भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 595, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 595

पान ६६

दानमार्गेण स ददौ द्रव्यं नानाविधं विधे । तथापि तादृशं तत्र रेजे सोऽपि सुविस्मितः ॥७४॥ एतत्ते कथितं किंचित् दूर्वामाहात्म्यमुत्कटम् । गणेशतोषकं पूर्णं सर्वसिद्धिप्रदायकम् ॥७५॥ गणेशरोमकूपेषु ब्रह्मांडानि ह्यनेकशः । ब्रह्म नानाविधं देहे स्थितं तस्य प्रजापते ॥७६॥ तत्सर्वं तृप्तिमायाति तृप्ते विघ्नेश्वरे परे । फलं तस्य च लोके को वर्णयेद्बद मानद ॥७७॥ त्रैलोक्यादिकमेतस्मान्न तुल्यं दूर्वया भवेत् । अपारपुण्यदा प्रोक्ता गणेशे तोषकारिणी ॥७८॥ दूर्वाया महिमा दक्ष कथितो ब्रह्मदायकः । भुक्तिमुक्तिप्रदः पूर्णः पठते शृण्वते भवेत् ॥७९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । श्रुतं दूर्वार्पणस्याऽपि माहात्म्यं सर्वसिद्धिदम् । न दूर्वया समं किंचिद् दृश्यते भुवनेषु वै ॥१॥ तथापि तृप्तिं नो यामि योगामृतपरायणः । अतो मे वद योगींद्र जनकस्य कथानकम् ॥२॥ गणेशेन महायोगी जनकश्छलितोऽभवत् । किं चकार ततः सोऽपि गते विघ्नेश्वरे वद ॥३॥ मुद्गल उवाच । शृणु प्रजापते चित्रं चरित्रं जनकस्य च । गते गणेश्वरे सोऽपि दुःखयुक्तो बभूव ह ॥४॥ शुशोच हृदि संक्षुब्धो जगाद स्वस्य चेतसि । अहो नारदविप्रेण कथितं सत्यमेव तत् ॥५॥ देहो भक्तिकरः प्रोक्तो न भजेद्यस्तमाप्य सः । गजाननं नरो नित्यं वंचितो मायया परम् ॥६॥ कर्मनिष्ठैर्गणेशानः सेव्यः स्वहितकारणात् । तपःफलप्रदः सेव्यः तपोनिष्ठैस्तथाऽपि सः ॥७॥ ज्ञाननिष्ठैः सदा सेव्यो ज्ञानसिद्धिप्रदायकः । योगिभिर्योगदाता स सेव्यो ब्रह्ममयः प्रभुः ॥८॥ अहो देहधरः साक्षाद्ब्रह्मणस्पतिवाचकः । वेदेषु कथितश्चायं गणेशो नात्र संशयः ॥९॥ संत्यज्य मूर्खवद्भ्रांतोऽहं गणेशं प्रभावतः । योगस्य चावदं मिथ्या नरतुल्यस्वभाववान् ॥१०॥ गणेशभजनं मुख्यं धृतं येन महात्मना । स योगींद्रगुरुः साक्षात्तत्समं नैव विद्यते ॥११॥ एवं क्षोभसमायुक्तो जनकः स्वगृहे स्थितः । समायुयुश्च योगींद्रास्तं नवर्षभनंदनाः ॥१२॥ नग्नाः सर्वत्र पूज्याश्च सदा यौवनधारकाः । अव्याहतास्त्रिलोकेषु भ्रमंतः स्वेच्छयाचराः ॥१३॥ सर्ववंद्याः सदा दक्ष ब्रह्मभूयपरायणाः ।