भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 619, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 619

चंद्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥३२॥ चिंतामणिं चिंतितदं परेश हृद्देशगं कांतिमयं कुरुष्व । मणिं सदानंदसुखप्रदं च विघ्नेश दीननाथ पालयस्व ॥३३॥ नाभौ फणीशं च सहस्रशीर्ष संवेष्टनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन दत्तं वरं तं सफलं परेश ॥३४॥ देशे कटौ रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपिनीं ते पाहि प्रभक्तं कुरु मां दयाब्धे ॥३५॥ गणेश ते रत्नसुवर्णयुक्ते मंजीरके नूपुरके तथैव । सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥३६॥ इत्यादि नानाविधभूषणानि भक्तेच्छया मानसकल्पितानि । सुभूषयाम्येव तवांगकेषु रत्नादिधातुप्रभवाणि ढुंढे ॥३७॥ सुचंदनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टसुगंधमुख्यैः । मया युतं कल्पितमेकदंत गृहाण ते त्वंगविलेपनार्थम् ॥३८॥ लिप्तेषु वैचित्रमथाष्टगंधैरंगेषु तेऽहं प्रकरोमि चित्रम् । मां पाहि चित्तेन विनायक त्वं रक्तं ततो वर्तुलमेव भाले ॥३९॥ आज्येन वै कुंकुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबंधो ॥४०॥ गृहाण भोश्चंपकमालतीस्थलपंकजान्यंबुजपंकजानि । मया प्रदत्तानि च मल्लिकाश्च गणेश पुष्पाणि च रक्तकानि ॥४१॥ पुष्पोपरि त्वं मनसा गृहाण हेरंब मंदारशमीदलानि । दत्तानि चित्तेन सुकल्पितानि संख्यातिगानि प्रणवाकृते ते ॥४२॥ दूर्वांकुरान् वै मनसा प्रदत्तान् पंचत्रिपत्रान्वितकार्द्रभूतान् । श्वेतांश्च विघ्नेश्वर संख्यया त्वं हीनांश्च सर्वोपरि संगृहाण ॥४३॥ दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज चाग्रौ । मां पाहि सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह संगृहाण ॥४४॥ दीपं सुवर्त्यायुतमादरात्ते दत्तं मया मानसं गृहाण । विघ्नेश कर्पूरभवं गृहाण तैलादिसंभूतममोघदृष्टे ॥४५॥ भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् । हेरंब नैवेद्यमथो गृहाण संकल्पितं पुष्टिपते ह्यपारम् ॥४६॥ सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । सदात्मतीर्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥४७॥ ततः करोद्वर्तनकं गृहाण सुगंधयुक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुंढे ॥४८॥ आचम्य सर्वेश सुवासितं च दत्तं मया तीर्थजलं पिबस्व । संकल्प्य विघ्नेश ततः परं ते संप्रोञ्छनं हस्तमुखे करोमि ॥४९॥ द्राक्षादिरंभा- फलचूतकानि खर्जूरकर्कन्धुकदाडिमानि । स्वादेन युक्तानि मया गृहाण संकल्प्य दत्तानि फलानि ढुंढे ॥५०॥ पुनर्जलेनैव करादिकं क्षालयामि तेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥५१॥ अष्टांगयुक्तं