मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 633, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः॥ दक्ष उवाच। धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानंदजां कथाम्। विस्मितो योगिराजेंद्र न समं तस्य विद्यते ॥१॥ अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम्। गार्गेयेण नृपशार्दूल उपदिष्टः किमाचरत् ॥२॥ गणेशलोकगः सोऽपि बभूव वद तत्कथम्। अत्र तत्र गणेशानं भजते कथमप्यहो ॥३॥ मुद्गल उवाच। गार्गेयेण नृपवर्यश्च गाणपत्येन शिक्षितः। गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥४॥ स्कंदेन स्थापितस्तत्र लक्षो नाम गजाननः। तं नित्यं सेवया- मासानन्यभावेन विघ्नपम् ॥५॥ न गणेशात् परं किंचिज्जानाति नृपसत्तमः। एकनिष्ठः स्वभावेनाभजत्तं लक्षविघ्नपम् ॥६॥ दक्ष उवाच। एकनिष्ठात्मिकां भक्तिं वद मेऽन्यां च मुद्गल। यया विघ्नेश्वरः साक्षात् संतुष्टो जायते नृणाम् ॥७॥ मुद्गल उवाच। पंचायतनपूजां वै तथाग्नेः सेवनं परम्। द्विजानां नित्यमेतत्ते कथितं सर्वसंमतम् ॥८॥ विघ्नरूपं महाघोरं परत्रेह च बंधकम्। ब्रह्ममार्गस्य संरोधकारकं विद्धि सर्वदा ॥९॥ तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः। विद्यार्थं शंकरं सोऽपि पूजयेन्नित्यमादरात् ॥१०॥ यशोर्थं केशवं चैवारोग्यार्थं रविमंजसा। सौभाग्यार्थं नरस्तद्वत् पूजयेज्जगदंबिकाम् ॥११॥ अग्निं होमादिमार्गेण पूजयेत् कर्मसिद्धये। देवादीनां विभागार्थं सर्वेषां तोषकारकम् ॥१२॥ एवं मत्वा तु यो मर्त्यः करोति सेवनं सदा। स्वधर्मस्य प्रजानाथ ब्रह्मार्पणतया किल ॥१३॥ अथवा कामनायुक्तः स चेत्तदपि तादृशम्। कुर्यात् कर्मांगदेवेभ्यः समर्प्य सकलां क्रियाम् ॥१४॥ सर्वे समानरूपाश्च तस्य प्रोक्ताः प्रजापते। स्वधर्माचरणं श्रेष्ठं जानीते सर्वसौख्यदम् ॥१५॥ तत्र विघ्नेश्वरं साक्षान् मध्ये संस्थाप्य सर्वदा। ईशान्यं विष्णुमेव त्वाग्नेय्यां शंभुं प्रपूजयेत् ॥१६॥ नैर्ऋत्यां जगदंबां च वायव्यां रविमादरात्। पंचायतनभावेन पूजयेत् पंच देवताः ॥१७॥ सर्वेषां पूज्यभावाद्वै सर्वाग्रे पूज्य भावतः। ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नपः ॥१८॥ अथवा पंचदेवेषु मंत्रं गृह्य स्वभावजम्। एकस्य तस्य मध्ये स स्थापनं कुरुते स्वयम् ॥१९॥ सर्वं कलांशरूपस्थं पंचायतनकस्य वै। पूजितेषु प्रजानाथ पंचसु पूजितं जगत् ॥२०॥ देवेन कार्यसिद्धयर्थं नाना देवाः कृताः पुरा। ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै ॥२१॥ इयं सर्वात्मिका भक्तिः कथिता च प्रजापते। स्वेष्टभावेन सर्वत्र परात्तत् ध्यानकारणात् ॥२२॥ अधुना शृणु दक्ष त्वमेकनिष्ठां महाद्भुताम्। स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् ॥२३॥ स्वस्येष्टदेवतायां तु विश्वं सर्वं प्रतिष्ठितम्। तस्य पूजनमात्रेण सर्वं संपूजितं भवेत् ॥२४॥ अनंतरूपभावेन सर्वत्र कलया स्वयम्। तिष्ठति पूजनं तेषां न भवेद्देहधारिणाम् ॥२५॥ चराचरमयो