भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 617, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 617

भवेत् साक्षाद्गणेशो भूमिमंडले ॥२६॥ ततो न्यासादिकं कुर्यात् कलाशस्थापनं चेरेत् । पीठपूजां ततः कृत्वा मंत्रन्यासं समाचरेत् ॥२७॥ आगमोक्तेन मार्गेण मुनिर्गृत्समदो महान् । चकार सकलं राजन् देवतुल्योऽपि नित्यशः ॥२८॥ ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीम् । स्थिरचित्तेन योगीशो गणेशस्य विधानवित् ॥२९॥ मानस्यां स्थिरचित्तत्वं कारणं परमं मतम् । न वर्णाश्रमभागश्च वर्तते नृपसत्तम ॥३०॥ वर्णाश्रमयुतानां चात्रावर्णाश्रमरूपिणाम् । अधिकारः सदा शास्त्रे वर्तते स्थिरचेतसाम् ॥३१॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद् उवाच । विघ्नेश वीर्याणि विचित्रकाणि सुमागधैर्बन्दिजनैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलं कुरुष्व ॥१॥ एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमंति देवाः शंभ्वादयो योगिमुखास्तथाऽहम् ॥२॥ शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोञ्छ्य मुखारविंदं देवं सभायां विनिवेशयामि ॥३॥ द्विजादिसर्वैरभिवंदितं च शुकादिभिर्मोदसुमोदकाद्यैः । संभाष्य चालोक्य समुत्थितं तं सुमंडपं कल्प्य निवेशयामि ॥४॥ रत्नैः सुदीप्तैः प्रतिबिंबितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं संकल्प्य देवं विनिवेशयामि ॥५॥ सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । तोयं सुवासै रचितं गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥६॥ शुद्धेन वस्त्रेण गणेश पादौ संप्रोञ्छ्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबंधो चित्तं विलीनं कुरु ते पदाब्जे ॥७॥ कर्पूरैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव । गजानन त्वं कृपाकटाक्षेण विलोकयाऽऽशु ॥८॥ प्रवालमुक्ताफलहारकाद्यैः सुसंस्कृतं ह्यंतरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुंढे ॥९॥ शुद्धं त्रियुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण । तोयेन चाचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥१०॥ द्रव्यैर्युतं चंपकजातिकाद्यैः तैलं मया कल्पितमेव ढुंढे । दत्तं गृहाणाऽऽशु विमर्दयामि