मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 594, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २९ पान ६५ सर्वाधार सुमूर्तये । वक्रतुडाय सर्वेषां नमः पूज्याय ते नमः ॥५०॥ आदिमध्यांतहीनाय तदाकाराय ढुंढये । ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥५१॥ सर्वांदिशूर्पकर्णाय पूर्णाय धरणीधर । शेषनाभिविभूषाय नमश्चिंतामणे नमः ॥५२॥ सिद्धिबुद्धिप्रदात्रे ते स्वानंदे वासकारिणे । भक्तेभ्यः शांतिदात्रे वै शांतिस्थाय नमो नमः ॥५३॥ सिद्धिबुद्धिवरायैव नमो मूषकवाहन । गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने ॥५४॥ धन्यौ माता पिता नाथ कुलशीलादिकं च मे । येन दृष्टो गणाधीशो वेदांतागोचरो विभुः ॥५५॥ वेदा विदुर्नों न च योगिनोऽयं ब्रह्मादयो वेदविदः शिवादयः । शांत्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न संशयः ॥५६॥ परात्परस्त्वं परमप्रमेयः कथं महात्मन् सदने गतो मम । न मत्समो ह्मांडकटाहमध्ये गणेश ते पादसमीपगादहो ॥५७॥ एवं संस्तुवतस्तस्य सस्त्रीकस्य महामुने। अत्यंतभक्तिमाहात्म्यात् कंठरोधः समाभवत् ॥५८॥ ननर्त परमानंदयुक्तस्तत्र प्रजापते । सरोमांचो न सस्मार यथा भ्रांतश्च साश्रुकः ॥५९॥ ततस्तं गणनाथो वै जगाद वचनं हितम् ॥ स्वयं साश्रुः सरोमांचो भक्तिं दृष्ट्वा महामुने ॥६०॥ श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं बहु । भविष्यति जनानां वै मुने मद्भक्तिवर्धनम् ॥६१॥ यः पठिष्यति यो मर्त्यः श्रोष्यते सर्वमालभेत् । भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेत् ॥६२॥ वरान् वृणु महायोगिंस्त्रिशिरो मनसीप्सितान् । सर्वं दास्यामि भक्त्या ते तोषितोऽहं न संशयः ॥६३॥ गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः । उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः ॥६४॥ त्रिशिरा उवाच । मां मोहयसि किं नाथ न वृणोमि गजानन । सर्वं भ्रांतिप्रदं मत्वा भक्तिं याचे त्वयि स्थिराम् ॥६५॥ श्रुत्वा जगाद तं विघ्नराजोऽसौ विस्मितोऽभवत् । अहो यः सुदृढां भक्तिमेकां वृणोति वाडवः ॥६६॥ श्रीगणेश उवाच । पूर्णां भक्तिं महायोगिन् लभसे नात्र संशयः । मदीयां ते वशे नित्यं भविष्यामि तया किल ॥६७॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । सस्त्रीकस्त्रिशिरास्तत्र खेदयुक्तो बभूव ह ॥६८॥ गणेशकृपया तत्र गृहं तस्य महामुनेः । शुशुभे रत्नसंयुक्तं सुवर्णभित्तिराजितम् ॥६९॥ द्वारि नाना जनास्तत्र सुवर्णयष्टिधारकाः । स्थितास्तथा स्त्रियो दासाः सेवां कर्तुं सुलालसाः ॥७०॥ नानासंपत्तिसंयुक्तं दृष्ट्वाऽसौ विस्मितोऽभवत् । तावद्दासाश्च तं गृह्य सेवां चक्रुः स्वभाविकाः ॥७१॥ तद् दृष्ट्वा परमाश्चर्यं मुनिः पत्नीं समब्रवीत् । माया भक्तिप्रणाशार्थं दत्ता विघ्नेश्वरेण च ॥७२॥ अतो यत्नसमायुक्ता भुंक्ष्व भोगान् महासति । एवं मदविहीनौ तौ परं बुभुजतुः सुखम् ॥७३॥