भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 615, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 615

अतो मां ब्राह्मणं नाथ कुरु योगींद्र वंद्यकम् ॥२६॥ यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् । नाथो भवामि विघ्नेश योगींद्राणां गुरोर्गुरुः ॥२७॥ त्वदीयपादपद्मे वै भक्तिं देहि गजानन । सुदृढां गाणपत्येषु संगं देहि सदा च मे ॥२८॥ गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः । गृत्समदंसमो नास्ति गाणपत्यस्वभावधृक् ॥२९॥ एवमुक्त्वा गणेशानं प्रण- नाम महामुनिः । तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥३०॥ श्रीगणेश उवाच । गणानां त्वेति मंत्रस्य जपः खलु कृतस्त्वया । सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥३१॥ ऋषिर्भव महाभाग गणानां त्वास्य मंत्रतः । सूक्तस्यापि विशेषेण ब्राह्मणेंद्रो भवापि तु ॥३२॥ आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति । पश्चान्म मे देवतायाश्च मुख्यो भव मदीयके ॥३३॥ न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने । मानयिष्यंति विप्रास्त्वामत्रिमुख्या न संशयः ॥३४॥ त्वदीयस्मरणं नास्ति मंत्रे वैदिकगे च मे । गणानां त्वा जपिष्यंति फलहीना भवंतु ते ॥३५॥ शिवविष्ण्वा- दयो देवा ब्रह्माद्या ब्राह्मणा नराः। शेषाद्याश्चासुराद्याश्च त्वां नमस्यंति नित्यदा ॥३६॥ त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् । त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥३७॥ त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् । भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥३८॥ भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद । तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥३९॥ यद्यच्चिंतयसि प्राज्ञ तत्तत्ते सफलं भवेत् । स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥४०॥ एवमुक्त्वाऽंतर्दधेऽसौ ब्रह्मणस्पतिरंजसा । स्वयं गृत्समदः खिन्नोऽभवत्तत्रैव संस्थितः ॥४१॥ ततः स ब्राह्मणैः सार्धं स्थापयामास विघ्नपम् । ब्रह्मणस्पतिनामानं चकार क्षेत्रसंस्थितम् ॥४२॥ ततो गृत्समदो योगी सर्वमान्यो बभूव ह । ब्रह्मणस्पतिभक्तश्च ब्राह्मणैः पूजितोऽभवत् ॥४३॥ यथा गजाननः प्राह तथा सर्वं बभूव ह । मुनिस्तत्र महीपालाऽभजतं स विनायकम् ॥४४॥ नित्यं च मानसीं पूजां बाह्यां चकार विप्रपः । गणेशस्याऽतिभक्तो गृत्समदः सर्वतो बभौ ॥४५॥ इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदम् । सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः ॥