भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 616, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 616

खं. ५ अ. ३७ पान ८७

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । कथं नित्यं महायोगी गाणपत्याग्र्य एव च । महापूजां गृत्समदो द्विविधां प्रचकार ह ॥१॥ तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै । गणेशेन कृतो विप्रो ऋषिः स्वसूक्तकस्य च ॥२॥ गार्ग्य उवाच । शृणु तस्य मुनींद्रस्य चरित्रं भक्तिसंश्रितम् । यथा गजाननं सोऽप्यभजत्तं नित्यमादरात् ॥३॥ प्रातः काले समुत्थाय गुरुं नत्वा स्वमस्तके । मानस्या पूजया पूज्य तथा हृदि गणेश्वरम् ॥४॥ गाणेशांश्च तथा स्मृत्वा विभूतिरूपधारकान् । क्षमाप्य धरणीं पश्चात् पादं चिक्षेप विप्रपः ॥५॥ शौचाचारमशेषं च चकार शास्त्रमार्गतः । दंतकाष्ठं ततो भक्ष्य स्नानं चक्रे यथाविधि ॥६॥ आदावाभ्यंतरं स्नानं चकार शृणु तन्नृप । वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनम् ॥७॥ सहस्रारे समासीनं गजानन- मनामयम् । अंगुष्ठपर्वमात्रं तं प्रभुं ध्यायेच्चतुर्भुजम् ॥८॥ पाशांकुशधरं पूर्णं दंताभयसमन्वितम् । त्रिनेत्रं भूषणैर्युक्तमनर्घ्य- वस्त्रराजितम् ॥९॥ पादांगुष्ठाग्रसंभूतां तस्य तीर्थमयीं पराम् । सरितं चिंतयेत् पूर्णामासमंतात् प्रसारिणीम् ॥१०॥ सर्वांतर्गतजं पूर्णमज्ञानं मलरूपकम् । तया संक्षालयेच्चित्ते नृप सर्वगया सुधीः ॥११॥ एवमांतरगं स्नानं यः करोति नरोत्तमः । स सर्वमलहीनश्च भुक्तिं मुक्तिं लभेत् पराम् ॥१२॥ बाह्यं ततः समाख्यातं वैदिकं तांत्रिकं द्विधा । स्वशाखोक्तविधानेनादौ वैदिकं समाचरेत् ॥१३॥ ततः स्वमूलमंत्रेण युक्तं तांत्रिकमाचरेत् । स शुद्धः सर्वकर्मार्हो भवते देवतासमः ॥१४॥ एवं गृत्समदः सर्वं चकार राजसत्तम । गणेशप्रीतिकामार्थ भक्तियुक्तो महामुनिः ॥१५॥ शुचिवस्त्रे तथा गृह्य संध्यां चकार वैदिकीम् । तत आगमसंभूतां गाणेशीं सर्वसिद्धिदाम् ॥१६॥ तत्राचमनकं प्रोक्तं त्रिविधं विबुधोत्तमैः । वैदिकं तांत्रिकं पौराणिकं चैव सुसिद्धिदम् ॥१७॥ व्याहृत्या वैदिकं प्रोक्तं मूलमंत्रेण तांत्रिकम् । पौराणिकं चतुर्थ्यंतं गणेशनामसंयुतम् ॥१८॥ तत्र पौराणिकं वक्ष्ये महत् शुचिकरं शृणु । यथा गृत्समदो विप्रेंद्रश्चकार महायशाः ॥१९॥ गणेशो ढुंढिराजश्च हेरंबो वक्रतुंडकः । शूर्पकर्णश्च विघ्नेशश्चिंतामणिर्गजाननः ॥२०॥ लंबोदरश्चैकदंतो ब्रह्मणस्पतिरेव च । विनायको ज्येष्ठराजो विकटः कपिलस्तथा ॥२१॥ धरणीधर आशापूरको महोदरस्तथा । धूम्रकेतुर्मयूरेशः स्वानंदवासकारकः ॥२२॥ त्रिभिराचम्य हस्तौ वै द्वाभ्यां संक्षालयेन्नरः । द्वाभ्यामोष्ठौ संपुटं चैकेन वै संस्पृशंस्ततः ॥२३॥ पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप । द्वाभ्यां दक्षिणवामे तु नासिके संस्पृशोत्ततः ॥२४॥ द्वाभ्यां नेत्रे तथा कर्णौ नाभिं चैकेन हृत्तथा । ललाटमेकनाम्ना तु बाहू चैकेन संस्पृशेत् ॥२५॥ जलयुक्तेन नाम्ना यो नरश्चैवं समाचरेत् । आचमनं