मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 632, कुल 1023 में से
संदर्भ में पढ़ेंवर्णितोऽयं शिववरबलेनैव मुनींद्रकैः ॥२६॥ स्वसत्तासंयुक्तो देवो नाऽयं चिंतामणिः कदा । शिवभक्तिबलेनाद्यो वरयुक्तो बभूव ह ॥२७॥ कलिप्रांते मुने लोका न भजिष्यंति मां कदा । एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥२८॥ मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः । शिवविष्ण्वादिकान् सर्वे भजंते त्वग्रपूज्यकान् ॥२९॥ सर्वपूज्याग्रपूज्यत्वं नष्टं भवति मे ततः । अंते विघ्नयुताः सर्वे नरकेषु पचंति वै ॥३०॥ युगमानप्रसिद्ध्यर्थं कृतं मेऽत्र महामुने । कर्माकर्म- विकर्माणि स्थापितानि विभागशः ॥३१॥ न करोमि यदाऽहं चेत्तदा मे वरदानकम् । कर्मभ्यश्च युगेभ्यश्च निष्फलं भवतीत्यहो ॥३२॥ नरकादय आख्याताः स्वर्गाश्चैव महामुने । भवंति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् ॥३३॥ शुभाशुभमयं सर्वं मया स्ववरदानतः । स्थापितं तेन मोहेन मां न जानंति मूलगम् ॥३४॥ एतत्ते सर्वमाख्यातं मदीयं चेष्टितं महत् । मा संशयं मुने त्वं तु कुरु मां भज भावतः ॥३५॥ कपिल उवाच । एवमुक्त्वा गणेशानो मामंतर्धानमाकरोत् । अहं खेदसमायुक्तो हृदये तमलोकयम् ॥३६॥ मयाऽसौ स्थापितश्चिंतामणिर्विप्र परेश्वरः । पूजयामि भजे नित्यं भक्ति- भावसमन्वितः ॥३७॥ एतत्ते कथितं सर्वं रहस्यं तस्य धीमतः । लोकस्य तेन यत् प्रोक्तं भज तं भक्तिसंयुतः ॥३८॥ त्वं साक्षाद्गाणपत्यश्च देहधारी न संशयः । तवदर्शनमात्रेण सर्वे पूता भवंति च ॥३९॥ गार्ग्य उवाच । श्रुत्वैवं मुद्गलो योगी महत् स्वानंदलोकगम् । माहात्म्यं विस्मितो भूत्वा प्रणाम महामुनिम् ॥४०॥ चिंतामणिं समभ्यर्च्य प्रणम्य कपिलं पुनः । मुद्गलः स्वाश्रमं राजन् प्रययौ गणपे रतः ॥४१॥ एवं ते सर्वमाख्यातं भज तं भावसंयुतः । अनेन जडदेहेन स्वानंदं लभसे नृप ॥४२॥ मुद्गल उवाच । एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः । अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ॥४३॥ ऐलोऽपि गणराजं तं लक्षसंज्ञं निरंतरम् । सेव्यस्वानंदगो भूत्वा भजते तं प्रजापते ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते चिंतामण्यंतर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥