मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 586, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २६ पान ५७ वायुबलेनैव शमीपत्रं समाययौ। तस्य स्पर्शोऽभवत्तस्य दैवयोगात् प्रजापते ॥१५॥ तं नेतुं यमदूताश्च समाजग्मुर्महाबलाः । गाणेशास्तत्र संयाताः समकाले नराधमम् ॥१६॥ यमदूतांस्तिरस्कृत्य गाणेशास्तं प्रगृह्य वै। गंतुं समुद्यता यावत्तावत्ते तान् प्रदुद्रुवुः ॥१७॥ मुसलेन हताः पेतुर्यमदूता महीतले । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥१८॥ यमदूता यमं गत्वा शोकदुःखसमन्विताः । वृत्तांतं कथयामासुः क्रोधेन परिपूरिताः ॥१९॥ यामा ऊचुः । स्वामिन् शास्त्रकराः केचिद्बभूवुर्भूमि- मंडले। त्वदाज्ञावशगं सर्वं वर्तते कुत्र तद् गतम् ॥२०॥ त्वं साक्षाद्धर्मराजश्च यथा वेदार्थवान् प्रभुः । वर्तसे तेन सर्वं वै त्वदाज्ञावशगं मतम् ॥२१॥ शंभुविष्णुमुखा देवा धर्माधारा भवंति वै। धर्मयुक्तस्वभावेन वर्तेरन्नात्र संशयः ॥२२॥ महा- पापी विशालाक्षो नाम शूद्रो ममार ह। तं गृहीतुं वयं तत्र गताः पाशधराः प्रभो ॥२३॥ अकस्मात्तत्र संयाता पुरुषाः परमाद्भुताः । शुंडादंडधराः सर्वे चतुर्बाहुविराजिताः ॥२४॥ अस्मांस्ते तु तिरस्कृत्य तं शूद्रं गृह्य सूर्यज । गंतुं समुद्यता यावत्तावद्योद्धुं वयं स्थिताः ॥२५॥ निपात्य नो महावीर्या मुसलेन प्रगृह्य तम् । गताः कुत्र न जानीमोऽधुना सर्वे महामते ॥२६॥ अतस्तं यत्नसंयुक्तो मदं तेषां हरस्व च । एवमुक्त्वा प्रणम्यैनं स्थिताः प्रांजलयोऽभवन् ॥२७॥ मुद्गल उवाच । तेषां तद्वचनं श्रुत्वा ध्यानस्थोऽभून् महामतिः । यमः सर्वं विदित्वा तु भयं दध्रे महायशाः ॥२८॥ ध्यात्वा गजाननं देवं हृष्टरोमा च साश्रुकः । हृदि प्रणम्य विघ्नेशमुवाच भयसंकुलः ॥२९॥ मदीयकिंकरैः स्वामिन्नपराधः कृतो महान् । तं क्षमस्व दयासिंधो प्रभो ह्यज्ञानसंयुतैः ॥३०॥ गाणपत्यैर्महाभागैर्विवादो नैव शोभनः । स एव तु मया प्राप्तो भाग्यहीनबलेन च ॥३१॥ एवं क्षमाप्य विघ्नेशं स्थितं मनसि किंकरान् । आकार्य भानुजः सर्वान् जगाद वचनं हितम् ॥३२॥ यम उवाच । मंदारमालाश्मिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् । पुष्पं तयोः पत्रयुतं च शूराः संत्यज्य दूरं चरत प्रभीताः ॥३३॥ दूर्वायुतं विघ्नहरस्य गाथां संगायमानं यदि पापयुक्तम् । पूजादिकारं गणनायकस्य संत्यज्य दूरं चरत प्रभीताः ॥३४॥ गणेश हेरंब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदंतमेवं त्यजत प्रभीताः ॥३५॥ अनेकविघ्नांतक वक्रतुंड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीश देवांतकनाशकारिन् वदंतमेवं त्यजत प्रभीताः॥३६॥ महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र । परेश धरणीधर एकदंत वदंतमेवं त्यजत प्रभीताः ॥३७॥ प्रमोदमौदेति नरांतकारे षडूर्मिहंतर्गजकर्ण ढुंढे । द्वंद्धारिसिंधौ स्थिरभावकारिन् वदंतमेवं त्यजत प्रभीताः ॥३८॥