भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 620, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 620

खं. ५ अ. ३८ पान ९१


गणनाथ दत्तं तांबूलकं ते मनसा मया वै । सुकल्प्य विघ्नेश्वर संगृहाण नाथासकृत्तुंडविशोधनार्थम् ॥५२॥ ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । शमीशकार्पासकयुक्तवस्त्रैरनर्घ्यसंछादितके प्रसीद ॥५३॥ भक्त्या त्वदीयावरणं परेश संपूजयामि मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबंधो ॥५४॥ गृहाण लंबोदर दक्षिणां ताम- संख्यभूतां मनसा प्रदत्ताम् । सुवर्णरत्नादिकमुख्यभूतां प्रभो जगत्कृत्स्नमिदं सुपाहि ॥५५॥ राजोपचारान्विविधान् गृहाण छत्राश्वहस्त्यादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुंढे ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥५६॥ दानस्य नानाविधरूपकांस्ते दत्तान् मया वै मनसा गृहाण । गोभूमिकाद्यान् स्थिरजंगमांश्च हेरंब मां तारय मोहभावात् ॥५७॥ मंदारपुष्पाणि शमी- दलानि दूर्वांकुरांस्ते मनसा ददामि । हेरंब लंबोदर दीनपाल संगृह्य भक्तं कुरु मां पदस्ते ॥५८॥ ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मोश्वर शोभनार्थम् ॥५९॥ ततः शुकाद्याः शिवविष्णुमुख्या- मराधिपाः शेषमुखास्तथान्ये । मुनींद्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमंति ढुंढिम् ॥६०॥ वामांगके भक्तियुता गणेशं सिद्धिश्च नानाविधसिद्धिभिस्तम् । अत्यंतभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥६१॥ ब्रह्मोश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेश माया सुसांख्यप्रदचित्तरूपा ॥६२॥ प्रमोद्रमुख्याः प्रभुपृष्ठभागे गणेश्वरं भावयुता भजंते । भक्तेश्वरा मुद्गलशांभुमुख्याः शुकादयस्तं स्म पुरो भजंते ॥६३ ॥ गंधर्वमुख्या मधुरं जगुश्च विश्वेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥६४॥ इत्यादि नानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निराजनं वै करोमि नानाविधदीपयुक्तम् ॥६५॥ चतुर्भुजं पाशधरं गणेशं तथाऽण्ड्कुशं वै दधतं च दंतम् । त्रिनेत्रयुक्तं ह्यभयंधरं तं महोदरं चैकरदं गजास्यम् ॥६६॥ सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् । ध्याये गणेशं विविधप्रकारैः संपूजितं शक्तियुतं परेशम् ॥६७॥ ततो जपं वै मनसा करोमि स्वमूलमंत्रस्य विधानयुक्तम् । असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुंढे ॥६८॥ आरातिकं त्वेतदपारदीपं कर्पूरभूतं प्रकरोमि पूर्णम् । चित्तेन लंबोदर तत् गृहाण ह्यज्ञानध्वांताघहरं निजानाम् ॥६९॥ गणेश वैघ्नेश्वरकैः सुमंत्रैः सुमंत्रितं पुष्पदलप्रभूतम् । गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मंत्रपुष्पम् ॥७०॥ अनंतवृत्त्या स्तुतिमेकदंत विघ्नेश चित्तेन कृतां गृहाण । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया वै ॥७१॥ प्रदक्षिणा मानसकल्पितास्ता