भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 614, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 614

खं. ५ अ ३६ पान ८५

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥१॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥२॥ कर्तॄणां कर्तृरूपाय कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥३॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्न- प्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥४॥ सदा मोहयुतायैव मोहमोहकराय ते । जीवाय बृहतां नाथाय बृहस्पतये नमः ॥५॥ सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे । गुहाहिताय सांख्याय बृहस्पतिसखाय ते ॥६॥ स्वसंवेद्यमयायैव स्वानंदे योगधारिणे । जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥७॥ सत्यायायोगरूपाय मनोवाणीविवर्जित । भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥८॥ सर्वेषां पोषकायैव सोमायामृतरूपिणे । सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥९॥ उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च । त्रयीमयाय तुर्याय तुर्यातीताय ते नमः ॥१०॥ इंद्रादिदेवतानां वै सहायाय नमो नमः । धर्मपालकभावाय धर्माधीशाय ते नमः ॥११॥ सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः । अराज्याय परेशाय संसारार्णवतारिणे ॥१२॥ योगेभ्यो योगदात्रे च योगयोगाय ते नमः । शांतिदाय सदा शांतिस्थाय तत्पतये नमः ॥१३॥ इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः । तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥१४॥ किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् । भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥१५॥ एवं गृत्समदः स्तुत्वा गणेशानं महीपते । हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥१६॥ दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः । वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥१७॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न संदेहो मम भक्तिविवर्धनम् ॥१८॥ सदा शांतिमयो भूत्वा मां भजिष्यसि मानद । त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥१९॥ पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् । प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥२०॥ तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह । नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥२१॥ उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् । गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥२२॥ गृत्समद उवाच । धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः । विद्या व्रतादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥२३॥ अहो साक्षाद्गणेशानो ब्रह्मेंद्रो दृष्टिमागतः । मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥२४॥ एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् । तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥२५॥ ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः