मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 585, कुल 1023 में से
संदर्भ में पढ़ेंदूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥७६॥ शमीमंदारसामीप्ये पूजयेन् मां च मानवः । तेनाप्यसंख्यका पूजा कृता मे नाऽत्र संशयः ॥७७॥ एवमुक्त्वा पुनस्तौ स जगाद गणनायकः । मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥७८॥ तदा मंदारवृक्षस्य मूलजां मूर्तिमादरात् । कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥७९॥ शमीमंदारदूर्वाभिः संतुष्टोऽहं भवामि तु । नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥८०॥ तुलसीवर्जितां पूजां मदीयां कुरुतं सदा । शमीमंदारमालाभिर्जपं मे कुरुतं सदा ॥८१॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥८२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शमीमंदारवरप्रदानं नाम पंचविंशतितमोऽध्यायः ॥
❖
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो धौम्यं समागम्य शौनको हर्षसंयुतः । कथयामास वृत्तांतं सोऽपि संहर्षितो- ऽभवत् ॥१॥ धन्यो मे वृक्षगः पुत्रः सर्वसिद्धिप्रदायकः । साक्षाद्गणेशरूपश्च सर्वेषां वंद्य आदरात् ॥२॥ शमीसमीपगो हर्षसंयुक्तस्तत और्वकः । तताप तप उग्रं स शमीसंयोगकारणात् ॥३॥ स एव मरणे तत्र शमीगर्भस्थितो ह्यभूत् । अग्निरौर्वाभि- धानश्च गाणपत्यो महायशाः ॥४॥ कल्पांते गणनाथं स ययौ योगसमन्वितः । शौनकश्च तथा ढुंढिमभजत् स्नेहसंयुतः ॥५॥ मंदारमूलजां मूर्तिं कृत्वा पूजापरायणः । शमीमंदारदूर्वाभिस्तोषयामास विघ्नपम् ॥६॥ शमीमंदारमालाभिः शुशुभे ब्राह्मणोत्तमः । गाणपत्यस्वरूपेण तथा धौम्यो बभूव ह ॥७॥ भृशुंडी तद्भवं वृत्तं श्रुत्वा हर्षसमन्वितः । आगत्य स्वाश्रमे संस्थौ ननाम वृक्षसत्तमौ ॥८॥ नित्यं पुपूज च शमीं मंदारं भक्तिसंयुतः । शमीमंदारदूर्वाभिः पूजयामास विघ्नपम् ॥९॥ शमीमंदारमालाभिर्भूषितो मुनिसत्तमः । शुशुभे गाणपत्येषु गणराज इवापरः ॥१०॥ एवं ये ये स्थिता दक्ष गाणपत्या विशेषतः । ते ते सर्वे शमीमंदारपूजासंयुता बभुः ॥११॥ एतत्ते कथितं सर्वं शमीमंदारसंभवम् । माहात्म्यं पुनरन्यत्त्वं शृणु पापहरं परम् ॥१२॥ द्राविडे शूद्रयोनिस्थो बभूवे पापकारकः । वनं गत्वा जनान् हत्वा द्रव्यलोभी दुरात्मवान् ॥१३॥ एकदा वनमध्यस्थोऽभवत् व्याघ्रेण धर्षितः । पपात भयभीतश्च सद्यस्तेन प्रभक्षितः ॥१४॥ तत्र