भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 592, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 592

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यत्त्वं शृणु माहात्म्यं दूर्वायाः स्वसुखप्रदम् । यया तृप्तिसमायुक्तो बभूव द्विरदाननः ॥१॥ एकदा नारदो योगी जगाम जनकालयम् । पूजितो जनकं सोऽपि जगाद हर्षसंयुतः ॥२॥ नारद उवाच । धन्यस्त्वं गणनांथस्य भक्तः परमभाविकः । मनेप्सितं गणाध्यक्षो ददते ते नियंत्रितः ॥३॥ नारदस्य वचः श्रुत्वा तं प्रहस्य महामुनिम् । जगाद जनको वाक्यं योगयुक्तं स योगवित् ॥४॥ जनक उवाच । याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः । पूर्णशांतिप्रदो विप्र गाणेशो नात्र संशयः ॥५॥ एकाक्षरं गणेशस्य ददौ मंत्रं सुसिद्धिदम् । मह्यं स कृपया योगिन् साधनं प्रजगाम ह ॥६॥ तथा मया महायोगिन् साधितं ज्ञानमुत्तमम् । गणेशकृपयाऽहं तु योगी जातो गुरुर्यथा ॥७॥ अतोऽहं गणनांथश्च न भिन्नौ मुनिसत्तम । गणेशस्य कृपा कुत्र वर्तते भेददायिनी ॥८॥ मया यच्चिंतितं तत्तत् कथं ददाति विघ्नपः । अयोगिनामिदं सर्वं भ्रांतिदं भवतीत्यहो ॥९॥ पंचधा चित्तवृत्तिश्च तासां प्रकाशकारकः । चिंतामणिः स्वयं साक्षात् खेलति हृदि संस्थितः ॥१०॥ जनकः कुत्र योगींद्र वर्तते वद सांप्रतम् । तस्योपरि गणेशस्य कृपादिकमिदं मुने ॥११॥ अहं हर्ता अहं कर्ताऽहं पाता च मदात्मनाम् । भ्रांतवद्भाषणं योग्यं नैव ते योगिसत्तम ॥१२॥ जनकस्य वचः श्रुत्वा नारदः क्रोधसंयुतः । उवाच तं महाभागं निर्भर्त्स्य जनकं पुनः ॥१३॥ नारद उवाच । ज्ञानमत्तोऽसि राजेंद्र नश्वरस्त्वं कथं भवेः । गणेशाकाररूपश्च देहवान् भ्रमधारकः ॥१४॥ ब्रह्मणस्पतिनामा वै गणेशो वेदवादतः । शरीरे तस्य सा सत्ता वर्तते पूर्णभावतः ॥१५॥ योगिदेहेन सा सत्ता कदापि नृप वर्तते । समाधिना च योगींद्रो गणेशः कथितो बुधैः ॥१६॥ प्रारब्धदेहधारित्वान्नरो योगी न संशयः । नरतुल्या शरीरेस्य भवेत् सत्ता हि सर्वदा ॥१७॥ गर्विष्ठो योगमाहात्म्या- ज्जनक त्वां विशेषतः । भविता गर्वभंगस्ते गजाननप्रसादतः ॥१८॥ एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ । तं प्रणम्य विनीतः स वृत्तांतं प्रजगाद ह ॥१९॥ पुनः प्रणम्य विघ्नेशं ययौ स्वेच्छाचरो मुनिः । नारदो गणनांथस्य गाना- सक्तो महामतिः ॥२०॥ ततो गजाननो भूपं वृद्धब्राह्मणरूपधृक् । आययौ जनकं कुष्ठी कृमिभाराकुलः पतन् ॥२१॥ कंपेन संयुतः सोऽपि दुर्गंधेन समावृतः । पूयशोणितघर्मौघैर्व्याप्तश्च मक्षिकावृतः ॥२२॥ द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः । ययाचे तं नृपं विप्रो भोजनं तोषकारकम् ॥२३॥ राज्ञा संपूजितो विप्रो बुभुजेऽन्नं समागतम् । अन्नं पुनर्ययाचे तं पुष्कलं प्रददौ नृपः ॥२४॥ तदेव तेन संभुक्तं पुना राजा भयाकुलः । अयुतानां समं तस्मै ददावन्नं