मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 593, कुल 1023 में से
संदर्भ में पढ़ेंसुतुष्टिदम् ॥२५॥ भक्षयित्वा तदपि स ययाचेऽन्नं महामुनिः । ततोऽपक्वं ददौ तस्मै तद् बभक्ष द्विजोत्तमः ॥२६॥ ततो राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः । अन्नं बभक्ष तत् सोऽपि ययाचे तं धरापतिम् ॥२७॥ पुरप्रांते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् । अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ॥२८॥ ययाचे स नृपं विप्रो देह्यन्नं राजसत्तम । राज्ञा लज्जासमायुक्तो न किंचित्तमुवाच ह ॥२९॥ राजानं मुनिवर्यश्च जगाद प्रहसन्निव । त्वं गणेशो न संदेहः कथं सत्ताविवर्जितः ॥३०॥ अकर्तुं कर्तुमथैवान्यथा कर्तुं गजाननः । समर्थस्त्वं कथं राजंस्तूष्णीं तिष्ठसि तद् वद ॥३१॥ भ्रांतो योगमदेनासि राजेंद्रोत्र न संशयः । प्रत्यक्षं नरतुल्योऽसि न गणेशो मतः कदा ॥३२॥ एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपधृक् । बहिर्निःसृत्य लोकान् स ययाचेऽन्नं क्षुधातुरः ॥३३॥ लोकाः सर्वे समृचुस्तं सर्वेषां गृहगं मुने । राज्ञा समाहृतं चान्नं त्वया सर्वं प्रभक्षितम् ॥३४॥ नास्मद्गेहेऽधुना किंचिदन्नं त्वं गच्छ वाडव । सर्वभक्षः कुतो यातः कोऽसि न ज्ञायते जनैः ॥३५॥ श्रुत्वा सोऽपि हसन् विप्रो बभ्राम यत्र तत्र तु । पुरप्रांते गतो दैवाद् ददर्शेदं वाडवालयम् ॥३६॥ त्रिशिरा मुनिवर्यश्चायाचिता वृत्तिधारकः । गाणपत्याग्रणीः पत्न्या स विरोचनया युतः ॥३७॥ तं ददर्श गणेशानः प्रविवेश तदाश्रमम् । सर्वापकारसंयुक्तं धातुधान्यादिवर्जितम् ॥३८॥ ययाचे तं महाभागमन्नं तृप्तिकरं मुने । दीयतां मे क्षुधार्ताय गाणपत्यस्वरूपधृक् ॥३९॥ जगाद त्रिशिरास्तत्र ब्राह्मणं वाक्य- मुत्तमम् । मद्गृहे नैव विप्रेंद्र धान्यं किंचित् प्रवर्तते ॥४०॥ दरिद्राणां महाराजोऽहमेको नात्र संशयः । मत्समो मानवो युक्तो दारिद्र्येण न तिष्ठति ॥४१॥ दूर्वांकुराः समानीता गणेशपूजनाय च । तेष्वेको विद्यते विप्र नान्यत् किंचिद् विचारय ॥४२॥ तस्य तद् वचनं श्रुत्वा जगाद क्षुधितो द्विजः । भक्त्या देहि महाभाग दूर्वांकुरं क्षुधापहम् ॥४३॥ ततो विरोचना विप्रं ददौ नत्वा गजाननम् । ध्यात्वा दूर्वांकुरं तस्मै नानान्नं कल्प्य तत्र सा ॥४४॥ भक्त्या दत्तं तया विप्रो बभक्ष प्रीतिसंयुतः । तेन दूर्वांकुरेणैव संतृप्तोऽभून् महामते ॥४५॥ भक्त्या तुष्टो ददौ विप्रं दर्शनं गणनायकः । गजवक्त्रादिचिह्नैश्च युतं रूपं परात्परम् ॥४६॥ दृष्ट्वा लंबोदरं तौ तु प्रणेमतुः पुनः पुनः । तं साश्रुनयनौ पूज्य तुष्टुवतुः कृतांजली ॥४७॥ विरोचनात्रिशिरसावूचतुः । गणेशाय नमस्तुभ्यं नमः सर्वप्रियंकर । ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥४८॥ हेरंबाय परेशाय मूषकध्वजिने नमः । आत्मनेऽनात्मने तुभ्यं नमो लंबोदराय वै ॥४९॥ अनामय ह्यनाधार