताघहरं निजानाम् ॥६९॥ गणेश वैघ्नेश्वरकैः सुमंत्रैः सुमंत्रितं पुष्पदलप्रभूतम् । गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मंत्रपुष्पम् ॥७०॥ अनंतवृत्त्या स्तुतिमेकदंत विघ्नेश चित्तेन कृतां गृहाण । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया वै ॥७१॥ प्रदक्षिणा मानसकल्पितास्ता


खं. ५ अ. ३८ पान ९२ गृहाण लंबोदर भावयुक्ताः । असंख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥७२॥ नतिं ततो विघ्नपते गृहाण साष्टांगकायां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥७३॥ न्यूना- तिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण । दूर्वांकुरान् विघ्नपते प्रदत्तान् संपूर्णमेवं कुरु पूजनं मे ॥७४॥ क्षमस्व विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् । मदीयभक्तिं सफलां कुरुष्व संप्रार्थयेऽहं मनसा गणेश ॥७५॥ मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवंद्यम् । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥ गणेश उत्थाय सभां विहाय गतस्ततस्त्वंतरधामशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिंतयामि ॥७७॥ सर्वान्नमसकृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥७८॥ एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महांतम् ॥७९॥ विघ्नेशपादोदकपानकं मे तत्यक्तगंधस्य सुलेपनं तु । निर्माल्यसंधारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥ करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥८१॥ शय्यामनर्घां परिकल्पयामि मंदारकार्पासकवस्त्रयुक्ताम् । नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु संगृहाण ॥८२॥ सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥ एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते रसलालसोऽहम् ॥८४॥ गार्ग्य उवाच । एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगींद्राणां गुरुः स्वयम् ॥८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपतयो भविष्यति ॥८६॥ श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥८७॥ यद्यदिच्छति तत्तद्वै सफलं तस्य जायते । अंते स्वानंदगः सोऽपि योगिवंद्यो भविष्यति ॥८८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥