भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 618, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 618

खं. ५ अ. ३८ पान ८९ सर्वांगमानंदद सेवनाय ॥११॥ देवं सुखोष्णेन जलेन चाऽहं सर्वाघतीर्थाहृतकेन ढुंढिम् । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥१२॥ ततः पयःस्नानमचिंत्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामय त्वं प्रकल्पितं नाथ जलस्य चाथ ॥१३॥ ततो घृतस्नानमपारवंच सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥१४॥ सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुंढे । ततो जलस्नानमघापहंतर्गणेश मायाभ्रमवारणाशु ॥१५॥ सुयक्षपंकस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । कमंडलौ संभवजं कुरुष्व स्नानं विशुद्धं परिकल्पितं ते ॥१६॥ दुग्धेन सूक्तैर्मनसा सुतीर्थैः संपूज्य दूर्वादिभिरल्पभावैः । संख्यातिगैर्मडलभूतब्राह्मणस्पत्यकैस्त्वामभिषेचयामि ॥१७॥ ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन चाचांतमेव ढुंढे कुरु विघ्नराज ॥१८॥ अग्नौ विशुद्धे प्रगृहाण वस्त्रे मौल्यातिगे ते मनसा मया वै। दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥१९॥ आचम्य विघ्नेश पुनस्त्वमेवं चित्तेन दत्तं सुखमुत्तरीयम् । भक्त्या गृहाण प्रतिपालयाऽऽशु नभो यथा तारकसंयुतं किम् ॥२०॥ यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्त्वं सौत्रं गृहाणोद्धतिकारणाय ॥२१॥ आचांतमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुंढे । भावेन कामंडलवेन पाहि विश्वं प्रभो खेलकृतं सदा ते ॥२२॥ उद्यदिनेशाभमथो गृहाण सिंदूरकं ते मनसा प्रदत्तम् । सर्वांगसंलेपनमादरात्त्वं हेरंब चित्तेन कुरुष्व पूर्णम् ॥२३॥ साहस्रशीर्ष मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनंतरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥२४॥ विचित्ररत्नैः कनकेन ढुंढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुंडलानि गृहाण शूर्पश्रुतिभूषणाय ॥२५॥ शुंडाविभूषार्थमनंतखेलिन् सुवर्णजं कंचुकमागृहाण । रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥२६॥ सुवर्णरत्नैश्च युतानि संप्रकल्प्यैकदंताभरणानि ढुंढे । गृहाण चूडाकृतिनी परेश समर्पिते ते रदशोभनार्थम् ॥२७॥ रत्नैः सुवर्णेन कृतानि यानि चत्वारिसंकल्प्य गृहाण तानि । संभूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥२८॥ विचित्ररत्नैः खचितं सुवर्णसंभूतकं गृह्य मया प्रदत्तम् । तथांगुलिष्वेव यदंगुलीयं गणेश संशोभय तत्परेश ॥२९॥ रत्नैर्विचित्रैः खचितानि ढुंढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥३०॥ प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाण कंठे । चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज ॥३१॥