मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 590, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २७ पान ६१ प्रिया । भविष्यसि न संदेहो मदूरादन्ननायिके ॥५१॥ महामंगलदा प्रोक्ता मम प्रीतिविवर्धिनी । भविष्यसि तु लोकानां शुभमंगलदायिका ॥५२॥ त्वत्पत्रेण नरा भूमावर्चयिष्यंति देवपान् । न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥५३॥ शक्तेश्चावतारा ये लक्ष्मीललितिकादयः । तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥५४॥ शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा । अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥५५॥ मदीया भक्तिरत्यंतं दृढा ते प्रभविष्यति । मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥५६॥ मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः । करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥५७॥ दूर्वापत्रं विना देवि पूजयिष्यंति मां नराः । तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥५८॥ दूर्वासमं न मे किंचित् पूजायां सुप्रियं भवेत् । विना दूर्वां निराहारी भविष्यामि निरंतरम् ॥५९॥ त्यक्त्वा दूर्वादलं ये वै पूजयिष्यंति मानवाः । शत्रवस्ते मता नित्यं नरकेषु पचंतु ते ॥६०॥ येनार्पितं च पूजायां दूर्वापत्रं महामते । तेनापारमयं सर्वं दत्तं मह्यं विशेषतः॥६१॥ दूर्वापत्रेण संतुष्टो दास्यामि सकलं च मे । ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥६२॥ ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् । पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥६३॥ एवमुक्त्वा गणेशानोऽतर्दधे च प्रजापते । दूर्वा हर्षसमायुक्ता विघ्नेशं भजते परम् ॥६४॥ यथा लंबोदरेणैव कथितं तादृशं नराः । देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः ॥६५॥ सर्वमंगलरूपा सा बभूवे पापनाशिनी । गणेशवरदानेन गाणपत्या तथाऽभवत् ॥६६॥ एतत्ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम् । शृण्वते पठते तस्मै भुक्ति- मुक्तिप्रदं भवेत् ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः ॥