मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 591, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । दूर्वाया महिमा यत्र ज्ञायते मानवैः परः ॥१॥ दंडकारण्यदेशस्थो बभूवांत्यजजः पुमान् । पिशुनो नाम दुर्बुद्धिः पापकर्मपरायणः ॥२॥ चौरकर्मा वने गत्वा जनान् जघान दारुणः । क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमग्रभत् खलः ॥३॥ शिश्नोदरपरो भूत्वा विचचार वनांतरे । ग्रामे च नगरे वाऽपि शस्त्रधारी दुरात्मवान् ॥४॥ ब्रह्महत्यादिकं पापमपारं स चकार ह । न वक्तुं शक्यते दक्ष मया तस्य चरित्रकम् ॥५॥ एकदा वनसंस्थोऽयं द्विजं दृष्ट्वा महाखलः । कोटरात् स विनिःसृत्याधावच्छस्त्रधरः स्वयम् ॥६॥ तमागतं समालोक्य कालं दंडधरं यथा । पपाल स द्विजस्तस्मात् हाहाकारकरो भृशम् ॥ ७ ॥ द्विजशब्दं समाकर्ण्य क्षत्रिया आगता वनात् । दैवयोगेन पंचैव समीपे मार्गयायिनः ॥ ८ ॥ तैः शस्त्रैः स हतः पापी ममार च पपात ह । ब्राह्मणो हर्षसंयुक्तः स्वाश्रमं चागतोऽभवत् ॥९॥ ततो यामाः प्रगृह्यैव पिशुनं तं महाखलम् । रौरवे ते विनिक्षिप्य नरके पाचयंस्तदा ॥१०॥ पंचमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै । नरकः शांतरूपश्च यातनावर्जितोऽभवत् ॥११॥ तं दृष्ट्वा परमाश्चर्यं यमदूता यमं ययुः । वृत्तांतं कथयामासुर्नर्रकस्य सुशांतिजम् ॥१२॥ तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्थो बभूव ह । ज्ञात्वा तान् कथयामास स्मृत्वा लंबोदरं प्रभुः ॥१३॥ धर्मराज उवाच । पिशुनोऽयं महापापी चांडालो नाऽत्र संशयः । न योग्यो नरके दूता अधुना पुण्यवान्भूत् ॥१४॥ यत्राऽयं तु मृतस्तत्र गाणपत्यः समागतः । तस्य मस्तकगा दूर्वा पपात पिशुनोपरि ॥१५॥ यस्य स्पर्शो भवेद् दूता अस्थिकस्य शवस्य वा । तस्य पापं लयं सर्वं गमिष्यति न संशयः ॥१६॥ पुण्यराशिर्भवेत् सोऽपि सर्वमान्यो विशेषतः । अत एनं तु निष्कास्यानयंत्तु मम संनिधौ ॥१७॥ यमस्य वचनं श्रुत्वा विस्मितास्ते समाययुः । निष्कासितुं समुद्युक्तास्तावच्चित्रं बभूव ह ॥१८॥ गणेशदूतसंयुक्तं विमानं नेतुमाययौ । तं गृह्य गाणपत्यास्ते ययुः स्वानंदकं पुरम् ॥१९॥ पिशुनं ब्रह्मभूतं ते चकुर्हर्षसमन्विताः । पूर्वदेहस्य दूर्वायाः स्पर्शं भक्तिपरायणाः ॥२०॥ धर्मोऽति- विस्मितो भूत्वा तान् जगाद स्वसेवकान् । अहो पश्यत दूतेशा दूर्वामाहात्म्यमुत्कटम् ॥२१॥ धन्योऽयं पिशुनो पापी यस्य देहे समागता । दूर्वा यया विशेषेण योगिनां पदगोऽभवत् ॥२२॥ महिमानं तु दूर्वायाः को जानाति समग्रकम् । शवस्पर्शन दूतेशा ब्रह्मभूतपदप्रदम् ॥२३॥ तानुक्त्वा साश्रुनेत्रः स बभूव रविनंदनः । गणेशं मन्यते नित्यं भजते भक्तिसंयुक्तः ॥२४॥ इदं दूर्वाभवं चित्रं माहात्म्यं यः शृणोति चेत् । पठति तस्य विघ्नेशो वाञ्छितं ददते सदा ॥२५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः ॥